वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 111, कुल 237 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the Sanskrit text from the image, preserving all Vedic citations, references, and punctuation:
[पृष्ठ १९८]
तिर्यगूरसप्रसार एव शाखापर्णादिजनकः । तस्यैव च रसस्य पर्णपुष्प-
फलादिरूपेण परिणामः” इति ।
तदपि न किञ्चित्; धरणिजलानिलादियोगेनैव बीजाद् वृक्षादीना-
मुत्पत्तिप्रसिद्धेः । तत्र सति विधाने कस्मैचित् फलाय यज्ञत्वारोपोऽपि
कर्तुं शक्यते । विधानाभावात्तु वृथैव तत्कल्पनम् । अत एव मन्त्रेषु न
यज्ञत्वोक्तिर्दृश्यते । विहितानामेव चाग्नौ सोमप्रक्षेपादीनां यागत्वम् ,
न स्वरूपेण सताम् ।
यदुक्तम्—'कस्य वृक्षलतादेः कियती प्रसृतिरूर्ध्वं तिर्यग्वेति
सर्वमिदं मूले स्थितस्य प्राणस्याऽऽयत्तम् । सेयं मूलशक्तिरेव अस्यामृचि
प्रतरं गुहामिति सङ्केतिता । प्रसरतः पार्थिवस्य रसस्य कृष्णवर्णताया
आदित्यस्य च 'पिशङ्गं द्रापिं प्रतिमुञ्चते कविः' (ऋ० सं० ४.५३.२)
इति पीतवर्णवायाः श्रुतत्वेन उभयोः संयोगाद्धरितं रूपं वृक्षपर्णादिषु
उपलभ्यते । यदा तु यमेन प्रतिद्धो रसे नोपसर्पति तदा केवलस्याऽऽदि-
त्यस्य पीतमेव रूपं पर्णेषु प्रतिभासते । तदा मूलात् प्रवर्त्यं प्रावोऽयमग्निः
पृथगवस्थया पर्णादिषु स्थिरो भवति । एवमेव शुष्केष्वन्नेष्वपि भिन्नयैव
अवस्थया अग्नेरवस्थितिः । ते उभे अप्यवस्थे पृथगुचि प्रतिपादिते—
'अग्निर्वे शर्माण्यान्तानि प्रयच्छति' इति । ब्राह्मणेषु च विस्पष्टीकृतं
विवरणमि'ति ।
तदपि न क्षोदक्षमम्; तत्तत्सहकारिसापेक्ष-बीजशक्त्यनुसारेणैव
वृक्षलतादीनां तिर्यगूर्ध्वादिसप्ररणोपपत्तौ प्रागायत्तत्वकल्पनाया अन्यथा-
सिद्धत्वान्न, निष्प्रमाणकत्वाच्च । अन्वयव्यतिरेकौ च तत्रैव सङ्गतौ ।
तथा हि—क्षीणाद्बीजाद्भूष्यां भूमौ तत्तदुपवजलाद्यभावे अल्पप्रसरमङ्कु-
रादिकं जायते । पुष्टाद्बीजादुर्वरायां भूमावुपचादिसाहचर्याद् बृहत्प्रसरत्
तदुपलभ्यते ।
किञ्च—अद्यत्वे तु विविधोपचजल विद्युदादिसमवधानेन स्वेच्छया
तत्तत्प्रसङ्गादिकं सम्पाद्यते । यदि प्रजापतिशक्तिरपि तदनुविधायिन्येव तर्हि
कृतं बराक्या तया, तैरेव तदुपपत्तेः । तथा च यथा बीजशक्त्यनुरोधिनः
[पृष्ठ १९९]
अङ्कुर-नाल-स्कन्ध-पत्र-पुष्प-फल-रसादिभेदास्तथैव तत्प्रसरणादिकमपि
तदनुरोध्येवेति मन्तव्यम् ।
'प्रतरं गुहाम्' इति पदाभ्यां कथं प्रागशक्तिः सङ्केतितेति तु नावगन्तुं
शक्यते । 'प्रतरं प्रकृष्टतरं गुहां तासां वीरुधां मूलमिति तु सायणाक्तिः
श्लिष्यते, तत्राप्यग्नेः प्रसर्पणस्य दृष्टत्वात् । एवं रसादिवद्वर्णादि-
व्यवस्थाऽपि बीजशक्त्यनुसारिण्येवेति तत्रापि कारणान्तरान्वेषणं
व्यर्थमेव ।
'पिशङ्गं द्रापिमिति पूर्णो मन्त्रस्त्वित्थम्—
'दिवो धर्त्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः ।
विचक्षणः प्रथयन्नापृणन्वूर्वजीजनत् सविता सुम्नमूक्थ्यम् ॥
(ऋ० सं० ४.५३.२)
तदर्थस्तु—दिवो धर्ता धारकः । न केवलं दिवः, अपि तु भुवनस्य
कृत्स्नस्य लोकस्य धर्ता प्रजापतिः, प्रकाशवृष्ट्यादिना प्रजानां पालयिता ।
कविः प्राज्ञो देवः पिशङ्गं द्रापिं हिरण्यमयं कवचं प्रतिमुञ्चते आच्छा-
दयति प्रत्युदयम् । विचक्षणः विविधं द्रष्टा स एव देवः प्रथयन् प्रख्या-
पयन् तेजः आपृणन् आपूरयन् परितः उरु प्रभूतं सुम्नं सुखम् उक्थ्यं
स्तुत्यम् अजीजनत् उत्पादयति ।
एवं यदुक्तम्—“ऋत्विजमिति तृतीयं विशेषणमपि, ऋतुभिर्यजति
इति, ऋतून् यजति ददाति इति वा तस्यार्थः । प्रथमे विग्रहे ऋतवस्य
सौराग्नेरवयवा एव ऋतुशब्दार्थः । द्वितीये तु तत्तत्फलपुष्पादिजनकत्वेन
प्रसिद्धकालः, स काल एव ऋतुशब्दार्थः । उभयथापि सौराग्निना
सङ्गतोऽयं पार्थिवोऽग्निः तत्तद्ऋतुव्यपदेशप्रयोजक इति सिद्ध्यति ।
सौरस्य संवत्सररूपतामाप्रस्य अग्नेरेपेक्षयैव ऋतूनां नामान्यपि
कृप्तानि । अग्नयोऽत्र वसन्तः क्रमेण सर्वत्र व्याप्सुवानाः सन्ति स कालो
वसन्तः । यदा तु सर्वानर्थान् गूढानः आत्मसात्कुर्वाणोऽस्ति स कालो
ग्रीष्मः, ग्रहघातोर्निष्पन्नतवात् । यदा तेऽग्नयः प्रवृद्धा भवन्ति तदा वर्षा,
वृध् धातोः निष्पन्नतवात् । शरन्तोऽग्नयो यत्र स शरत्कालः । हीनवायां