वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 120, कुल 237 में से
संदर्भ में पढ़ें२१६ वेदस्वरूप-विमर्शः
श्चेन प्रतिबन्धीयमानां बुद्धिं विप्लावयन्ति । तत्र काले तस्या विद्याया
अभाव एवापराध्यति, को दोषो भाष्यकृताम् ?' इति ।
तदत्रोच्यते—महाभारतयुद्धानन्तरं विज्ञानह्रासोऽभ्युपेयते भवता,
किन्तु तत्र प्रदर्शितं कारणं नोपपद्यते । यतो महाभारतयुद्धानन्तरमपि
व्यासाद्या महर्षयस्तु अवशिष्टा एवासन् । सर्वज्ञः श्रीकृष्णोऽप्यवशिष्ट एवा-
सीत् । युधिष्ठिराऽर्जुन-सात्यक्यादयश्चासन् । साक्षाद् बृहस्पतेः शिष्य
उद्धवोऽप्यासीत् । विशेषतो म्रियमाणस्य ज्ञानसूर्यस्य भीष्मस्य मुखात्
अनेकदिनानि धर्मप्रज्ञ-राजनीत्याद्याश्रयाणि अनेकानि ज्ञानविज्ञानानि
श्रीकृष्णेन सार्थं युधिष्ठिरादिभिराकर्णितानि । व्यासादिभिः महाभारत-
पुराणोपपुराणादीनि रचितानि । नानासंहितासूत्राणि धर्मशास्त्राणि च
प्रवृत्तान्येवासन् । व्यास-जैमिनीभ्याञ्च वेदार्थविचारात्मके पूर्वोत्तर-
मीमांसे निर्मिते । ततश्च कश्चनापि वेदार्थसम्प्रदायो लुप्त इति कल्पना
निराधारेव । कर्मोपासन-ब्रह्मज्ञानसम्प्रदायः सुरक्षित आसीदिति भवद्भि-
रपि अभ्युपगम्यत एव ।
ततो यदि विज्ञानानुसारी कश्चन सम्प्रदाय आसीत्तदा व्यासादिभिः
सोऽज्ञात आसीत् ज्ञातो वा ? ज्ञातश्चेत् तर्हि कुतो न तैः स्वग्रन्थे स
वर्णितः ? अज्ञातश्चेन्नतरां तत्संभवः । सायणादिभिः पारम्पर्यप्राप्तकर्म-
ज्ञानादिसम्प्रदायानुरोधेनैव व्याख्यानं कृतमित्यपि भवद्भिरुपेयते ।
सायणस्य महतीं प्रशंसां कृत्वाऽपि तद्भाष्यन्यूनतावर्णनं न वस्तुतोनुरोधि,
तदर्थस्य सम्प्रदायसिद्धत्वात् ।
यदुक्तम्- "विष्णुना विवृते' इति मन्त्रे स्फुटतराकर्षणविज्ञानेऽपि
'दाधर्थ पृथिवीमभितो मयूखैः' इति मन्त्रे मयूखशब्दस्य पर्वतोऽर्थोऽनेन
भाष्यकारेण कृतः । किरणैः पृथिवीधारणं कथं संभवेदिति तस्य संशयो-
ऽभूत् । पर्वतैस्तु पुराणेषु उक्तमिति तदेव व्याख्यातमिति ।
तदपिन किञ्चित्; भवद्भिरेव तत्समाहितत्वात् । 'इतिहासपुराणाभ्यां
वेदार्थमुपबृंहयेत्' इत्युक्तरीत्या पुराणमेव मुख्यं वेदार्थव्याख्यानम्, तदनु-
रोधिव्याख्यानश्चेत् कुतस्तदुपालम्भमर्हति ? किञ्च-किरणा यथा किरण-
वेदस्वरूप-विमर्शः २१७
मालिनोऽंशास्तथा पर्वता अपि पृथिव्या अंशा इति त एव मयूखपद-
वाच्या भवितुमर्हन्ति, आकर्षणशक्तावसु मयूखशब्दस्याप्रसिद्धत्वात् ।
'इरावती धेनुमती हि भूतं सूयवसिनी मनवे दशस्या ।
व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥'
(ऋ० सं० ७.९९.३)
हे द्यावापृथिव्यौ मनवे स्तुवते मनुष्याय दशस्या दित्सया युक्ते
युवाम् इरावती अन्नवत्यौ धेनुमती गोमत्यौ सूयवसिनी शोभने यवसे
च भूतम् अभूतम् । हि प्रसिद्धौ । विष्णुना विक्रान्तत्वाद्युवाम् एवमेव खलु
पूर्वमभूतम् । हे विष्णो एते इमे रोदसी द्यावापृथिव्यौ व्यस्तभ्नाः विविध-
मधारयः पृथ्वीमूर्ध्वमुखत्वेन द्यामधोमुखत्वेनेति विविधत्वम् । अपि च-
यथा पृथिवी प्रथितामिमां भूमिम् अभितः सर्वतः स्थितैः मयूखैः पर्वतैः
दाधर्थ धारितवानसि । यथा न चलति तथा दृढीकृतवानसि । पर्वता हि
विष्णोः स्वभूताः । 'विष्णुः पर्वतानामधिपतिः' (तै० सं० ३.४.५.१)
इति श्रुतेः ।
विष्णुदेवताकोऽयं मन्त्र इति विष्णुरेव स्तुत्यो नादित्यः । नहि
वैज्ञानिकार्थप्रकाशनलालसया मुख्यार्थत्यागो युक्तः, वैज्ञानिकसिद्धान्तस्य
अद्या