वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 112, कुल 237 में से
संदर्भ में पढ़ें२०० वेदस्वरूप-विमर्शः
हेमन्तः । सर्वथा विशीर्णेषु शिशिरः । जायते, अस्ति, वर्धते, विपरिणमते,
अपक्षीयते, विनश्यति इति यास्कपरिपाठिताः षड्भावविकारा एव ऋताग्नि-
सम्बन्धेनेह ऋतुवाचकैः शब्दैः प्रदर्शिताः" इति ।
तदपि न सङ्गतम्; प्रसिद्धार्थं परित्यज्य क्लिष्टार्थकत्पने माना-
भावात् । ऋतुशब्देन ऋताग्नेरवयवा ग्राह्या इत्यपि प्रमाणापेक्षमेव ।
वस्तुतस्तु—विदितपदतदर्थसम्बन्धानां मन्त्रपदानांमभिधादिवृत्तिभिः
प्रतीयमानोऽर्थो वेदार्थो भवति । अत्र तु कञ्चनार्थं मनसा निर्धार्य
तस्मिन्नेवार्थे मन्त्राणां योजनं प्रतीयते ।
यत्तु—ऋतुः सौरोऽग्निरेव ऋतूनां प्रधानं कारणम्, परं नैकरूपः
स विभिन्नप्रकारानृतून् जनयितुमलमिति सोमसम्बन्धस्तत्र विभिन्न-
दशासम्पादनाय अपेक्षणीयः। सोममण्डलञ्च चन्द्र इति चन्द्रस्यापि
ऋतुजनकत्वमाम्नातम्" इति । तन्न ; मन्त्रान्तरे ऋतूनामुत्पत्तौ चन्द्रस्यैव
प्राधान्यवर्णनात् । तथा हि—
'पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् ।
विश्वान्यन्यो भुवनाभिचष्ट ऋतूँरन्यो विदधज्जायते पुनः ॥'
( ऋ० सं० १०.८५.१८ )
सूर्याचन्द्रमसावस्मिन्