वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 116, कुल 237 में से
संदर्भ में पढ़ेंकृष्णवर्णात्वासम्भवात् । अत एव कृष्णेन लोकेन कृष्णान्तरिक्षमार्गेण
आवर्तमानः पुनःपुनरावर्तमान इत्येवार्थः । तदुक्तं सायणेन—
'सविता सूर्यः 'कृष्णवर्णेन कृष्णं कृष्यतेर्निकृष्टो वर्णः' ( निरुक्त
२.२०) । 'लोका रजांस्युच्यन्ते (नि० ४.१९ ) । अन्तरिक्षलोको हि
सूर्यागमनात् पुरा कृष्णवर्णो भवति । कृष्णेन रजसा लोकेन अन्तरिक्ष-
मार्गेण आवर्तमानः पुनःपुनरागच्छन् अमृतं देवं मर्त्यं मनुष्यञ्च
निवेशयन् स्वस्वव्यवहारे व्यवस्थापयन् । यद्वा-अमृतं मरणरहितं
प्राणं मर्त्यं मरणसहितं शरीरञ्च निवेशयन्, 'मर्त्यानि हीमानि
शरीराणि अमृतेषा देवता' (ऐ० आ० २. १. ८) इति श्रुतेः। स सविता
देवः भुवनानि सर्वान् लोकान् पश्यन् अवेक्षमाणः प्रकाशयन्
हिरण्ययेन सुवर्णनिर्मितेन रथेन आयाति अस्मत्समीपमागच्छति इति ।
यदुक्तम्-
'उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥'
( ऋ० सं० १. ५० . १)
इति मन्त्रस्यापि व्याख्याने "सूर्यकिरणा विश्वस्मै दर्शयितुं सूर्य
देवमुद्वहन्ति ऊर्ध्वं प्रापयन्ति । व्याख्यातञ्च तथैव भाष्यकारैः पूर्वमूर्ध्व-
स्थितमादित्यमधः स्थितानस्मान् किरणा दर्शयन्ति, तेन उपवहन्तीति
वक्तव्ये कुत उद्वहन्ति ? यद्यपि ऊर्ध्वमपि प्रसरन्ति किरणाः ; तथापि न
तैरस्मत्प्रयोजनं सिद्ध्यति । अस्मद् दर्शनं तु अधःप्रसरणादेव
भवति । सूर्यकिरणानामधःप्रसरणादेवास्माकम् उदयात् पूर्वमेव सूर्यदर्शनं
भवति । तदेतत् तदैवोपपद्यते यदा वैज्ञानिकानामेष सिद्धान्तोऽधीयते यद्
यावन् सूर्योऽस्मत्-क्षितिजादधस्तादेव भवति, नेत्र सूत्रसम्बन्धं नैव गच्छति
तावदेव किरणाः पृथिव्या उपरिष्टाद्वायुमण्डले पतिताः वक्रीभूय
अस्मन्नेत्राणि अनुप्रविष्टाः स्वसंमुखमभिसूर्य दर्शयन्ति । सूर्यस्य
वास्तविकोदयात् पूर्वमेव सूर्योदयोऽस्माभिरनुमन्यते । यावदियं घटना
तावदेव सूर्यमण्डलं रक्तं प्रतीयते । ततश्च क्षितिजादधःस्थितमेव सूर्यं
केतव उद्वहन्ति विश्वं दर्शयन्ति" इति ।
तदेतदपि वेदेषु विज्ञानप्रदर्शनाभिनिवेशमात्रम् । सायणोक्तरीत्या
मन्त्रार्थस्य अन्यथोपपत्तेः ।
ननु चोर्ध्वं स्थितस्यैव सूर्यस्य कथं विश्वदर्शनाय किरणैरुद्वहनम् ?
कथञ्च आधुनिकवैज्ञानिकरीत्याऽपि अधःस्थितस्यैव सूर्यस्य उदयेन
ऊर्ध्वगमनसिद्धिः ? वायुना किरणानां वक्रीभावेन यद्यपि सूर्योदयदर्शन-
मुक्तम्, तदपि न सम्भवम्; किरणानामेव दर्शनं सम्भवति, न सूर्य-
मण्डलस्य । तथा च सूर्योदयात् पूर्वमेव सूर्योदयाभिमानोऽसङ्गत एव ।
वस्तुतस्तु प्रतीत्यभिप्रायेणैव एषोक्तिः । अधस्तादुदीय ऊर्ध्वमुद्गमा-
दिकमादित्यस्य प्रत्यक्षं दृश्यत एव । अत एव उदेति, उदय इत्यादि शब्द-
व्यवहार उपपद्यते । तदभिप्रायेणैव सायणभाष्यम्—
'केतवः प्रज्ञापकाः सूर्याश्वाः । यद्वा रश्मयः । सूर्यं सर्वस्य प्रेरक-
मादित्यम् । उदू ऊर्ध्वं वहन्ति । उ इति पादपूरणः । मिताक्षरेष्वनर्थकाः
कमीमिद्विति ( नि० १.९) । विश्वाय विश्वस्मै, भुवनाय दृशे द्रष्टुम् ।
यथा सर्वे जनाः सूर्यं पश्यन्ति तथा ऊर्ध्वं वहन्ति । कीदृशं सूर्यम् ? त्यम्
प्रसिद्धम् । जातवेदसं जातानां प्राणिनां वेदितारं जातप्रज्ञं जातधनं वा।
देवं द्योतमानम्, उद्वहन्ति तं जातवेदसं देवम् अश्वाः केतवो रश्मयो
वा, सर्वेषां भूतानां संदर्शनाय सूर्यम्' (नि० १२.१५) इति ।
यदुक्तम्- "अभित उदकधाराभिरन्तरिक्ष्योऽग्निर्दीप्यते इति वदन्
निरुक्तकारः श्रुतिषु स्फुटतरं वैद्युतं विज्ञानं वदति । 'अप्सूष्वन्ते सधिष्टव-
सौषधींरनुऋष्यते । गर्भे सन् जायते पुनः' ( यजुः० १२.३६) इत्यादि-
मन्त्रेष्वपि स्फुटं विद्युद्विज्ञानम् । अपान्नपात् इति अन्तरिक्षाग्निनाम
सुपठ्यते निघण्टौ । ततश्च अबिन्धनः अप्सु अन्तर्वर्तमानः आन्तरिक्ष्यो-
ऽग्निरित्यतः परं किं विद्युतः परिचयदानं संभवेत्" इति ।
तदपि न समीचीनम्; मन्त्रेऽत्र वैद्युताग्नेः प्रसङ्गाभावात् । तथा च
सायणोक्तोऽर्थः-'तथा हि, हे अग्ने अप्सु जलेषु तव सधिः स्थानम्,
स त्वमोषधीः यथाथा अनुरूध्यसे ओषधिपरिणाममनुपरिणमसे । यद्वा-
ओषधीः स्वीकरोषि जठराग्निरूपेण । किञ्च-गर्भे अरण्योर्मध्ये स्थितः
सन् पुनःपुनर्जायसे' इति ।
वे० वि० १४