सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)

Veda Swaroop Vimarsha of Swami Karpatri Maharaj

धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished237 पृष्ठ

इस ग्रन्थ के बारे में

'वेदस्वरूप-विमर्श' स्वामी हरिहरानन्द सरस्वती, जिन्हें स्वामी करपात्री जी महाराज के नाम से जाना जाता है, की रचना है। करपात्री जी (१९०७-१९८२) बीसवीं शताब्दी के प्रमुख सनातनी संन्यासी और शास्त्रार्थी थे, जिन्होंने वेद-प्रामाण्य और परम्परागत धर्म के पक्ष में विपुल साहित्य लिखा। यह ग्रन्थ वेद के वास्तविक स्वरूप पर उनका विचार प्रस्तुत करता है।

ग्रन्थ के सम्पादक न्याय-व्याकरण-साहित्याचार्य पं० रामगोविन्द शुक्ल हैं, और इसे भक्ति-सुधा साहित्य परिषद, कलकत्ता ने प्रकाशित किया। संस्कृत में लिखे गए सम्पादकीय निवेदन के अनुसार यह ग्रन्थ उन मतों का युक्ति और प्रमाण से खण्डन करता है जो वेद को आंशिक रूप से ईश्वर-रचित या ऋषि-रचित मानते हैं, जो ब्राह्मण-ग्रन्थों को वेद नहीं मानते, या जो वेद की आधुनिक 'विज्ञानवादी' व्याख्या करते हैं।

ग्रन्थ के मुख्य विषय हैं: वेद की अपौरुषेयता और शब्द की नित्यता, मन्त्र और ब्राह्मण दोनों का वेदत्व, आर्ष व्याख्या-पद्धति, और वेद पर आधुनिक आक्षेपों का उत्तर। मीमांसा-दृष्टि से वेद-प्रामाण्य पर हुई बीसवीं शताब्दी की बहस को समझने के लिए यह एक महत्त्वपूर्ण स्रोत है।

पृष्ठ 109
स्थायी लिंक
पृष्ठ 109 स्कैन

१९४ वेदस्वरूप-विमर्शः
इति तु न युक्तम् । यज् देवपूजासङ्गतिकरणदानेषु इति धातोर्निष्पन्नस्य
याज्ञिकैः परिभाषितस्य द्रव्यदेवतामयस्य संस्कृताग्न्यधिकरण-स्रुक्स्रुक् च-
र्वाद्यधिकरणकाऽऽध्वर्यवाद्विक साध्य - स्वर्गाद्युद्देश्यक-मन्त्रहविरादि-
सम्पाद्यषडहादशा दियागनिर्वर्त्यस्य कर्मविशेषस्यैव यज्ञपदव्यपदेश्यत्वात् ।
अत एव 'द्रव्यं देवता त्यागः' (कात्या० १ अ०) इति यागस्वरूपं
निरूपितम् । देवतोद्देश्येन क्रियमाण-स्वस्वत्वनिवृत्त्यनुकूलो व्यापार
एव यागः । तत्रापि तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्या-
वन्तो यजतयो भवन्ति । उपविष्टहोमाः स्वाहाकारप्रदाना जुहो-
तयः । स्वाभाविकाऽऽशान-प्रदानात्म कप्रक्रियाया एव यज्ञत्वे न सङ्गतिः,
तस्याः स्वतःसिद्धत्वात् विज्ञानानुपपत्तेः, 'विधिरत्यन्तमप्राप्तौ' इति
मीमांसकप्रसिद्धेश्च । ततदारोपेण ब्रह्मज्ञानेऽपि यज्ञत्वारोपः ।
'ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्मसमाधिना ॥'
अत्रापि अर्पणमिति स्रुगादिद्रव्येऽपि ऋत्विङ्मन्त्रादिकं विवक्षितम् ।
अग्निहविरादिवर्णनं तु स्पष्टमेवोक्तम् । यस्मिन्नर्थे यः शब्दो लोके प्रसिद्धः,
वेदेऽपि तस्मिन्नेवार्थे स ज्ञातव्य इतिरीत्या लोकप्रसिद्धयज्ञशब्दार्थो
ग्राह्यः । मन्त्र-ब्राह्मण-सूत्रादिभिर्निरुक्तः पारिभाषिको वाप्यो ग्राह्यः ।
सर्वपदार्थजातं चिद्भिन्नं दृश्यमानमदृश्यमानं वा प्राकृतत्वादेव
परिवर्तमानम् । परिवर्तमानञ्च नैकान्ततः सत्तां जहातीति निरन्वय-
विनाशानभ्युपगन्तॄणां सांख्य-योग-वेदान्तिनामिष्टमेव, 'चलञ्च गुणवृत्तम्,
क्षणपरिणामिनो हि भावा ऋते चितिशक्तेः इत्यादिसिद्धेः ।
सत्त्वरजस्तमसा मपि अङ्गाङ्गिभावतयैव कार्यकारित्वसिद्ध्या तदात्म-
कानां प्राकृतभावाना मपि तथात्वमुचितमेव । तस्मिन्नर्थे यज्ञत्वारोपोऽपि
कर्तुं शक्यते । सत्यप्येवं विधिप्राप्ते एव्यारोपः फलवान्, निष्फलश्चावैधः ।
'योषा वाव गौतमाग्निः इत्यादिरूपेण पञ्चाग्निविद्यासु योषादिष्वग्नि-
दृष्टिः पुरुषशुक्रादिषु हविर्दृष्टिश्च विहितत्वादेव सफला । 'तस्या
वेदिदुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यस्तौ मुष्कौ स
यावान् वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति'

वेदस्वरूप-विमर्शः १९५
इत्यादिना मैथुनकर्मणि वाजपेयत्वसम्पादनमपि विधिबलादेव क्रियते ।
यथा प्रसिद्धस्य सिंहस्य शौर्यक्रौर्यादिगुणयोगेन अन्यत्रा-
रोपेणैव सिंहत्वं व्यपदिश्यते, तथैव केनचिद्गुणयोगेन प्रसिद्धस्य
यज्ञस्यैव अन्यत्र आरोपो भवति । प्रसिद्धयज्ञस्यैव दानादिगुण-
युक्तोऽग्निरिज्यत्वेन देवः, यज्ञापेक्षित-होम सम्पादकत्वेन पुरोहितः,
आहवनीयाग्निरूपेण वा पुरोहितः, देवानां यज्ञेषु होतृकर्मसम्पा-
दकत्वेन च होता ऋत्विगित्याद्युक्तमेव ।
किञ्च-विधिप्रयुक्ताया एवाग्नौ सोमाहुतेर्यज्ञत्वम् । परापचिकर्षया
तदन्नघृतादीनां वह्नौ निक्षेपस्य यज्ञपदार्थत्वाभावान्न, क्षेत्रादिषु बीजादि-
निक्षेपस्य यज्ञत्वेन अप्रसिद्धत्वान्न । भौतिकपदार्थोत्पत्त्यादिषु तु सर्वेषां
भूतानां प्राणात्मादीनामपि उपकारकत्वमस्त्येवेति कुतोऽग्निनैव सर्वेषा-
मुत्पत्तिः ? सर्वोत्पत्तिहेतुत्वेन अग्नेर्यथा देवत्वं तथैव अबादीनामपि
देवत्वं भवेदेवेति कुतो वा विशिष्ट्योक्तिः ? प्रसिद्धे यज्ञे तु अग्निमुखेन
सर्वैर्देवैः हविर्गृह्यत इति तस्य यज्ञस्य देवत्वं सम्भवतीति ।
यदुक्तम्- 'प्र मातुः प्रतरमिति मन्त्रेऽयमर्थः स्फुटः' इति । तदपि
चिन्त्यम्; सायणादिभिस्तस्य अन्यथा व्याख्यातत्वात् । तथा हि-
'प्र मातुः प्रतरं गुह्यमिच्छन् कुमारो न वीरुधः सर्पदूर्वीः ।
ससं नपक्वमविच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥'
( ऋ० सं० १०.७९.३ )
अत्रत्यं सायणभाष्यम्-आग्नेयं त्रैष्टुभम्, सौचीकगुणोऽग्निः ऋषिः,
वैश्वानरगुणो वा । सभिनां वाजम्भरपुत्रो वा ऋषिः । पूर्वं द्वाभ्यां
मन्त्राभ्यामग्ने रूपगुणादिकं वर्णितम् । प्रथमेन मर्त्यासु वित्सु मनुष्य-
रूपासु प्रजासु तासां हृदये वैश्वानररूपेण अमर्त्यस्य दावाग्निरूपेण
भूरिखाद्यमरण्ये भक्षयन्त्यौ स्तोतारमसंखादन्त्यौ नानाहन् संभरतो
महतोऽग्नेर्महत्त्वमुक्तम् । द्वितीयेन च तस्यैव वैशिष्ट्यमेवं वर्ण्यते ।
अस्याग्नेः शिरः मूर्धा गुहायां मनुष्योदरेषु वर्तते । तथा अक्षी अक्षिणी
पृथक् चन्द्रसूर्यात्मना निहिते । ईदृशः अस्मिन्वन् दन्तै रसं खादन्नं

पृष्ठ 110 स्कैन

यहाँ दोनों पृष्ठों का पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:

[पृष्ठ १९६]

१९६ वेदस्वरूप-विमर्शः
जिह्वया वनान्यत्ति। अस्मै

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 111 स्कैन

[पृष्ठ १९८]

तिर्यगूरसप्रसार एव शाखापर्णादिजनकः । तस्यैव च रसस्य पर्णपुष्प-
फलादिरूपेण परिणामः” इति ।
तदपि न किञ्चित्; धरणिजलानिलादियोगेनैव बीजाद् वृक्षादीना-
मुत्पत्तिप्रसिद्धेः । तत्र सति विधाने कस्मैचित् फलाय यज्ञत्वारोपोऽपि
कर्तुं शक्यते । विधानाभावात्तु वृथैव तत्कल्पनम् । अत एव मन्त्रेषु न
यज्ञत्वोक्तिर्दृश्यते । विहितानामेव चाग्नौ सोमप्रक्षेपादीनां यागत्वम् ,
न स्वरूपेण सताम् ।
यदुक्तम्—'कस्य वृक्षलतादेः कियती प्रसृतिरूर्ध्वं तिर्यग्वेति
सर्वमिदं मूले स्थितस्य प्राणस्याऽऽयत्तम् । सेयं मूलशक्तिरेव अस्यामृचि
प्रतरं गुहामिति सङ्केतिता । प्रसरतः पार्थिवस्य रसस्य कृष्णवर्णताया
आदित्यस्य च 'पिशङ्गं द्रापिं प्रतिमुञ्चते कविः' (ऋ० सं०

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 112 स्कैन

२०० वेदस्वरूप-विमर्शः
हेमन्तः । सर्वथा विशीर्णेषु शिशिरः । जायते, अस्ति, वर्धते, विपरिणमते,
अपक्षीयते, विनश्यति इति यास्कपरिपाठिताः षड्भावविकारा एव ऋताग्नि-
सम्बन्धेनेह ऋतुवाचकैः शब्दैः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 113 स्कैन

२०२ वेदस्वरूप-विमर्शः
इति मनुः (२।१४३) तेऽद्ययज्ञे षोडश भवन्ति (शब्दार्थचिन्ता-
मणिः) तेन ऋत्विक्शब्दो याजकादिपर एव ।
यच्च - "होतारमिति चतुर्थविशेषणं हेञ्-धातोर्निष्पाद्य ब्राह्मणेपु
व्याख्यातम् । तेन अग्निद्देवानाह्वयति, अग्निद्वारैव अस्माकं सौर-
मण्डलस्थैर्देवैः सम्बन्ध इति गम्भीरतत्त्वं विज्ञायते, यद्यपि सर्वथा-
परोक्षं वैज्ञानिकानामिविति । तदपि न किञ्चित्; वैदिकप्रसिद्धेरेव वेदार्थो-
पपत्तेः । तथा हि-होतृनामकेन ऋत्विजा मन्त्रैर्देवा नामाह्वानं विहितम् ।
अग्निरपि देवेषु ब्राह्मणो होतृनामक ऋत्विक् चासीत् । मन्त्रशक्तिश्च
अचिन्त्या वैदिकैरभ्युपेयत एव । तेन मन्त्रैर्देवा नामाह्वानं सङ्गच्छते ।
यदपि- "रत्नधातममिति रत्नानामुत्पादयितेति भूगर्भविज्ञानं
स्फुटयति" इति । तदपि न शोभनम्; यतः प्रकृतयज्ञादिप्रसङ्गे

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 114 स्कैन

यामि" or "सन्नमयामि"?
Look at the word: 'सं' with anusvara, then 'य' or 'न'?
Wait, the sūtra has "सन्नमयामीति"!
In line 15: 'स', 'ं', 'य' or 'न'?
Look

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 115 स्कैन

[पृष्ठ २०६]

किञ्च—'यूयं गोपतो युष्माकं पत्यौ यजमाने ध्रुवाः शाश्वतिकीः
बह्वीर्बहुविधाः स्यात भवत ।
पुनश्च 'यजमानस्य

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 116 स्कैन

कृष्णवर्णात्वासम्भवात् । अत एव कृष्णेन लोकेन कृष्णान्तरिक्षमार्गेण
आवर्तमानः पुनःपुनरावर्तमान इत्येवार्थः । तदुक्तं सायणेन—
'सविता सूर्यः 'कृष्णवर्णेन कृष्णं कृष्यतेर्निकृष्टो वर्णः' ( निरुक्त
२.२०) । 'लोका रजांस्युच्यन्ते (नि० ४.१९ ) । अन्तरिक्षलोको हि
सूर्यागमनात् पुरा कृष्णवर्णो भवति । कृष्णेन रजसा लोकेन अन्तरिक्ष-
मार्गेण आवर्तमानः पुनःपुनरागच्छन् अमृतं देवं मर्त्यं मनुष्यञ्च
निवेशयन् स्वस्वव्यवहारे व्यवस्थापयन् । यद्वा-अमृतं मरणरहितं
प्राणं मर्त्यं मरणसहितं शरीरञ्च निवेशयन्, 'मर्त्यानि हीमानि
शरीराणि अमृतेषा देवता' (ऐ० आ० २. १. ८) इति श्रुतेः। स सविता
देवः भुवनानि सर्वान् लोकान् पश्यन् अवेक्षमाणः प्रकाशयन्
हिरण्ययेन सुवर्णनिर्मितेन रथेन आयाति अस्मत्समीपमागच्छति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 117 स्कैन

? No, look at the cluster:
It has द् + ध with य: "बुद्ध्यति" or "बुद्ध्व्यति"?
Wait, in line 28: ब, then द्ध with य = बुद्ध्यति. Wait, is there a व? No, it's

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 118 स्कैन

बायाँ पृष्ठ (Page 212)

२१२ वेदस्वरूप-विमर्शः
भ्रातृत्वमुक्तप्रकारेण अत्रापि द्रष्टव्यम् । रात्रौ सवितृतेजोभागस्य हरणात्
दिवा स्वकीयतेजसो भागस्य तदर्थमेव भक्तकत्शान् वा भ्रातृत्वम् । अथ
एषु भ्रातृषु मध्ये पुरोदेशे वा विशपति प्रजापालयितारं सप्तपुत्रं सर्पण-
शीलरश्मिपुत्रोपेतम् । ऐतिहासिकपक्षे अदितिः पुत्रकामा इति प्रस्तुते
मित्रावरुणादिषु अदितिपूत्रेषु अस्यादित्यस्य सप्तमपुत्रत्वम् । ईदृशं महा-
नुभावमादित्यम् अपश्यम् अद्राक्षं भावनया आत्मत्वेन साक्षात्करोमी-
त्यर्थः । 'तद्योऽहं सोऽसौ योऽसौ सोऽहम्' इति श्रुतेः । एवं वा अस्य वामस्य
विश्वस्योद्गरितुः स्रष्टुरित्यर्थः । पलितस्य स्वतृप्तं जगत् पालनशीलस्य
होतुरोदातुः स्वस्मिन् संहर्तुः परमेश्वरस्य

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 119 स्कैन

पृष्ठ २१४

यदप्युक्तम्- "सर्वाणि रूपाणि सूर्य्यरश्मिभिरेव निर्मीयन्ते । शुक्लं कृष्ण-
ञ्चेति द्वे एव रूपे मुख्ये । तत्सन्धिगतं रक्तम् , मिश्रणजानि चान्यानीति
रूपविषये वैज्ञानिकानां दर्शनम् । तदपि 'इन्द्रो रूपाणि कनिक्रदच्चरन्'
'शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौरिवासि ।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥'
(ऋक् सं० ६. ५८. १)
इत्यादिषु स्फुटमाम्नातम्" इति । तदपि न ; मन्त्रस्यान्यपरत्वात् । तथा
हि—हे पूषन् ते तव शुक्रं शुक्लवर्णम् अन्यन् एकम् अहर्भवति वासरा-
त्मकम् । तथा ते तव सम्बन्धि यजतम् । यजिरत्र सङ्गतिकरणे वर्तते ।
यजनीयं प्रकाशेन सङ्गमनीयं स्वतः कृष्णवर्णम् अन्यन् एकम् अहर्भवति
रात्र्याख्यम् । इत्थं विषुरूपे शुक्लकृष्णतया नानारूपे अहनी तव

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 120 स्कैन

२१६ वेदस्वरूप-विमर्शः
श्चेन प्रतिबन्धीयमानां बुद्धिं विप्लावयन्ति । तत्र काले तस्या विद्याया
अभाव एवापराध्यति, को दोषो भाष्यकृताम् ?' इति ।
तदत्रोच्यते—महाभारतयुद्धानन्तरं विज्ञानह्रासोऽभ्युपेयते भवता,
किन्तु तत्र प्रदर्शितं कारणं नोपपद्यते । यतो महाभारतयुद्धानन्तरमपि
व्यासाद्या महर्षयस्तु अवशिष्टा एवासन् । सर्वज्ञः श्रीकृष्णोऽप्यवशिष्ट एवा-
सीत् । युधिष्ठिराऽर्जुन-सात्यक्यादयश्चासन् । साक्षाद् बृहस्पतेः शिष्य
उद्धवोऽप्यासीत् । विशेषतो म्रियमाणस्य ज्ञानसूर्यस्य भीष्मस्य मुखात्
अनेकदिनानि धर्मप्रज्ञ-राजनीत्याद्याश्रयाणि अनेकानि

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 121 स्कैन

२१८ वेदस्वरूप-विमर्शः
प्रदानेन विशेषेण वर्तमानमकरोत् । किं कुर्वन् ? दिवि अन्तरिक्षे मेघम्
ओपशम् उपेत्य शयानम्, चक्राणः कुर्वन्

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 122 स्कैन

१२० वेदस्वरूप-विमर्शः
शब्दाभ्यां वैद्युतोऽग्निरादित्यो वा गृह्यते । तं देवमुदकधारा अभिप्रवन्त
नसन्त च, स ताश्च हर्यति ।
यदप्युक्तम् - "तिस्रो मातृः तिस्रो भूमीर्धारयत्' इत्यादिभिरपि
मन्त्रैः सूर्यकृतं पृथिव्यादिधारणं सिद्धयति" इति । तदपि न ; मन्त्रयो-
रनयोरन्यार्थकत्वात् । समग्रौ मन्त्रौ मन्त्रार्थचेत्थम्-
'तिस्रो मातृस्त्रीन् पितॄन् बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति ।
मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ॥'
( ऋ० सं० १.१६४.१० )
अर्थः-एकः प्रधानभूतः असहायो वा पुत्रस्थानीयः आदित्यः
संवत्सराख्यः कालो वा तिस्रः मातृः

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 123 स्कैन

(v -)
सि (v)
य-तः (v -)
सु-त-राम् (v v -) -> 11 syllables!
Now line 18:
_ _ _ _ _ _ _ _ _ _ _ (11 syllables)


इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 124 स्कैन

२२४ वेदस्वरूप-विमर्शः
काग्निरूपस्य आदित्यस्य प्रस्तावः । इदमेवाभिप्रेत्य 'ऋग्वेद एवाग्ने-
रजायत यजुर्वेदो वायोः सामवेद आदित्यात्' इति

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 125 स्कैन

२२६ वेदस्वरूप-विमर्शः

कणादेनापि सामान्यं विशेष इति बुद्धयपेक्षमेव सामान्यं वदता
काल्पनिकमेव तदित्यङ्गीकृतम् इति, तन्न, सूत्रार्थानवबोधात् । तत्रैवो-
पस्कारकारादिभिर्बौद्धादिपक्षनिरसनपुरःसरं सामान्यव्यवस्थापनात् ।
सूत्रार्थस्तु—सामान्यं सत्तारूपं परसामान्यम् । अपरं सत्ता द्रव्यत्वा-
दिकम् । बुद्धिलक्षणम् । तेनोभयविधस्य सामान्यस्य बुद्धिरेवलक्षणम् ।
इतिना तद्व्यवच्छिद्य परामृश्यते । तेन बुद्धयपेक्षमिति नपुंसक-
निर्देशः ।
वृत्तिकारस्तु—विशेषान्वयमाह । 'नपुंसकमनपुंसकेनेकवच्चास्यान्यतरस्या-
मित्यनेनैकवद्भावो नपुंसकता चेत्याह । बुद्धिरपेक्षालक्षणं लिङ्गं यस्य
तद्बुद्धयपेक्षम् ।
नित्यमनेकवृत्ति सामान्यम् । परन्तु सामान्यं विशेषसंज्ञामपि लभते ।
यथा द्रव्यमिदमित्यनुवृत्तप्रत्यये सत्येव नायं

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 126 स्कैन

२२८ वेदस्वरूप-विमर्शः
साम्यानामावश्यकत्वात् । अत एव एकैव व्यक्तिः सात्त्विकेन धर्मेण
कञ्चित् सुखयति, राजसेन धर्मेण कञ्चित् क्लेशयति, तामसेन कञ्चिन्मोह-
यति । तस्मात् सत्त्वोपचये पुमान्, रजस उपचये स्त्री, तमसस्तथात्वे
नपुंसकमिति व्यवहारः । कैश्चित्तु सकलगुणानामुपचये पुंस्त्वमपचये
स्त्रीत्वम् साम्ये नपुंसकत्वम् । अन्यैस्तु अन्यापेक्षयोपचयादौ पुंस्त्वादिक-
मुच्यते ।
यद्यपि 'स्तनकेशवती नारी लोमशः पुरुषः स्मृत'इति लौकिकमेव
पुलिङ्गादिलक्षणम् तथापि व्याकरणशास्त्रे तद्धितखट्वावृक्षादिशब्दानां
पुल्लिङ्गत्वादिव्यवहाराय पारिभाषिकोऽयं लिङ्गव्यवहारोऽभ्युपेयते ।
हरिरप्याह—

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 127 स्कैन

२३० वेदस्वरूप-विमर्शः
असकृच्चाग्निनादग्धं जगत्तद्भस्मसात्कृतम् ।
अग्नेर्वीर्यमिदं प्राहुस्तद्वीर्यं भस्म यत्ततः ॥

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें
पृष्ठ 128 स्कैन

नाऽग्नौ यथा कथञ्चित् सोमदधिघृतादिनिक्षेप एव याग इति वक्तुं
शक्यते, अनीप्सितवद्दाहादावतच्छब्दप्रयोगात् । सर्वत्र विधेरेव प्राधा-
न्यम् । अत एव "विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यतीति" "छिद्रं-
हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसा' इत्यादिभिः विधिहीनयज्ञस्य
विपरीतफलकत्वमवगम्यते । अत एवाग्निहोत्रदर्शपूर्णमासचातुर्मास्या-
दीनामङ्गोपाङ्गप्रभेदविधानवन्न प्राकृतयागत्वेनाभिमतेष्वधिदैवतेषु
सोमहोमेषु तथाविधप्रभेदवर्णनमुपलभ्यते । निरुक्तादिषु तु भाव-
विकारविवरणे यमेन विच्छिन्नतया अल्पा गतिर्यत्र तज्जीर्णं भूत्वा
नश्यति इति वस्तुगत्यां सत्यामपि तत्र तदेतन्न चर्चितम् । गार्हपत्या-
हवनीयदक्षिणाग्निषु लोकत्रयदृष्टिरुपासनाथैव न वस्तुस्थित्यनुरोधेन
योषादिष्वग्निदृष्टिवत् ।
'अयं वै लोको गार्हपत्यः' इति श्रुत्या न

इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ

पृष्ठ का स्कैन सभी के लिए निःशुल्क है।

खाता बनाएँ या साइन इन करें