वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 59, कुल 490 में से
संदर्भ में पढ़ेंमण्डलं चतुरस्रं तद्वर्णिकैः समलङ्कृतम् ॥
तत्र भद्रासनं सम्यगर्चयेत्सुमनोरमम् ।
गङ्गातोयसमापूर्णस्वर्णकुम्भोदकैः सह ॥
दिग्विदिक्षु स्थितैः शुक्लगन्धमाल्याम्बरार्चितैः ।
शतौषधीमूलहेमरत्नद्वीजपल्लवैः ॥
मृत्तिकावृषशृङ्गं च गजदन्तं च रोचनम् ।
उत्पलं पद्मकं पद्ममुरारेणुककुङ्कुमम् ॥
राजसर्षपमुस्तं च देवदारुसमन्वितम् ।
देवस्यत्वेतिमन्त्रेण आयुःपुष्टियशस्करैः ॥
आभिषेकैर्वेदमन्त्रैः शुभलग्ने शुभान्विते ।
भद्रासनस्थे नृपतावभिषेकं तु कारयेत् ॥
नीराजनं च कर्त्तव्यं शङ्खवादित्रनिःस्वनैः ।
आशिषो वाचनं कृत्वा चार्चयेच्च सुरान् पितॄन् ॥
आयुधानि च पट्टं च विप्रान् गन्धादिनाऽर्चयेत् ।
ब्रूयात्प्रत्यङ्मुखो राजा नमामि त्वोद्धरेति च ॥
प्राच्यां त्वामभिषिञ्चन्तु वसवस्तेजसे श्रियै ।
याम्यायामभिषिञ्चन्तु त्वां रुद्रा विजयाय च ॥
आदित्या अभिषिञ्चन्तु प्रतीच्यां दिशि वृद्धये ।
विश्वेदेवास्तथोदीच्यामभिषिञ्चन्तु पुष्टये ॥
दिगीशास्त्वभिषिञ्चन्तु त्वां सदा विजयाय च ।
साम्राज्यमितिमन्त्रेण राजानं सम्यगर्चयेत् ॥
व्याघ्रचर्मण्यथासीनं नवालङ्कारभूषितम् ।
भृत्यचामरसंयुक्तं राजचिह्नसमन्वितम् ॥
पुरोहितश्च जुहुयात्सावित्र्याऽसौ प्रयत्नतः ।
उदुम्बरसमिद्भिश्च आज्येनाष्टोत्तरं शतम् ॥