वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 125, कुल 237 में से
संदर्भ में पढ़ें२२६ वेदस्वरूप-विमर्शः
कणादेनापि सामान्यं विशेष इति बुद्धयपेक्षमेव सामान्यं वदता
काल्पनिकमेव तदित्यङ्गीकृतम् इति, तन्न, सूत्रार्थानवबोधात् । तत्रैवो-
पस्कारकारादिभिर्बौद्धादिपक्षनिरसनपुरःसरं सामान्यव्यवस्थापनात् ।
सूत्रार्थस्तु—सामान्यं सत्तारूपं परसामान्यम् । अपरं सत्ता द्रव्यत्वा-
दिकम् । बुद्धिलक्षणम् । तेनोभयविधस्य सामान्यस्य बुद्धिरेवलक्षणम् ।
इतिना तद्व्यवच्छिद्य परामृश्यते । तेन बुद्धयपेक्षमिति नपुंसक-
निर्देशः ।
वृत्तिकारस्तु—विशेषान्वयमाह । 'नपुंसकमनपुंसकेनेकवच्चास्यान्यतरस्या-
मित्यनेनैकवद्भावो नपुंसकता चेत्याह । बुद्धिरपेक्षालक्षणं लिङ्गं यस्य
तद्बुद्धयपेक्षम् ।
नित्यमनेकवृत्ति सामान्यम् । परन्तु सामान्यं विशेषसंज्ञामपि लभते ।
यथा द्रव्यमिदमित्यनुवृत्तप्रत्यये सत्येव नायं गुणो, नेदं कर्मेति विशेष-
प्रत्ययः । तथा च द्रव्यत्वादीनां सामान्यानामेव विशेषत्वम् ।
सामान्यं नित्यं व्यापकञ्च । व्यापकत्वमपि स्वरूपतो न सर्वदेश-
सम्बद्धत्वम्, तत एव न देशानां गोव्यवहारापत्तिः । समवायेन तद्व्यवहा-
रस्यानभ्युपगमात् । कालस्य रूपादिमत्त्वेऽपि कालो रूपवानिति प्रतीति-
व्यवहारवत् । तथा च यत्र पिण्ड उत्पद्यते तत्रस्थमेव गोत्त्वं तेन
सम्बध्यते ।
जातः सम्बद्धश्चेत्येकः काल इत्यभ्युपगमात् । कीदृशे आश्रये वर्तत
इत्यत्र यत्र प्रतीयत इत्युत्तरम् । कुत्र प्रतीयत इत्यत्र यत्र वर्तत इत्युत्तरम्,
गोत्ववृत्तेः पूर्वं स पिण्डः कीदृगासीदित्यत्र नासीदित्येवोत्तरम् । अत-
द्व्यावृत्तिरेव गोत्वमित्यत्र गौरयमिति विधिसुखः प्रत्यय एव बाधको
ऽनुभवस्य प्रत्याख्यातुमशक्यत्वात् । एतेन 'न याति न च तत्रासीदिति
परिदेवनमात्रम् ।
सामान्यं विशेष इति द्वैविध्यं यदुक्तं तदुपपादयन्नाह—भावोऽनु
वृत्तेरेव हेतुत्वात् । सामान्यमेव भावः सत्ता अनुवृत्तेरेव हेतुः; न व्यावृत्ते-
रपि । तथा च विशेषसंज्ञां न लभते । केषां सामान्यानां विशेषसंज्ञा
इत्यपेक्षायामाह—द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च ।
वेदस्वरूप-विमर्शः २२७
सत्तासामान्यविप्रतिपत्तिनिरासाय सदिति । यतो द्रव्यगुणकर्मसु
सा सत्ता इत्युक्तम् । अपि च 'द्रव्यगुणकर्मभ्योऽर्थान्तरं सत्ता' इति
सूत्रेण स्पष्टमेव सत्ताया द्रव्यादिभ्योऽर्थान्तरमुक्तम् । यत्तु तेभ्योऽन्यत्र
नोपलभ्यम् तद्युतसिद्धिवलात् । घटपटयोस्तु युतसिद्धत्वेन पृथगुप-
लब्धिः । तस्मात् सूत्रानुयायिनां भाष्यानुसार्यैव सूत्रार्थ इति मन्तव्यम् ।
यदुक्तम्
संस्त्यानप्रसवौ लिङ्गमास्थेयौ स्वकृतान्ततः ।
संस्त्यानेस्त्यायतेर्दू ट् स्त्री सूतेः स प्रसवे पुमान् ॥
इति वार्तिकव्याख्यानमहाभाष्येणाप्यादानप्रदानयज्ञप्रक्रियाविधया
आदानविवक्षया स्त्रीलिङ्गं, प्रदानविवक्षया पुंल्लिङ्गं, ताटस्थ्यविवक्षया तु
नपुंसकलिङ्गम् इति सिद्धयति । तन्न; भाष्यविरोधात् । तथाहि अधि-
करणसाधनास्त्यायतेर्गर्भा गर्भ इति स्त्री । कर्तृसाधनश्च पुमान् सूतेः
पुमान् । इह पुनरुभयं भावसाधनम् । संस्त्यानम् स्त्रीप्रवृत्तिर्या पुमान्
शब्दादिगुणानां संस्त्यानविवक्षायां स्त्री, तेषामेव प्रवृत्त्यपेक्षायां पुमान्,
उभयविवक्षायां नपुंसकमित्येव तु महाभाष्यवचनात् सिद्धयति ।
अत्र संस्त्यानं तिरोभावरूपोऽपचयः, प्रवृत्तिश्चाविर्भावरूपलक्षण
उपचयः । केषां ? गुणानां शब्दस्पर्शादीनां, शब्दादीति सत्त्वादिकार्यमात्र-
स्योपलक्षणम् ज्ञेयम् ।
सर्वाश्च मूर्त्तय एवमात्मिका इति भाष्येणैव तद् ध्वनितम् । मूर्त्तय
इति पदार्था ग्राह्याः । आत्मनि प्रकृतौ महति अहङ्कारे च लिङ्गव्यवहारो
दृश्यते । न च तत्र शब्दादिगुणोपचयादिकं सम्भवति शब्देऽपि
वाच्याभावात्तु नोपपद्यते । आत्मनि परिणामवदन्यतादात्म्याध्यासेन
तत्परिणामानुयायित्वेन लिङ्गव्यवहारः । शब्दादिप्रदानापेक्षया पुंस्त्वं
बाष्पाद्यादानापेक्षया महदादौ पुंस्त्वादिव्यवहारो नोपपद्यत एव
महदादिषु शब्दादिसम्बन्धाभावात् । पारम्पर्येण तत्सत्त्वे तूपलक्षणमेवा-
यातम् । केष्वित्तु सात्त्विकांशाधिक्येन परिणामे पुमान्, राजसांशा-
धिक्येन परिणामे स्त्री, तामसांशाधिक्येन नपुंसकम् एतत्त्रितयं
व्यक्तिमात्रवृत्तितया केवलान्वयि । वस्तुमात्रस्य क्षणपरिणामितया वृद्धिह्रास-