वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 126, कुल 237 में से
संदर्भ में पढ़ें२२८ वेदस्वरूप-विमर्शः
साम्यानामावश्यकत्वात् । अत एव एकैव व्यक्तिः सात्त्विकेन धर्मेण
कञ्चित् सुखयति, राजसेन धर्मेण कञ्चित् क्लेशयति, तामसेन कञ्चिन्मोह-
यति । तस्मात् सत्त्वोपचये पुमान्, रजस उपचये स्त्री, तमसस्तथात्वे
नपुंसकमिति व्यवहारः । कैश्चित्तु सकलगुणानामुपचये पुंस्त्वमपचये
स्त्रीत्वम् साम्ये नपुंसकत्वम् । अन्यैस्तु अन्यापेक्षयोपचयादौ पुंस्त्वादिक-
मुच्यते ।
यद्यपि 'स्तनकेशवती नारी लोमशः पुरुषः स्मृत'इति लौकिकमेव
पुलिङ्गादिलक्षणम् तथापि व्याकरणशास्त्रे तद्धितखट्वावृक्षादिशब्दानां
पुल्लिङ्गत्वादिव्यवहाराय पारिभाषिकोऽयं लिङ्गव्यवहारोऽभ्युपेयते ।
हरिरप्याह—
आविर्भावतिरोभावस्थितिचेत्यव्यपायिनः ।
धर्मा मूर्तिषु सर्वासु लिङ्गत्वेन व्यवस्थिताः ॥
हरिरपि वैज्ञानिकं लिङ्गं न जानाति भवांस्तु जानातीति न संभव-
दुक्तिकमिति ।
तथाहि सति संभवे सामानाधिकरण्यसम्बन्धेन लौकिकपुंस्त्वादि-
विशिष्टशास्त्रीयलिङ्ग एव पुमादिशब्दानां शक्तिः, न केवले शास्त्रीये,
नापि लौकिके, असंभवे तु शास्त्रीय एव । अत एव 'पशुना यजेत' इत्यादौ
पशुस्त्रिया कृते यागे वैगुण्यम् । लौकिके पुंस्त्वादि-विशिष्टशास्त्रीय-
पुंस्त्वस्यैव शब्देन प्रतिपादनात् ।
तस्मान्नादानप्रदानलक्षणयज्ञप्रक्रिययैव स्त्रीत्वं पुंस्त्वञ्च । गीतायां
हि—'ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तु मिहार्हसी'ति शास्त्रविधानेनोक्त-
मेव कर्म कर्तव्यत्वेनोक्तम्, न तु स्वाभाविकानान्तेषामशनपानमैथुना-
दीनामनुकरणमेव कर्तव्यमित्याद्युक्तम् । 'द्रव्यं देवता त्यागः, (कात्या-
यनश्रौतसूत्रे १ अध्यायः) इति सूत्रानुसारेण देवतोद्देश्येन क्रियमाण-
स्वस्वत्वनिवृत्त्यनुकूलो व्यापार एव यागः । इति १६४ पृष्ठे निरूपितमेव ।
यदुक्तमियमग्नौ सोमाहुतिप्रक्रिया शिवशक्त्युपासनाऽनुकृता
शवरूपस्य शिवस्य हृदि विराजमाना आद्या शक्तिः ध्येया मूर्तिष्वपि
तदाकारा पूज्यते । तेन ब्रह्मरूपस्य शिवस्य हृदि मध्यकेन्द्रे शक्तिरनवरतं
वेदस्वरूप-विमर्शः २२९
विराजते । शक्तिहीनः शिवः कदापि न भवति । अग्निः शिवः तस्योपरि
मध्यभागे शक्तिरूपः सोम आगच्छति । उपर्य्यन्तरिक्षे सर्वत्र सोमो
व्याप्तः । स सङ्घीभूयाग्नौ निपतति । सोमः कृष्णवर्णः शक्तिरपि
कृष्णवर्णैव । अग्निरूपः शिवस्तूज्ज्वलः । उः शिवस्तस्य माया शक्तिः
उमा उमया सहितः शिवः सोमः । तदपि नाभीष्टसाधनम्,
ब्रह्मरूपे शिवे शक्तेर्ध्येयत्वेऽपि विहितध्यानस्यैव तत्र पुण्यजनकत्वात् ।
एवं होमेऽग्न्यादिषु शिवादिबुद्धयोऽपि तन्त्रेषु विहिता एव । तत्रैव
बृहज्जाबालोपनिषदो निम्नोक्तानि वचनानि सङ्गच्छन्ति ।
अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते ।
रौद्री घोरा या तैजसी तनुः सोमशक्त्यमृतमयः शक्तिरतितनुः ।
“अमृतं या प्रतिष्ठा सा तेजोविद्या कला स्वयम् ।
स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी ।
द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका ।
तथैव रसशक्तिश्च सोमात्मा चानलात्मिका ॥
वैद्युदादिमयं तेजो मधुरादिमयो रसः ।
तेजोरसविभेदैस्तु वृत्तमेतच्चराचरम् ॥
अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ।
अत एव हविः सन्तमग्नीषोमात्मकं जगत् ॥
ऊर्ध्वशक्तिमयः सोम अधः शक्तिमयोऽनलः ।
ताभ्यां सम्पुटितस्तस्माच्छश्वद्विश्वमिदं जगत् ॥
अग्नेरूर्ध्वं भवत्येषा यावत्सौम्यं परामृतम् ।
यावदग्न्यात्मके सौम्यममृतं विसृजत्यधः ॥
अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वगा ।
यावद्दाहनदग्धोर्ध्वमधस्तत्पावनं भवेत् ॥
आधारशक्त्यावधृतः कालाग्निरयमूर्ध्वगः ।
तथैव निम्नगः सोमः शिवशक्तिपदास्पदः ॥
शिवश्चोर्ध्वमयः शक्तिरूर्ध्वशक्तिमयः शिवः ।
तदित्थं शिवशक्तिभ्यां नाव्यातमिह किञ्चन ॥