वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 122, कुल 237 में से
संदर्भ में पढ़ें१२० वेदस्वरूप-विमर्शः
शब्दाभ्यां वैद्युतोऽग्निरादित्यो वा गृह्यते । तं देवमुदकधारा अभिप्रवन्त
नसन्त च, स ताश्च हर्यति ।
यदप्युक्तम् - "तिस्रो मातृः तिस्रो भूमीर्धारयत्' इत्यादिभिरपि
मन्त्रैः सूर्यकृतं पृथिव्यादिधारणं सिद्धयति" इति । तदपि न ; मन्त्रयो-
रनयोरन्यार्थकत्वात् । समग्रौ मन्त्रौ मन्त्रार्थचेत्थम्-
'तिस्रो मातृस्त्रीन् पितॄन् बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति ।
मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ॥'
( ऋ० सं० १.१६४.१० )
अर्थः-एकः प्रधानभूतः असहायो वा पुत्रस्थानीयः आदित्यः
संवत्सराख्यः कालो वा तिस्रः मातृः सस्यवृष्ट्याद्युत्पादयित्रीः,
क्षित्यादिलोकत्रयमित्यर्थः । तथा त्रीन् पितॄन् जगतां पालयितॄन् लोक-
त्रयाभिमानिनः अग्निवायुसूर्याख्यान् बिभ्रत् सन्, ऊर्ध्वस्तस्थौ उन्नतः
अत्यन्तदीर्घस्तिष्ठति भूतभविष्यादात्मना । सूर्यपक्षे सर्वेभ्य उन्नतः ।
ईम् एनं न अवग्लापयन्ति ग्लानिं नैव कुर्वन्ति । नहि कालः आदित्यो
वा अन्येन पराभूयते । दिवः पृष्ठे द्युलोकस्योपरि अन्तरिक्षे मन्त्रयन्ते
गुप्तं परस्परं भाषन्ते देवाः । किम् ? विश्वविदं विश्ववेदनसमर्थां विश्वै-
र्वन्दनीयां अविश्वमिन्वाम् असर्वव्यापिनीं वाचं गर्जितलक्षणाद् अमुष्य
आदित्यस्य सम्बन्धिनों मन्त्रयन्ते इत्यर्थः ।
यथा लोके पुत्रो मातापित्रोः पोषकत्वेन धारको भवति, तथैवात्र
सूर्यस्य संवत्सरस्य वा क्षित्यादिधारयितृत्वम् । नात्र आकर्षणविज्ञान-
बोधकः कश्चन शब्दोऽस्ति ।
'तिस्रो भूमीर्धारयन् त्रीँ रुत द्यून् त्रीणि व्रता विदथे अन्तरेषाम्।
ऋतेनादित्या महि वो महित्वं तदर्यमन् वरुणमित्र चारु ॥'
(ऋ० सं० २.२७.८ )
अर्थः- तिस्रो भूमीः । अत्र भूमिशब्दो लोकत्रये वर्तते । 'यो द्विती-
यस्यां तृतीयस्यां पृथिव्याम्' इत्यत्र यथा पृथिवीशब्दः । भूम्यन्तरिक्ष-
स्वर्गां स्त्रीन् लोकान् आदित्याः धारयन् वृष्टिप्रदानादिना धारयन्ति ।
वेदस्वरूप-विमर्शः २२१
उत अपि च द्यून दीप्तान् तत उपरितानान् महरादिकानपि त्रीन् लोका
धारयन्ति । यद्वा-दीप्तान् अग्नि वायुं सूर्यंञ्च धारयन्ति । अपि च -
एषामादित्यानां विदथे यज्ञे अन्तः मध्ये त्रीणी व्रता सवनत्रयनिष्पाद्यानि
त्रीणि कर्माणि सन्ति । यद्वा - एषां लोकानामन्तर्मध्ये विदथे यज्ञे निमित्त-
भूते सति एषामादित्यानां त्रीणि कर्माणि रसादान-धारण-विसर्जन-
लक्षणानि सन्ति । उत्तरोऽर्धर्चः प्रत्यक्षकृतः । हे आदित्याः ऋतेन सत्येन
यज्ञेन वा महि महत् प्रभूतं वः युष्माकं महित्वं महत्त्वं यन्महाभाग्यं
हे अर्यमन् वरुण मित्र तन्महाभाग्यं चारु शोभनम्, सर्वोत्कृष्ट-
मित्यर्थः।
यदप्युक्तम्- "आकृष्णेन रजसा' इत्यत्रापि रजसो लोकस्य कथं
कृष्णत्वमिति शङ्का 'सूर्योदयात् पूर्वं लोकः कृष्ण एव भवती'ति तेन
समाहिता । सूर्यमण्डलस्य कृष्णत्वं तु न तद्बुद्धावुपारूढम् । तस्मिन्काले
एवंविधानां विज्ञानानामत्यन्ताभाव एवात्रापि निदानम् । न खलु
अश्रुतादृष्टचरेऽर्थे बुद्धिः प्रसरति" इति ।
तदप्युक्तोपालम्भनम्; मन्त्रेणानेन सवितुः कृष्णवर्णात्वानुक्तेः ।
अमुकेन ग्रामेण गन्तव्यमिति यथा ग्रामस्य मार्गरूपेण निर्देशस्तथैवा-
त्रापि रजसा लोकेन वर्तमानेति मार्गनिर्देशः । तस्य चान्तरिक्षलोकस्य
न स्वाभाविकं कृष्णत्वमिति युक्तमेव । सूर्योदयात् प्राक् तस्य कृष्णत्व-
प्रतीतिः । श्रुतिषु त्वादित्यस्य अनेकानि रूपाणि वर्