वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 64, कुल 490 में से
संदर्भ में पढ़ेंयित्वाऽस्मिन् राष्ट्रेऽयमिदानीं राजेति जयं घोषयित्वा पूर्वराजा-
सनादन्यासनोपविष्टस्य मुख्यं मन्त्र्यादिकं नागरिकं च जनं द-
र्श्येताम् । ततः सर्वं जनं सत्कृत्य पूर्वराजबद्धान्मुक्त्वा स्वरा-
ष्ट्रेऽभयं घोषयित्वा तदासनगत एव प्रजाः परिपालयन् वर्षा-
न्तराभिषेककालप्रतीक्षया तिष्ठेत् । पूर्वस्मिन् जीवति द्वितीय-
स्याभिषेके स्नपनादिकालप्रतीक्षान्तमकृत्वा शुभे कालेऽभि-
षेक एव कार्यः ।
अथाभिषेकपूर्वकर्त्तव्यैन्द्रशान्तिप्रयोगः ।
शुभेऽह्नि यथाविभवं याज्ञवल्क्याद्युक्तप्रकारेण विनायकशान्तिं
नवग्रहमखं च कृत्वा उपकल्पितसमस्तसम्भारः सपत्नीको रा-
जा सांवत्सरादभिषेकदिनशुद्धिं विदित्वा तत्पूर्वदिवसे पुरोहि-
ताचार्यसांवत्सरादीन् सन्निधाप्य शुचौ देशेऽन्तर्जानुकर उपवि-
श्येष्टदेवगुरुद्विजकुलज्येष्ठान् नत्वा दर्भपाणिराचम्य प्राणाना-
यम्य तिथ्यादि सङ्कीर्त्य करिष्यमाणराज्याभिषेकाङ्गत्वेनैन्द्रीं
शान्तिं करिष्य इति सङ्कल्प्य, विजयबलपशुवृष्टिकामनया
परचक्रागमनिवृत्तिकामनया चैन्द्रीं शान्तिं करिष्य इति
काम्यायाम् । तत्र निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं स्वस्तिपु-
ण्याहवाचनं मातृकापूजनाभ्युदयिकश्राद्धाचार्यवरणानि च
तत्पूर्वाङ्गानि करिष्य इति सङ्कल्प्य यथाविभवं षोडशोपचारै-
र्गणपतिमभ्यर्च्य यथास्वगृह्यं स्वस्तिवाचनादि विधायैन्द्रीं शान्तिं
कर्तुमाचार्यं त्वामहं वृण इति पुरोहितं वृणुयात् ।
आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः ।
तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥
इत्याचार्यवरणे मन्त्रः । मधुपर्कादिवस्त्रान्तम् । तत आ-