वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 109, कुल 237 में से
संदर्भ में पढ़ें१९४ वेदस्वरूप-विमर्शः
इति तु न युक्तम् । यज् देवपूजासङ्गतिकरणदानेषु इति धातोर्निष्पन्नस्य
याज्ञिकैः परिभाषितस्य द्रव्यदेवतामयस्य संस्कृताग्न्यधिकरण-स्रुक्स्रुक् च-
र्वाद्यधिकरणकाऽऽध्वर्यवाद्विक साध्य - स्वर्गाद्युद्देश्यक-मन्त्रहविरादि-
सम्पाद्यषडहादशा दियागनिर्वर्त्यस्य कर्मविशेषस्यैव यज्ञपदव्यपदेश्यत्वात् ।
अत एव 'द्रव्यं देवता त्यागः' (कात्या० १ अ०) इति यागस्वरूपं
निरूपितम् । देवतोद्देश्येन क्रियमाण-स्वस्वत्वनिवृत्त्यनुकूलो व्यापार
एव यागः । तत्रापि तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्या-
वन्तो यजतयो भवन्ति । उपविष्टहोमाः स्वाहाकारप्रदाना जुहो-
तयः । स्वाभाविकाऽऽशान-प्रदानात्म कप्रक्रियाया एव यज्ञत्वे न सङ्गतिः,
तस्याः स्वतःसिद्धत्वात् विज्ञानानुपपत्तेः, 'विधिरत्यन्तमप्राप्तौ' इति
मीमांसकप्रसिद्धेश्च । ततदारोपेण ब्रह्मज्ञानेऽपि यज्ञत्वारोपः ।
'ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्मसमाधिना ॥'
अत्रापि अर्पणमिति स्रुगादिद्रव्येऽपि ऋत्विङ्मन्त्रादिकं विवक्षितम् ।
अग्निहविरादिवर्णनं तु स्पष्टमेवोक्तम् । यस्मिन्नर्थे यः शब्दो लोके प्रसिद्धः,
वेदेऽपि तस्मिन्नेवार्थे स ज्ञातव्य इतिरीत्या लोकप्रसिद्धयज्ञशब्दार्थो
ग्राह्यः । मन्त्र-ब्राह्मण-सूत्रादिभिर्निरुक्तः पारिभाषिको वाप्यो ग्राह्यः ।
सर्वपदार्थजातं चिद्भिन्नं दृश्यमानमदृश्यमानं वा प्राकृतत्वादेव
परिवर्तमानम् । परिवर्तमानञ्च नैकान्ततः सत्तां जहातीति निरन्वय-
विनाशानभ्युपगन्तॄणां सांख्य-योग-वेदान्तिनामिष्टमेव, 'चलञ्च गुणवृत्तम्,
क्षणपरिणामिनो हि भावा ऋते चितिशक्तेः इत्यादिसिद्धेः ।
सत्त्वरजस्तमसा मपि अङ्गाङ्गिभावतयैव कार्यकारित्वसिद्ध्या तदात्म-
कानां प्राकृतभावाना मपि तथात्वमुचितमेव । तस्मिन्नर्थे यज्ञत्वारोपोऽपि
कर्तुं शक्यते । सत्यप्येवं विधिप्राप्ते एव्यारोपः फलवान्, निष्फलश्चावैधः ।
'योषा वाव गौतमाग्निः इत्यादिरूपेण पञ्चाग्निविद्यासु योषादिष्वग्नि-
दृष्टिः पुरुषशुक्रादिषु हविर्दृष्टिश्च विहितत्वादेव सफला । 'तस्या
वेदिदुपस्थो लोमानि बर्हिश्चर्माधिषवणे समिद्धो मध्यस्तौ मुष्कौ स
यावान् वाजपेयेन यजमानस्य लोको भवति तावानस्य लोको भवति'
वेदस्वरूप-विमर्शः १९५
इत्यादिना मैथुनकर्मणि वाजपेयत्वसम्पादनमपि विधिबलादेव क्रियते ।
यथा प्रसिद्धस्य सिंहस्य शौर्यक्रौर्यादिगुणयोगेन अन्यत्रा-
रोपेणैव सिंहत्वं व्यपदिश्यते, तथैव केनचिद्गुणयोगेन प्रसिद्धस्य
यज्ञस्यैव अन्यत्र आरोपो भवति । प्रसिद्धयज्ञस्यैव दानादिगुण-
युक्तोऽग्निरिज्यत्वेन देवः, यज्ञापेक्षित-होम सम्पादकत्वेन पुरोहितः,
आहवनीयाग्निरूपेण वा पुरोहितः, देवानां यज्ञेषु होतृकर्मसम्पा-
दकत्वेन च होता ऋत्विगित्याद्युक्तमेव ।
किञ्च-विधिप्रयुक्ताया एवाग्नौ सोमाहुतेर्यज्ञत्वम् । परापचिकर्षया
तदन्नघृतादीनां वह्नौ निक्षेपस्य यज्ञपदार्थत्वाभावान्न, क्षेत्रादिषु बीजादि-
निक्षेपस्य यज्ञत्वेन अप्रसिद्धत्वान्न । भौतिकपदार्थोत्पत्त्यादिषु तु सर्वेषां
भूतानां प्राणात्मादीनामपि उपकारकत्वमस्त्येवेति कुतोऽग्निनैव सर्वेषा-
मुत्पत्तिः ? सर्वोत्पत्तिहेतुत्वेन अग्नेर्यथा देवत्वं तथैव अबादीनामपि
देवत्वं भवेदेवेति कुतो वा विशिष्ट्योक्तिः ? प्रसिद्धे यज्ञे तु अग्निमुखेन
सर्वैर्देवैः हविर्गृह्यत इति तस्य यज्ञस्य देवत्वं सम्भवतीति ।
यदुक्तम्- 'प्र मातुः प्रतरमिति मन्त्रेऽयमर्थः स्फुटः' इति । तदपि
चिन्त्यम्; सायणादिभिस्तस्य अन्यथा व्याख्यातत्वात् । तथा हि-
'प्र मातुः प्रतरं गुह्यमिच्छन् कुमारो न वीरुधः सर्पदूर्वीः ।
ससं नपक्वमविच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥'
( ऋ० सं० १०.७९.३ )
अत्रत्यं सायणभाष्यम्-आग्नेयं त्रैष्टुभम्, सौचीकगुणोऽग्निः ऋषिः,
वैश्वानरगुणो वा । सभिनां वाजम्भरपुत्रो वा ऋषिः । पूर्वं द्वाभ्यां
मन्त्राभ्यामग्ने रूपगुणादिकं वर्णितम् । प्रथमेन मर्त्यासु वित्सु मनुष्य-
रूपासु प्रजासु तासां हृदये वैश्वानररूपेण अमर्त्यस्य दावाग्निरूपेण
भूरिखाद्यमरण्ये भक्षयन्त्यौ स्तोतारमसंखादन्त्यौ नानाहन् संभरतो
महतोऽग्नेर्महत्त्वमुक्तम् । द्वितीयेन च तस्यैव वैशिष्ट्यमेवं वर्ण्यते ।
अस्याग्नेः शिरः मूर्धा गुहायां मनुष्योदरेषु वर्तते । तथा अक्षी अक्षिणी
पृथक् चन्द्रसूर्यात्मना निहिते । ईदृशः अस्मिन्वन् दन्तै रसं खादन्नं