वेद स्वरूप विमर्श (स्वामी करपात्री जी महाराज - अपौरुषेय वेद-प्रामाण्य एवं वैदिक समन्वय)
Veda Swaroop Vimarsha of Swami Karpatri Maharaj
धर्मसम्राट् स्वामी करपात्री जी महाराज द्वारा
पृष्ठ 128, कुल 237 में से
संदर्भ में पढ़ेंनाऽग्नौ यथा कथञ्चित् सोमदधिघृतादिनिक्षेप एव याग इति वक्तुं
शक्यते, अनीप्सितवद्दाहादावतच्छब्दप्रयोगात् । सर्वत्र विधेरेव प्राधा-
न्यम् । अत एव "विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यतीति" "छिद्रं-
हि मृगयन्त्येते विद्वांसो ब्रह्मराक्षसा' इत्यादिभिः विधिहीनयज्ञस्य
विपरीतफलकत्वमवगम्यते । अत एवाग्निहोत्रदर्शपूर्णमासचातुर्मास्या-
दीनामङ्गोपाङ्गप्रभेदविधानवन्न प्राकृतयागत्वेनाभिमतेष्वधिदैवतेषु
सोमहोमेषु तथाविधप्रभेदवर्णनमुपलभ्यते । निरुक्तादिषु तु भाव-
विकारविवरणे यमेन विच्छिन्नतया अल्पा गतिर्यत्र तज्जीर्णं भूत्वा
नश्यति इति वस्तुगत्यां सत्यामपि तत्र तदेतन्न चर्चितम् । गार्हपत्या-
हवनीयदक्षिणाग्निषु लोकत्रयदृष्टिरुपासनाथैव न वस्तुस्थित्यनुरोधेन
योषादिष्वग्निदृष्टिवत् ।
'अयं वै लोको गार्हपत्यः' इति श्रुत्या न
इस पृष्ठ का पूरा पाठ पढ़ने के लिए निःशुल्क खाता बनाएँ
पृष्ठ का स्कैन सभी के लिए निःशुल्क है।
खाता बनाएँ या साइन इन करें