वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 119, कुल 237 में से
संदर्भ में पढ़ेंपृष्ठ २१४
यदप्युक्तम्- "सर्वाणि रूपाणि सूर्य्यरश्मिभिरेव निर्मीयन्ते । शुक्लं कृष्ण-
ञ्चेति द्वे एव रूपे मुख्ये । तत्सन्धिगतं रक्तम् , मिश्रणजानि चान्यानीति
रूपविषये वैज्ञानिकानां दर्शनम् । तदपि 'इन्द्रो रूपाणि कनिक्रदच्चरन्'
'शुक्रं ते अन्यद् यजतं ते अन्यद् विषुरूपे अहनी द्यौरिवासि ।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥'
(ऋक् सं० ६. ५८. १)
इत्यादिषु स्फुटमाम्नातम्" इति । तदपि न ; मन्त्रस्यान्यपरत्वात् । तथा
हि—हे पूषन् ते तव शुक्रं शुक्लवर्णम् अन्यन् एकम् अहर्भवति वासरा-
त्मकम् । तथा ते तव सम्बन्धि यजतम् । यजिरत्र सङ्गतिकरणे वर्तते ।
यजनीयं प्रकाशेन सङ्गमनीयं स्वतः कृष्णवर्णम् अन्यन् एकम् अहर्भवति
रात्र्याख्यम् । इत्थं विषुरूपे शुक्लकृष्णतया नानारूपे अहनी तव महिम्ना
निष्पद्येते ।
यद्वा—हे पूषन् त्वदीयमन्यदेकं रूपं शुक्रं निर्मलं दिवसस्योत्पादकम्,
त्वदीयमन्यदेवं रूपं यजतं केवलं यजनीयं न प्रकाशकं रात्रेरूत्पादकम् ।
अत एव विषुरूपे अहनी अहश्च रात्रिश्च भवतः । अहोरात्रयोर्निर्माणे
सूर्य एव कर्ता । कथमस्य प्रसक्तिरिति तत्राह—द्यौरिवासि । यथा द्यौः
आदित्यः प्रकाशयिता तथा त्वं प्रकाशकोऽसि । कुत इत्यत आह—हे
स्वधावः अन्नवन् पूषन् विश्वाः सर्वाः मायाः प्रजाः हि यस्मात्कारणात्
अवसि रक्षसि, अतः कारणात् त्वं सूर्य इव भवसीत्यर्थः । तादृशस्य ते
तव भद्रा कल्याणी रातिः दानम् इह अस्मासु अस्तु भवतु । यास्कस्तु
आह—'शुक्रं ते अन्यल्लोहितं ते अन्यद्यज्ञियं ते अन्यदिति वा विषम रूपे
अहनी कर्मणा द्यौरिव चासि । सर्वाणि च प्रज्ञानान्यवस्यन्नवन्'
(निरुक्ते ११.१७) इति ।
यदुक्तम्— 'विपरीते काले स्वार्थबुद्धौ प्राबल्यमागतायाम आभिचा-
रिककर्म सुप्रसारं गतेषु जगद्धितबुद्ध्या क्रियमाणानां यज्ञानां विरलता-
मापन्ने प्रचारे वैदिकं विज्ञानं क्रमेण शैथिल्यमभजत् । महाभारतयुद्धा-
नन्तरं तु चित्रपट इव परिवर्तते स्म। देशविप्लवात् खिन्नेषु लोकेषुका नाम
पृष्ठ २१५
विज्ञानोन्नतिकथा ? विरलतामापन्न उच्छिन्नो वैदिको गुरुसम्प्रदायः,
विद्याश्च विरलतामापन्नाः । अस्मिन् व्यतिकरे प्राक्तनाः सामयिका
वा वेदाङ्गप्रवक्तारो दर्शनसूत्रकाराणां चैकदेशमवलम्ब्य लोकदृष्टिमाक्रष्टुं
कृता अपि प्रयत्ना न साफल्यमभजन् । प्रत्युत अङ्गविस्तारो मतभेद-
विस्तारश्च वैदिक-विज्ञान-विरोधानायैव अकल्प्यत ।
ब्राह्मे क्षात्रे च युगपद्विलयं गते दैवादुपस्थितो बौद्धानां समयः ।
तदानीं न केवलं सम्प्रदाय एव उच्छिन्नः, अपि तु वेदरहस्यबोधका निदान-
रहस्यादिग्रन्था अपि प्रलयं गताः । उच्छिन्ना वेदशाखाः व्युलुप्यन्त
बहूनि ब्राह्मणानि । नाममात्राय अवशिष्यन्त विद्याः । ब्रह्मतेजःप्रभावेणैव
प्रशान्तः स झञ्झावातः । कर्मकाण्डमुपासना-काण्डं ज्ञानकाण्डञ्च
पुनरपि सम्प्रदायबद्धमभूत् । परं विज्ञानशैली तु विलुप्तैवाभवत् ।
सम्प्रदायस्य विच्छिन्नप्रायत्वात् ग्रन्थानां विलोपाच्च विज्ञानकथा-
भिरपि शून्ये ऐन्द्रजालिकमायाप्रधाने कालेऽधिकारिणां विरहान्न
तदुद्धाराय समय आसीत् । आचार्यैः आवश्यककर्मसम्प्रदाय-
रक्षा कृता । मन्त्र-ब्राह्मणात्मकस्य वेदस्य कर्मावबोधकः साम्प्रदायिकोऽर्थः
सुरक्षितोऽभूत् । उपपादकं तु विज्ञानम् अर्थवादशब्दवाच्यतामापाद्य
परित्यक्तमभूत् । विज्ञानविरहाच्च इयमार्थविद्या शब्दप्रधानतां गता ।
तर्क व्याकरण-साहित्यादयः शब्दाडम्बरमात्रसारा लोकेभ्योऽरोचन्त।
जल्पप्रक्रिया कवित्वप्रक्रिया च विनोदायालम्भूत् ।
वेदानां भाष्याणि व्यरच्यन्त, परं कर्मोपयोगिसम्प्रदायप्राप्तो-
ऽर्थस्तत्र विवृतः । वैज्ञानिकानां वैदिकानां सङ्केतानां सम्प्रदायविच्छेदाद्
विलोप एवाभूत् । तत एवाधुनिकेषु भाष्येषु न वैज्ञानिकी पद्धति-
रुपलभामहे । मनुष्योपयुक्ततया मन्त्रा व्याख्याताः । विज्ञान-
जीवातूभूता प्राकृतयज्ञपरता तु समुपेक्षितैव । प्राकृतेन यज्ञेनैव
जगदुत्पत्ति-स्थिती स्तः । तं प्राकृतं यज्ञमुपजीव्यैव अस्माकं प्रातिस्विकी
यज्ञप्रक्रिया प्रचलति । तयोः सम्बन्धोऽपि वेदेषु सङ्केतितः । परं स
न भाष्येषु स्पष्टीक्रियते । अध्यात्ममधिभूतमधिदैवतञ्च ये देवपित्राद्याः,
तेषां विवेकोऽपि भाष्येषु नोपलभ्यते । तत एवैकस्य धर्मा अपरसम्वन्धि-