वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 71, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्ता अभिषेकमन्त्राः । ६९
आयतिर्नियतिश्चैव रात्रिर्निद्रा च पार्थिव ॥
एतास्त्वामभिषिञ्चन्तु लोकसंस्थानहेतवः ।
उमा सेना शची चैव धूमोर्णा निर्ऋतिस्तथा ॥
गौरी शिवा च बुद्धिश्च वलया चैव नन्दना ।
आनृक्या च तथा ज्योत्स्ना या च देवी वनस्पतिः ॥
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ।
महाकालश्च कालश्च मन्वन्तरयुगानि च ॥
संवत्सराणि सर्वाणि तथा चैवायनद्वयम् ।
ऋतवश्च तथा मासाः पक्षा रात्र्यहनी तथा ॥
सन्ध्याश्च तिथयश्चैव मुहूर्त्ताः करणानि च ।
एते त्वामभिषिञ्चन्तु कालस्यावयवाः शुभाः ॥
आदित्यश्चन्द्रमा भौमो बुधजीवासितार्कजाः ।
ग्रहास्त्वामभिषिञ्चन्तु राहुकेतू च पार्थिव ॥
स्वायम्भुवो मनुः पूर्वो मनुः स्वारोचिषस्तथा ।
औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥
वैवस्वतोऽथ सावर्णो दक्षब्रह्मसुतावुभौ ।
धर्मपुत्रो रुद्रपुत्रो रौच्यो भौसश्च यो मनुः ॥
एतं त्वांभीषंश्चन्तु मनवस्तु चतुर्दश ।
विश्वगुर्विश्वपश्चित्रः स्वचित्तैश्च शिखी विभुः ॥
मनोजवस्तथौजस्वी बलिरङ्गतिमान्तिकौ ।
वृषश्च ऋतधामा च दिविस्पृक् शुचिरेव च ॥
एते त्वामभिषिञ्चन्तु देवपालाश्चतुर्दश ।
रेवन्तश्च कुमारश्च तथावर्चाः कुमारकः ॥
वीरभद्रश्च नन्दी च विश्वकर्मा पुरोजवः ।
१ सुशान्तः सुसुखी इत्यपि पाठः ।