सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 63, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 63

पूर्वराजमरणोत्तरनूतनराजाभिषेके विशेषः । ६१
मखेषु राष्ट्रेषु पुरेषु चैव सेनासु राज्ञां स्वनिवेशनेषु ।
य उत्पातास्त्रिविधा घोररूपास्तान् सर्वान् शमयेद्ब्रह्मवेदवित्॥इति।
ब्रह्मवेदोऽथर्ववेदः । बह्वृचादिनिषेधस्याथर्ववेदवेत्तरि शा-
न्त्यादिवेत्तरि तात्पर्यम्, न तु बह्वृचादिनिषेधे ।
तथा, यस्यान्यकुलोपयुक्तपुरोधाः शान्तिकपौष्टिकप्रायश्चि-
त्ताभिचारिकनैमित्तिकौर्ध्वदेहिकान्यथर्वाविहितानि कर्माणि कु-
र्यात्स तस्य प्रत्यङ्गिरा भूत्वा हस्त्यश्वरथपदात्यादीनि नाशयेत्-
इत्याद्युक्तम् । अस्यापि शान्त्यादिज्ञातरि तात्पर्यम्, न
त्वथर्ववेदवेत्तरि । स च ब्राह्मण एव कार्यः । तदुक्तम्-
ऐतरेयब्राह्मणे,
न ह वा अपुरोहितस्य राज्ञो देवा अन्नमदन्ति तस्माद्राजा
यक्ष्यमाणो ब्राह्मणं पुरो दधीत देवा मेऽन्नमदन्ति । इति ।
पूर्वराजमरणोत्तरं नूतनराजाभिषेके विशेष उक्तो-
विष्णुधर्मोत्तरे,
मृते राज्ञि न कालस्य नियमोऽत्र विधीयते ।
तत्रास्य स्नपनं कार्यं विधिवत्तिलसर्षपैः ॥
विधिवत् प्राकृतस्नानविधिना ।
घोषयित्वा जयं चास्य सांवत्सरपुरोहितौ ।
अन्यासनोपविष्टस्य दर्शयेतां जनं शनैः ॥
स सान्त्वयित्वा तु जनं मुक्त्वा बन्धनगांस्ततः ।
अभयं घोषयित्वा तु कालाकाङ्क्षी ततो भवेत् ॥
मृत इत्यस्वस्थस्याप्युपलक्षकम् । यदा पूर्वस्मिन् राज्ञि मृते-
ऽस्वस्थे वोत्तरस्याभिषेकस्तदा स्नपनादौ न कालनियमः । त-
त्राभिषेक्तव्यस्य सांवत्सरपुरोहितौ तिलसर्षपैर्विधिवत्स्नपनं कार-