सामग्री पर जाएँ
सर्वकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 62, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 62

६० वीरमित्रोदयस्य राजनीतिप्रकाशे

त्मसम्बन्धिनं कुर्यात् । दैवज्ञं ग्रहोत्पाततच्छमनादेर्वेदितारम् ।
उदितोदितं विद्यानुष्ठानादिभिरुदितैः शास्त्रोक्तैः उदितम् ऋद्ध-
म् । दण्डनीत्याम् अर्थशास्त्रे । अथर्वाङ्गिरसे शान्त्यादिकर्मणि ।
यादृशो निषिद्धः पुरोहितस्तादृश उक्त—
आथर्वणपरिशिष्टे,
नातिदीर्घं नातिह्रस्वं नातिस्थूलं कृशं तथा ।
न च हीनातिरिक्ताङ्गं क्वचित्कुर्यात्पुरोहितम् ॥
हीनाधिकाङ्गं पतितं विवर्णं स्तेयिनं जडम् ।
क्लीबमशक्तियुक्तं भिन्नस्वरं काणं विरूपनेत्रं द्वेष्यं च राजा
गुरुं नैव कुर्यात् । इति ।
तादृशस्य करणे फलान्यपि तत्रैवोक्तानि ।
हीनाधिकाङ्गे पुरराष्ट्रहानिः काणे जडे वाहनकोशनाशः ।
स्तेये त्वशक्ते च समस्तदोषाः क्लीवे विवर्णे नृपतिर्विनश्येत् ॥
भिन्नस्वरे जायते गात्रभेदो द्वेष्ये गुरौ विप्रतिपत्तिमाहुः ।
विवर्णनेत्रे पतिते सुपुत्रानध्वर्युणा चैव निहन्ति पौत्रान् ॥
कृष्णे कोशक्षयं विद्याद्वक्ते वाहनसङ्क्षयः ।
पिङ्गलः पार्थिवं हन्याद्राष्ट्रं हन्यात्तु केकरः ॥
बह्वृचं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः ।
सभारः पङ्के हस्तीव सह तेनैव मज्जति ॥
अध्वर्युं हि नियुञ्ज्याद्यः पौरोहित्ये तु पार्थिवः ।
उत्तितीर्षुरिवाश्मानमादत्ते स्ववधाय सः ॥
वधबन्धपरिक्लेशान् कोशवाहनसङ्क्षयम् ।
करोत्येतां च योऽवस्थां तपोयुक्तोऽपि सामगः ॥
अन्वयाकृतिसम्पन्नं तस्माद्भृग्वङ्गिरोविदम् ।
गोत्राङ्गिरसवासिष्ठं राजा कुर्यात्पुरोहितम् ॥