सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

Upavanavinoda of Sharngadhara with Commentary

आचार्य शार्ङ्गधर (सम्पादक: पं. गिरिजाप्रसाद) द्वारा

DevanagariHindipublished134 पृष्ठ

तृतीय खण्ड: विचित्र पुष्प-फलोत्पत्ति एवं उपवनविनोद उपसंहार

88 UPAVANA VINODA
time of sowing, and sprinkle some water over them, they always produce
good fruits.
229. One should treat the bulbs of water-lily in Aṅkola oil, and keep it
in cowdung for some time, and then put it in a water pot full of hail
water and mud,—then flowers will surely come out of them.
230. One should purify (treat) a pit with burnt powders of the bone and
dung of cow and pig, then fill the pit with sands and sow the seeds of radish
in it, and the radish will be as big as the pit.
231. If one digs a pit in the ground with bricks all around, 4½ cubits
deep, and plants a tree in it (pit), it (the tree) always remains dwarfish and
bears flowers and fruits.
XV. HERE BEGINS THE SECTION CALLED ANNADINISHPATTI
JNANA—THE ASCERTAINMENT OF THE PRICES
AND GROWTH OF THINGS
232. One should do well to ascertain the cheapness of things as well as
the growth of corns through observation of the growth of leaves, and flowers
and fruits of trees.
233. One should predict the abundance of barley on seeing the luxurious
growth of the leaves and flowers and fruits of Banyan trees, of that of Śāli
rice through similar growth in Tinduka trees, and of all kinds of crops through
similar growth in Aśvattha.
234. One should do well to predict the growth of Māṣa from the
abundance of leaves, flowers and fruits of Jambū tree, of Mudga from
abundunce of the same things in Śirīṣa tree, of Godhūma from Madhuka
tree, and of Yava from Saptaparṇa tree.
235. One should predict the abundance of elephants from the
abundance (of leaves, flowers and fruits) of Hastikarṇa tree, of horses from
that of Aśvakarṇa, of cows from Pātalā trees, and of goats from plantain
trees.
236. Growth of leaves, flowers and fruits in Mango trees indicates the
prosperity of a country, that of Vallātaka trees indicates various causes of fear,
that of Pīlu tree indicates relief from diseases and that of Khadira and
Śamī trees forebodes famine, and that of Arjuna tree abundance of good
rain.
237. Abundance of flowers of Pichumanda and Nāgakeśara trees
indicates abundance of corns in a country, that of Kapittha means the chances
of storm, that of Vetasa means fear of drought, and that of Kutaja fear of
diseases.

APPENDIX
12

इस पृष्ठ पर कोई पठनीय पाठ (text) उपलब्ध नहीं है; यह एक रिक्त पृष्ठ (blank page) प्रतीत होता है।

भद्रप्रदवृक्षाः ॥
श्रीभगवानुवाच ।
आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः ।
शिबिरस्य यदीशाने पूर्वे पुत्रप्रदस्तरुः ॥
सर्वत्र मङ्गलार्हश्च तरुराजो मनोहरः ।
रसालवृक्षः पूर्वस्मिन् नृणां सम्पत्प्रदस्तथा ॥
शुभप्रदश्च सर्वत्र सुरकारो निशामय ।
बिल्वश्च पनसश्चैव जम्बीरी बदरी तथा ॥
प्रजाप्रदश्च पूर्वस्मिन् दक्षिणे धनदस्तथा ।
सम्पत्प्रदश्च सर्वत्र यतो हि वर्द्धते गृही ।
जम्बूवृक्षश्च दाड़िम्बः कदल्याम्रातकस्तथा ॥
बन्धुप्रदश्च पूर्वस्मिन् दक्षिणे मित्रदस्तथा ।
सर्वत्र शुभदश्चैव धनपुत्रशुभप्रदः ॥
हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा ।
ईशाने सुखदश्चैव सर्वत्रैवं निशामय ॥
सर्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा ।
अलावूश्चापि कुष्माण्डो मायाम्बुश्च सुकासुकः ॥
खर्जूरी कर्कटी चापि शिबिरे मङ्गलप्रदा ।
वास्तूकः कारविल्वश्च वार्त्ताकुश्च शुभप्रदा ।
लताफलञ्च शुभदं सर्वं सर्वत्र निश्चितम् ॥
निषिद्धवृक्षा यथा,—
प्रशस्तं कथितं कारो ! निषिद्धञ्च निशामय ।
वन्यवृक्षो निषिद्धश्च शिबिरे नगरेऽपि च ॥
बटो निषिद्धः शिबिरे नित्यं चौरभयं ततः ।
नगरेषु प्रसिद्धश्च दर्शनात् पुण्यदस्तथा ॥
हे कारो ! तिन्तिड़ीवृक्षो यत्नात्तं परिवर्जयेत् ।
शरणे धनहानिः स्यात् प्रजाहानिर्भवेद्ध्रुवम् ॥

92 UPAVANA VINODA
शिविरेऽतिनिषिद्धश्च प्राज्ञस्तं परिवर्जयेत् ।
खर्जूरश्च डहुश्चैव निषिद्ध शिबिरे तथा ॥
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ।
वृक्षाश्च चम्पकादीनां धान्यञ्च मङ्गलप्रदम् ॥
ग्रामेषु नगरे चापि शिबिरे च तथैव च ।
इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा ॥
अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ।
कच्ची हरिद्रा शुभदा शुभदश्चाद्रकस्तथा ॥
हरितकी च शुभदा ग्रामेषु नगरेषु च ।
न वात्यां भद्रता नित्यं तथा चामलकी ध्रुवम् ॥¹
अपुत्रस्य च पुत्रत्वं पादपा इह कुर्वते ।
यत्नेनापि च राजेन्द्र ! अश्वत्थारोपणम् कुरु ॥
स ते पुत्रसहस्राणां कार्यमेकः करिष्यति ।
धनी चाश्वत्थवृक्षेण अशोकः शोकनाशनः ॥
प्लक्षो यज्ञप्रदः प्रोक्तो निम्बश्चायुप्रदः स्मृतः ।
जम्बुकी नाकदा प्रोक्ता भार्यादा दाड़िमी तथा ॥
डुम्बरो रोगनाशाय पलाशो ब्रह्मदस्तथा ।
अर्कपुष्पारोपणान् नित्यं तुष्येद्दिवाकरः ॥
श्रीवृक्षः शङ्करो देवः पाटलायान्तु पार्वती ।
शिंशपायामप्सरसः कुन्दे गन्धर्वसत्तमाः ॥
विभीतके दासवृद्धिर्वकुलो दास्यदस्तथा ।
अपत्यनाशकस्तालो वकुलः कुलवर्द्धनः ॥
बहुभार्या नारिकेली द्राक्षः सर्वाङ्गसुन्दरः ।
रतिप्रदा तथा केली केतकी सर्वनाशिनी ।
प्रतिष्ठां ते गमिष्यन्ति ये नराः प्लक्षरोपकाः ॥²
¹ ब्रह्मवैवर्त्ते श्रीकृष्ण जन्मखण्डे १०२ अध्यायः।
Śabdakalpadruma, vol. 4, pp. 475-476, Radhakanta Deb edition, Calcutta, Śakābda 1814.
² पद्मपुराणे सृष्टिखण्डे वृक्षारोपणम् नाम २६ अध्यायः।

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 93
वृक्षस्य रोपणफलम्।
यम उवाच।
यः पुमान् रोपयेद्वृक्षान् छायापुष्पफलोपगान्।
सर्व्वसत्त्वोपभोगाय स याति परमां गतिम्॥
छायापुष्पोपगांस्त्रिं'शत् फलपुष्पद्रुमांस्तथा।
रोपयित्वा दशांश्चांस्तु नरो न नरकं व्रजेत्॥
देवदानवगन्धर्व्वाः किन्नरोरगगुह्यकाः।
पशुपत्तिमनुष्याश्च संश्रयन्ति मुदा द्रुमान्॥
पुष्पैः सुरगणाः सर्व्वे फलैश्च पितरः सदा।
छायया च मनुष्यास्तु पशुपक्षिमृगास्तथा॥
पुष्पोपगन्धांश्च फलोपगन्धान्
यः पादपान्रोपयते मनुष्यः।
समृद्धदेशे वरवेश्मवेद्यां
लभेदधिष्ठानवरं स विप्रः॥
तस्मात् सुवहवो वृक्षा रो

94 UPAVANA VINODA
भूमि दानेन ये लोका गोदानेन च कीर्त्तिताः ।
ते लोकाः प्राप्यते पुंभिः पादपाणां प्ररोहणे ॥
अश्वत्थमेकं पिचुमर्दमेकं
न्यग्रोधमेकं दश पुष्पजातीः ।
द्वे द्वे तथा दाड़िममातुलुङ्गे
पञ्चाम्ररोपी नरकं न याति ॥
यथा सुपुत्रः कुलमुद्धरेद्धि
यथातिकृच्छ्राच्छियमप्रयत्नात् ।
तथात्र वृक्षाः फलपुष्पभूताः
स्वं स्वामिनं नरकादुद्धरन्ति ॥
गोकर्ण उवाच ।
इन्धनार्थं यथा नीतमग्निहोत्रं तदुच्यते ॥
छाया विश्राम पथिकैः पक्षिणां निलयेन च ।
पत्रमूलत्वगादींश्च औषधार्थन्तु देहिनाम् ॥
उपकुर्व्वन्ति वृत्तस्य पञ्चयज्ञः स उच्यते ।
गृहकृत्यानि काष्ठानि क्षुद्रजन्तुगृहस्तथा ॥
सत्रनिर्व्वर्त्तनं प्रोक्तं भिक्ता पत्रैः समाकृता ।
फलन्ति वत्सरे मध्ये द्विवारं शाकुनादयः ॥
सांवत्सरं पितुर्मातुरुपकारं फलं कृतम् ।
एवं पुत्र समारोप्या एवं तत्वविदो विदुः ॥
अच्छेद्य वृक्षा यथा,—
अश्वत्थो वटवृक्षश्च न च्छेत्तव्यः कदाचन ।
न च्छेत्तव्यो विल्ववृक्ष उडुम्बरश्च कदाचन ।
कर्म्मरङ्गाश्चैव ये वृक्षा न च्छेत्तव्याः कदाचन ॥¹
वृक्षच्छेदने दोषः ।
तस्मान्न च्छेदयेत् वृक्षान सुपुष्पफलितान् कदा ।
यदीच्छेत् कुलवृद्धिञ्च धनवृद्धिञ्च शाश्वतीम् ॥
1 वाराहपुराणे गोकर्णमाहात्म्यानामाध्याय

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 95
सन्निधौ देवतानाञ्च शिलैष्टकचितानपि ।
छेदितांश्छेदयेल्लोकान् मरकवृष्टिक्षुद्भयैः ॥
नृपहानिर्भवेच्छीघ्रं चित्यावृक्षे निपातिते ।
सन्नियोगी व्यथां याति सीमावृक्षे निपातिते ।
तस्मान्न छेदयेद् वृक्षं देवताधिष्ठितं क्वचित् ॥
वापीकूपतड़ागानां छेदने रोधने कृते ।
कुलान्यकुलतां यान्ति नराणां सुदुरात्मनाम् ॥
तांश्च छेदयेद्यस्तु वृक्षान् छायासुशीतलान् ।
असिपत्रबने घोरे पीड्यते यमकिङ्करैः ॥
नगरोपवने वृक्षान् प्रमादाद्धि च्छिनत्ति यः ।
स गच्छेन्नरकं नाम जुम्भणं रौद्रदर्शनम् ॥
बिल्वादिपालनं कुर्याच्छुभं भयदमन्यथा ।
श्रीवृक्षान्रोपयेत् पञ्च यदि स्वर्गान्न हीयते ॥¹
वृक्षस्तु सफलं छित्त्वा सुवर्णं दण्डमर्हति ।
द्विगुणं दण्डयेच्चैनं पथिसीम्निजलाशये ॥
छेदनादफलस्यापि मध्यमं साहसं स्मृतम् ।
गुल्मवल्लीलतानाञ्च सुवर्णस्य च माषकम् ॥
वृक्षच्छेदी तृणस्यापि दण्ड्यः कार्षापणं भवेत् ।
विभागं कृष्णला दण्ड्याः प्राणिनस्ताडने तथा ॥
देशकालानुरूपेण मूल्यं राजा द्रुमादिषु ।
तत् स्वामिनस्तथा दण्ड्या दण्डमुक्तस्तु पार्थिवः ॥²
बृहत् संहिता । ५३ ॥³
अथ दकार्गलं व्याख्यायते ।
धर्म्यं यशस्यञ्च वदाम्यतोऽहं दकार्गलं येन जलोपलब्धिः ।
पुंसां यथाङ्गेषु शिरास्तथैव क्षितावपि प्रोन्नतनिम्नसंस्थाः ॥ १
1 अग्निपुराणे वारुणारामप्रतिष्ठाध्यायः ।
2 मत्स्यपुराणे २२७ अध्यायः ।
3 Vol. II, pp. 706-742. The Vizianagram Sanskrit Series. Vol. X, Benares, 1895-1897.
Additional texts in the footnote are quoted from the Commentary.

96 UPAVANA VINODA
एकेन वर्णेन रसेन चाम्भश्च्युतं नभस्तो वसुधाविशेषात् ।
नानारसत्वं बहुवर्णताञ्च गतं परीक्ष्यं क्षितितुल्य मेव ॥ २$^1$
पुरुहूतानलयमनिऋॄ तिवरुणापवनेन्दुशङ्करा देवाः ।
विज्ञातव्याः क्रमशः प्राच्यादीनां दिशां पतयः ॥ ३
दिक्पतिसंज्ञाश्च शिरा नवमी मध्ये महाशिरानाम्री ।
एताभ्योऽन्याः शतशो विनिःसृता नामभिः प्रथिताः ॥ ४
पातालानूर्द्धशिराः शुभाश्चतुर्दिक्षु संस्थितायाश्च ।
कोणे दिग्गुत्था न शुभाः शिरानिमित्तान्यतो वक्ष्ये ॥ ५
यदि वेतसोऽम्बुरहिते देशे हस्तैस्त्रिभिस्ततः पश्चात् ।
सार्द्धे पुरुषे तोयं बहति शिरा पश्चिमा तत्र ॥ ६
चिह्नपि चार्द्धपुरुषे मण्डूकः पाण्डुरोऽथ मृत् पीता ।
पुटभेदकश्च तस्मिन् पाषाणो भवति तोयमधः ॥ ७$^2$
जम्ब्वाश्चोदग्ध्यस्तैस्त्रिभिः शिराधो नरद्वये पूर्ब्बा ।
मृल्लोहगन्धिका पाण्डुराथ पुरुषेऽत्र मण्डूकः ॥ ८
जम्बूवृक्षस्य प्राग् वल्मीको यदि भवेत् समीपस्थः ।
तस्माद्दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु ॥ ६
अर्द्धपुरुषे च मत्स्यः पारावतसन्निभश्च पाषाणः ।
मृद्भवति चात्र नीला दीर्घकाल बह्व च तोयम् ॥ १०$^3$
1 तथा च भट्टोत्पल—सशर्करा ताम्रमही कषायं क्षारं धरित्री कपिला करोति ।
आपाण्डुरायां लवणं प्रदिष्टमिष्टं पयो नीलवसुन्धरायाम् ॥
2 तथा च सारस्वतः—निर्जले वेतसं दृष्ट्वा तस्माद्ध्वचादपि त्रयम् ।
पश्चिमायां दिशि ज्ञेयमधः सार्धेन वै जलम् ॥
नरोऽत्र षष्टिर्द्विगुणा चाङ्गुलानां प्रकीर्त्तितः ।
तत्र खात्वाऽर्धपुरुषं भेकः पाण्डुरवर्णकः ॥
मृत् पीता पुटभेदश्च पाषाणोऽधस्ततो जलम् ।
शिरा पश्चिमदिक्स्थाच वहतीति विनिर्दिशेत् ॥
3 तथा च सारस्वतः—जम्बूवृक्षात् पूर्वभागे वल्मीको यदि दृश्यते
ततोदक्षिणतो हस्तांस्त्रींस्त्यक्ताऽधो जलं वदेत् ॥
नरद्वयेऽर्धपुरुषे मत्स्योऽश्मा पश्चिसन्निभः ।
ततोऽपि मृत्तिका नीला ततो भ्रष्टं जलं वदेत् ॥

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 97
पश्चादुदुम्बरस्य त्रिभिरेव करैर्नरद्वये सार्द्धे ।
पुरुषे सितोऽहिरश्माञ्जनोपमोऽधः शिरा सुजला ॥११
उदगर्जुनस्य दृश्यो वल्मीको यदि ततोऽर्जुनाद्धस्तैः ।
त्रिभिरम्बु भवति पुरुषैस्त्रिभिरर्द्धसमन्वितैः पश्चात् ॥१२
श्वेता गोधार्द्धनरे पुरुषे मृद्धूसरा ततः कृष्णा ।
पीता सिता ससिकता ततो जलं निर्दिशेदसितम् ॥१३
वल्मीकोपचितायां निर्गुण्ड्यां दक्षिणेन कथितकरैः ।
पुरुषद्वये सपादे स्वादुजलं भवति चाशोष्यम् ॥१४
रोहितमत्स्योऽर्द्धनरे मृत्कपिला पाण्डुरा ततः परतः ।
सिकता सशर्करोथ क्रमेण परतो भवत्यम्भः ॥१५
पूर्वेण यदि बदर्या वल्मीको दृश्यते जलं पश्चात् ।
पुरुषैस्त्रिभिरादेश्यं श्वेता गृहगोधिकाऽर्द्धनरे ॥१६¹
सपलाशा बदरी चेद् दिश्यपरस्यां ततो जलं भवति ।
पुरुषत्रये सपादे पुरुषेऽत च दुण्डुभिश्चिह्नम् ॥१७²
विल्वोदुम्बरयोगे विहाय हस्तत्रयं तु याम्येन ।
पुरुषैस्त्रिभिरम्बु भवेत् कृष्णोऽर्द्धनरे च मण्डूकः ॥१८
काकोदुम्बरिकायां वल्मीको दृश्यते शिरा तस्मिन् ।
पुरुषत्रये सपादे पश्चिमदिक्स्था वहति सा च ॥१९
अपाण्डुपीतिका मृद् गोरसवर्णाश्च भवति पाषाणः ।
पुरुषार्द्धे कुमुदनिभो दृष्टिपथं मूषको याति ॥२०
जलपरिहीने देशे वृत्तः कम्पिल्लुको यदा दृश्यः ।
प्राच्यां हस्तत्रितये वहति शिरा दक्षिणा प्रथमम् ॥२१
1 तथा च सारस्वतः—पूर्वभागं वदर्याश्च वल्मीको दृश्यते जलम् ।
पश्चाद्धस्तत्रये वाच्यं खाते तु पुरुषत्रये ॥
अधःखातेऽर्धपुरुषे दृश्यते गृहगोधिका ।
श्वेतवर्णा ततोऽधःस्थं जलं भवति निर्मलम् ॥
2 ,, ,, ,, पलाशयुक्ता बदरी यत्र दृश्या ततोऽपरि ।
हस्तत्रयादधस्तीयं सपादे पुरुषत्रये ॥
नरे तु दुण्डुभः सर्पो निर्विषश्चिह्नमेव च ।
अधस्तीये च सुस्वादु दीर्घकालं प्रवाहितम् ॥
13

98 UPAVANA VINODA
मृन्नीलोत्पलवर्णा कपोता चैव दृश्यते तस्मिन् ।
हस्तेऽजगन्धिमत्स्यो भवति पयोऽल्पञ्च सक्षारम् ॥ २२¹
शोणाकतरोरपरोत्तरे शिरा द्वौ करावतिक्रम्य ।
कुमुदा नाम शिरा सा पुरुषत्रयवाहिनी भवति ॥ २३
आसन्नो वल्मीको दक्षिणपार्श्वे विभीतकस्य यदि ।
साध्यर्द्धं तस्य शिरा पुरुषे ज्ञेया दिशि प्राच्याम् ॥ २४
तस्यैव पश्चिमाया दिशि वल्मीको यदा भवेद्धस्ते ।
तत्रोद्ग् भवति शिरा चतुर्भिरर्द्धाधिकैः पुरुषैः ॥ २५
श्वेतो बिम्बम्बरकः प्रथमे पुरुषे तु कुङ्कुमाभोऽश्मा ।
अपरस्यां दिशि च शिरा नश्यति वर्षत्रयेऽतीते ॥ २६
सकुशासित पेशान्यां वल्मीको यत्र कोविदारस्य ।
मध्ये तयोर्नरैरर्द्धपञ्चमैस्तोयमत्तोभ्यम् ॥ २७
प्रथमे पुरुषे भुजगः कमलोदरसन्निभो मही रक्ता ।
कुरुविन्दुः पाषाणश्चिह्नान्येतानि वाच्यानि ॥ २८
यदि भवति सप्तपर्णो वल्मीकवृतस्तदुत्तरे तोयम् ।
वाच्यं पुरुषैः पञ्चभिरत्रापि भवन्ति चिह्नानि ॥ २९
पुरुषार्द्धे मण्डूको हरितो हरितालसन्निभा भूश्च ।
पाषाणोऽभ्रनिकाशः सौम्या च शिरा शुभाम्बुवहा ॥ ३०³
1 तथा च सारस्वतः—निर्जले यत्र कम्पिल्लो दृष्टस्तस्मात् करत्रये ।
प्राच्यां विभिन्नरैर्वारि सा भवेद्दक्षिणा शिरा ॥
अधौ नीलोत्पलाभासा मृत् कापोतप्रभा क्रमात् ।
हस्तेऽजगन्धको मत्स्यो जलमल्पमशोभनम् ॥
2 ” ” ” विभीतकस्य याम्यायां वल्मीको यदि दृश्यते ।
करद्वयान्तरे पूर्व्वे सार्द्धे च पुरुषे जलम् ॥
3 तथा च सारस्वतः—भुजङ्गगेहसंयुक्तो यत्र स्यात् सप्तपर्णकः ।
ततः सौम्ये हस्तमात्रात् पञ्चभिः पुरुषैरधः ॥
वाच्यं जलं नरार्द्धे तु मण्डूकी हरितो भवेत् ।
हरितालनिभा भूश्च मेघाभोऽश्मा ततः शिरा ।
उत्तरा सुजला ज्ञेया दीर्घा मृष्टाम्ब वाहिनी ॥

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 99
सर्व्वेषां वृक्षाणामधःस्थितो दर्द्दु रो यदा दृश्यः ।
तस्माद्धस्ते तोयं चतुर्भिरर्द्धाधिकैः पुरुषैः ॥ ३१
पुरुषे तु भवति नकुलो नीला मृत् पीतिका ततः श्वेता ।
दर्द्दूरसमानरूपः पाषाणो दृश्यते चात्र ॥ ३२¹
यद्यहिनिलयो दृश्यो दक्षिणतः संस्थितः करञ्जस्य ।
हस्तद्वये तु याम्ये पुरुषत्रितये शिरा सार्द्धे ॥ ३३
कच्छपकः पुरुषार्द्धे प्रथमं चोद्भिद्यते शिरा पूर्व्वा ।
उद्गन्धा स्वादुजला हरितोऽश्माधस्ततस्तोयम् ॥ ३४
उत्तरतश्च मधूकादहिनिलयः पश्चिमे तरोस्तोयम् ।
परिहृत्य पञ्चहस्तान् अर्द्धाष्टमपौरुषे प्रथमम् ॥ ३५
अहिराजः पुरुषेऽस्मिन् धूम्ना धात्री कुलत्थवर्णोऽश्मा ।
माहेन्द्री भवति शिरा वहति सफनं सदा तोयम् ॥ ३६
वल्मीकः स्निग्धो दक्षिणेण तिलकस्य सकुशदूर्व्वश्चेत् ।
पुरुषै पञ्चभिरम्भो दिशि वारुण्यां शिरा पूर्व्वा ॥ ३७²
सर्पावासः पश्चाद् यदा कदम्बस्य दक्षिणेन जलम् ।
परतो हस्तत्रितयात् षड्भिः पुरुषैस्तुरीयोन्नैः ॥ ३८
कौवेरी चात्र शिरा वहति जलं लोहगन्धिः चाक्षोभ्यम् ।
कनकनिभो मण्डूको नरमात्रे मृत्तिका पीता ॥ ३९
वल्मीकसंम्वृतो यदि तालो वा भवति नालिकेरः ।
पश्चात् षड्भिर्हस्तैर्नरैश्चतुर्भिः शिरा याम्या ॥ ४०
याम्येन कपित्थस्याहिसंश्रयश्चेदुदग्जलं वाच्यम् ।
सप्त परित्यज्य करान् खात्वा पुरुषान् जलं पञ्च ॥ ४१
1 तथा च सारस्वतः—तरूणां यत्र सर्वेषामधःस्थो दर्द्दु रो भवेत् ।
हस्तादुदग्दिशि जलं हस्तात् सार्द्धेनरैरधः ॥
चतुर्भिः पुरुषे खाते नकुलो नीलसृत्तिका ।
पीतश्च ता ततो भिकसदृशोऽश्मा प्रदश्यते ॥
2 ,, ,, ,, —तिलकाद्दक्षिणे स्निग्धेः कुशदूर्व्वासमायुतः ।
वल्मीकाच्चोत्तरे पञ्च हस्तान् सन्त्यज्य पश्चिमे।
नरैः पञ्चभिरम्भोऽधः शिरा पूर्वात्र विद्यते ॥

100 UPAVANA VINODA
कर्बूरकोऽहिः पुरुषे कृष्णा मृत्पुटभिदपि च पाषाणः ।
श्वेता मृत् पश्चिमतः शिरा ततश्चोत्तरा भवति ॥ ४२
अश्मन्तकस्य वामे बदरी वा दृश्यतेऽहिनिलयो वा ।
षड्भिरुदक् तस्य करैः सार्द्धे पुरुषत्रये तोयम् ॥ ४३
कूर्मः प्रथमे पुरुषे पाषाणो धूसरः ससिकता मृत् ।
आदौ शिरा च याम्या पूर्व्वोत्तरतो द्वितीया च ॥ ४४
वामेन हरिद्रुतरोर्व्वल्मीकश्चेत्ततो जलं पूर्व्वे ।
हस्तत्रितये पुरुषैः सत्र्यंशै पश्चिभिर्भवति ॥ ४५
नीलो भुजगः पुरुषे मृत् पीता मरकतोपमश्चाश्मा ।
कृष्णा भूः प्रथमं वारुणी शिरा दक्षिणेनान्या ॥ ४६
जलपरिहीने देशे दृश्यन्तेऽनूपजानि चिह्नानि ।
वीरनदूर्व्वा मृद्वक्षा यत्र तस्मिन् जलं पुरुषे ॥ ४७
भार्गी त्रिवृता दन्ती शुकरपदी च लक्ष्मणा चैव ।
नबमालिका च हस्तद्वयेऽम्बु याम्ये त्रिभिः पुरुषैः ॥ ४८
स्निग्धाः प्रलम्बशाखा वामनविटपद्रुमाः समीपजलाः ।
सुषिरा जर्जरपत्रा रुक्षाश्च जलेन सन्त्यक्ताः ॥ ४६
तिलकाम्रातकवरुणकभल्लातकविल्वतिन्दुकाइङ्गोलाः ।
पिण्डारशिरीषाञ्जनपरूषका बन्धुलोऽतिबला ॥ ५०
एते यदि सुस्निग्धा वल्मीकैः परिवृतास्ततस्तोयम् ।
हस्तैस्त्रिभिरुत्तरतश्चतुर्भिर्दर्धेण च नरस्य ॥ ५१
अतृणे सतृणा यस्मिन् सतृणे तृणवर्जिता मही यत्र ।
तस्मिन् शिरा प्रदिष्टा वक्तव्यं वा धनं तस्मिन् ॥ ५२
कण्टककण्टकानां व्यत्यासेऽसेऽम्भत्रिभिः करैः पश्चात् ।
खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥ ५३
नदति मही गम्भीरं यस्मिंश्ररगाहता जलं तस्मिन ।
सार्द्धैस्त्रिभिर्मनुष्यैः कौवेरी तत्र च शिरा स्यात् ॥ ५४
वृत्तस्यैका शाखा यदि विनता भवति पाण्डुरां वा स्यात् ।'
विज्ञातव्यं शाखातले जलं त्रिपुरुषं खात्वा ॥ ५५
फलकुसुमविकारो यस्य तस्य पूर्व्वे शिरा त्रिभिर्हस्तैः ।
भवति पुरुषैश्चतुर्भिः पाषाणोऽधःक्षितिः पीता ॥ ५६

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 101
यदि कष्टकारिका कण्टकैर्विना दृश्यते सितैः कुसुमैः ।
तस्यास्तलेऽम्बु वाच्यं त्रिभिनरैरर्द्ध पुरुषे च ॥ ५७
खज्जूर्री द्विशिरस्का यत्र भवेज्ज्वलविवर्ज्जिते देशे ।
तस्याः पश्चिमभागे निर्द्देश्यं त्रिपुरुषे वारि ॥ ५८¹
यदि भवति कर्णिकारः सितकुसुमः स्यात् पलाशवृक्षो वा ।
सव्येन तत्र हस्तद्वयेऽम्बु पुरुषत्रये भवति ॥ ५६
उष्मा यस्यां धात्र्यां धूमो वा तत्र वारि नरयुग्मे ।
निर्द्दष्टव्या च शिरा महता तोयप्रवाहेण ॥ ६०
यस्मिन् क्षेत्रोद्देशे जातं शस्यं विनाशमुपयाति ।
स्निग्धमतिपाण्डुरं वा महाशिरा नरयुग्मे तत्र ॥६१
मरुदेशे भवति शिरा यथा तथातःपरं प्रवक्ष्यामि ।
ग्रीवा करभाणामिव भूतलसंस्थाः शिरा यान्ति ॥ ६२
पूर्व्वोत्तरेण पीलोर्यदि वल्मीको जलं भवति पश्चात् ।
उत्तरगमना च शिरा विज्ञेया पञ्चभिः पुरुषैः ॥ ६३
चिह्नं दर्दुर आदौ मृतकपिलातःपरं भवेद्धरिता ।
भवति च पुरुषेऽधोऽश्मा तस्य तले बारि निर्द्देश्यम् ॥ ६४²
पीलोरेव प्राच्यां वल्मीकोऽतोऽर्धपञ्चमैर्हस्तैः ।
दिशि याम्यायां तोयं वक्तव्यं सप्तभिः पुरुषैः ॥ ६५
प्रथमे पुरुषे भुजगः सितासितो हस्तमात्रमूर्त्तिश्च ।
दक्षिणतो बहति शिरा सक्षारं भूरिपानीयम् ॥ ६६
उत्तरतश्च करीराद्दहिनिलये दक्षिणे जलं स्वादु ।
दशभिः पुरुषैर्ज्ञेयं पुरुषे पीतोऽत्र मण्डूकः ॥ ६७³
1 तथा च सारस्वतः—खर्जूरी द्विशिरस्का स्यान्निर्जले चेत् करङ्कये ।
निर्द्देश्यं पश्चिमे वारि खात्वाऽधः पुरुषत्रयम् ॥
2 तथा च सारस्वतः—ऐशान्यां पीलुवृक्षस्य वल्मीकश्चे जलं वदेत् ।
चतुर्भिः सरलैर्हस्तैः पश्चिमे नर पञ्चमे ॥
प्रथमे पुरुषे भेकः कपिला हरिता च मृत् ।
पाषाणस्य तले सौम्यां शिरां बहुजलां वदेत् ॥
3 " " " उदक्करीराद्वल्मीको दृश्यते चेज्जल' वदेत् ।

102 UPAVANA VINODA
रोहीतकस्य पश्चादहिवासश्चेत्रिभिः करैर्यम्ये ।
द्वादशपुरुषान् खात्वा सक्षारा पश्चिमेन शिरा ॥ ६८
इन्द्रतरोर्वल्मीकः प्राग्दृष्यः पश्चिमे शिरा हस्ते ।
खात्वा चतुर्द्दशनरान कपिला गोधा नरे प्रथमे ॥ ६६
यदि वा सुवर्णानाम्नस्तरोर्भवेद्वामतो भुजङ्गगृहम् ।
हस्तद्वये तु याम्ये पञ्चदशनरावसानेऽम्बु ॥ ७०
क्षारं पयोऽत्र नकुलोऽर्द्धमानवे ताम्रसन्निभश्चाश्मा ।
रक्ता च भवति वसुधा वहति शिरा दक्षिणा तत्र ॥ ७१
बदरीरोहितवृक्षौ संसृक्तौ चेद्विनापि वल्मीकम् ।
हस्तत्रयेऽम्बु पश्चात् षोडशभिर्मानवैर्भवति ॥ ७२
सुरसं जलमादौ दक्षिणा शिरा वहति चोत्तरेणान्या ।
पिष्टनिभः पाषाणो मृच्छ्वेता वृश्चिकोऽर्द्धनरे ॥ ७३
सकरीरा चेद्बदरी त्रिभिः करैः पश्चिमेन तत्राम्भः ।
अष्टादशभिः पुरुषैरीशानो बहुजला च शिरा ॥ ७४]
पीलुसमेता बदरी हस्तत्रयसम्मिते दिशि प्राच्याम् ।
विंशत्या पुरुषाणामशोष्यमम्भोऽत्र सक्षारम् ॥ ७५
ककुभकरीरावेकत्र संयुतौ यत्र ककुभबिल्वौ वा ।
हस्तद्वयेऽम्बु पश्चान्न्ररैर्भवेत् पञ्चविंशत्या ॥ ७६
वल्मीकमूर्द्धनि यदा दूर्व्वा च कुशाश्च पाण्डुराः सन्ति ।
कूपो मध्ये देयो जलमत्र नरैरेकविंशत्या ॥ ७७
भूमीः कदम्बकयुता वल्मीके यत्र दृश्यते दूर्व्वा ।
हस्तत्रयेण याम्ये नरैर्जलं पञ्चविंशत्या ॥ ७८
वल्मीकत्रयमध्ये रोहितकपादपो यदा भवति ।
नानावृद्धैः सहितस्त्रिभिर्ज्जलं तत्र वक्तव्यम् ॥ ७६
हस्तचतुष्के मध्यात् षोडशभिश्चाङ्गुलैरुदग्द्वारि ।
चत्वारिंशत् पुरुषान् खात्वाम्भातः शिरा भवति ॥ ८०
चतुर्भिर्दक्षिणैर्हस्तैः सार्धैर्दशनरादतः ।
नरे भेकः पीतवर्णों दृश्यते चिह्नमेव हि ॥

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 103
ग्रन्थिप्रचुरा यस्मिंश्छमी भवेदुत्तरेण वल्मीकः ।
पश्चात् पञ्चकरान्ते शतार्द्धसं ज्ञैद्यैः सलिलम् ॥ ८१
एकस्थाः पञ्च यदा वल्मीका मध्यमो भवेच्छ्वेतः ।
तस्मिन् शिरा प्रदिष्टा नरषष्ट्या पञ्चवर्ज्जितया ॥ ८२
सपलाशा यत्र शमी पश्चिमभागेऽम्बु मानवैः षष्ठ्या ।
अर्द्धनरेऽहिः प्रथमं सवालुका पीतमृत् परतः ॥ ८३¹
वल्मीकेन परिवृतः श्वेतो रोहीतकौ भवेद् यस्मिन् ।
पूर्वेन हस्तमात्रे सप्तत्या मानवैरम्बु ॥ ८४
श्वेता कण्टकबहुला यत्र शमी दक्षिणेन तत्र पयः ।
नरपञ्चकसंयुतया सप्तत्याहिर्नराद्धे च ॥ ८५²
मरुदेशे यच्चिह्नं न जाङ्गले तैर्जलं विनिद्दिश्यम् ।
जम्बूवेतस पूर्वे ये पुरुषास्ते मरौ द्विगुणाः ॥ ८६
जम्बूस्त्रिवृता मूर्खा शिशुमारौ सारिवा शिवा श्यामा ।
वीरुधयो वाराही ज्योतिष्मती च गरुड़वेगा ॥ ८७
शूकरिकामार्षपर्णी व्याघ्रपदाश्चेति यद्यहेर्निलये ।
वल्मीकादुत्तरतस्त्रिभिः करैस्त्रिपुरुषे तोयम् ॥ ८८
एतदानूपे वाच्यं जाङ्गलभूमौ तु पञ्चभि पुरुषैः ।
एतैरैव निमित्तैर्मरुदेशे सप्तभिः कथयेत् ॥ ८६
एकनिभा यत्र मही तृणतरुवल्मीकगुल्मपरिहीना ।
तस्यां यत्र विकारो मवति धरित्र्यां जलं तत्र ॥ ६०
यत्र स्निग्धा निम्ना सवालुका सानुनादिनी वा स्यात् ।
तत्रार्द्धपञ्चमैर्वारि मानवैः पञ्चभिर्यदि वा ॥ ६१
1 तथा च सारस्वतः—शमी पलाशसंयुक्ता यत्र स्यात् तत्र पश्चिमे ।
पञ्चहस्ताज्जलं वाच्यं षष्ट्याच पुरुषैरधः ॥
अधार्धपुरुषे सर्पः पीता मृत् स्यात् सवालुका ।
तदधोऽम्भो विनिर्देश्यं दीर्घकालं प्रवाहितम् ॥
2 ,, ,, ,, —श्वे तातिकण्टका यत्र शमी स्यात् तत्र दक्षिणे ।
हस्तेन पञ्चसप्तत्या नराणां निर्दिशेज्जलम् ॥
खातेऽर्धपुरुषे सर्पो दृश्यतेऽञ्जनसप्रभः ।
सुरसं च जलं ज्ञेयं चिरकालप्रवाहितम् ॥

104 UPAVANA VINODA
स्निग्धतरूणां याम्ये नरैश्चतुर्भिर्जलं प्रभूतञ्च ।
तरुगहनेऽपि हि विकृतो यस्तस्मात्तद्वदेव वदेत् ॥ ९२
नमते यत्र धरित्री सार्द्धे पुरुषेऽम्बु जाङ्गलानूपे ।
कीटा वा यत्र विनालयेन बहवोऽम्बु तत्रापि ॥ ९३
उष्णा शीता च मही शीतोष्णाम्भस्त्रिभिर्नरैः सार्द्धैः ।
इन्द्रधनुर्मत्स्यो वा वल्मीको वा चतुर्हस्तात् ॥ ९४
वल्मीकानां पङ्क्त्यां यद्येकोऽभ्युच्छ्रितः शिरा तदधः ।
शुष्यति न रोहते वा शस्यं यस्याञ्च तन्नाम्भः ॥ ९५¹
न्यग्रोधपलाशोदुम्बरैः समेतैस्त्रिभिर्जलं तदधः ।
वटपिप्पलसमवाये तद्वद्वाच्यं शिरा चोदक् ॥ ९६²
आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः ।
नित्यं स करोति भयं दाहञ्च समानुषं प्रायः ॥ ९७
नैर्ऋतकोणे बालक्षयं वनिताभयञ्च वायव्ये ।
दिक्त्रयमेतत्त्यक्त्वा शेषासु शुभावहाः कूपाः ॥ ९८
सारस्वतेन मुनिना दकार्गलं यत्कृतं तदवलोक्य ।
आर्याभिः कृतमेतद्वृत्तैरपि मानवं वक्ष्ये ॥ ९९
· स्निग्धाः यतः पादपगुल्मवल्ल्यो
निश्छिद्रपत्राश्च ततः शिरास्ति ।
पद्मत्तु रोशीरकुलाः सगुण्ड्राः
काशाः कुशा वा नलिकानलो वा ॥ १००

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 105
विभीतको वा मदयन्तिका वा
यत्रास्ति तस्मिन् पुरुषत्रयेऽम्भः ।
स्यात् पर्व्वतस्योपरि पर्व्वतोऽन्य-
स्तत्रापि मूले पुरुषत्रयेऽम्भः ॥ १०२¹
या मौञ्जकैः काशकुशैश्च युक्ता
नीला च मृद् यत्र सशर्करा च ।
तस्यां प्रभूतं सुरसञ्च तोयं
कृष्णाथवा यत्र च रक्तमृद्वा ॥ १०३
सशर्करा ताम्रमही कषायं
क्षारं धरित्री कपिला करोति ।
अपाण्डुरायां लवणं प्रदिष्टं
मिष्टं पयो नीलवसुन्धरायाम् ॥ १०४
शाकाश्वकर्णार्जुनबिल्वसर्जाः
श्रीपर्ण्यरिष्टाधवशिंशपाश्च ।
छिद्रैश्च पर्णैर्द्रुमगुल्मवल्ल्यो
रूक्षाश्च दूरेऽम्बु निवेदयन्ति ॥ १०५
सूर्याग्निभस्मोष्ट्रखरानुवर्णा
या निर्ज्जला सा वसुधा प्रदिष्टा ।
रक्ताङ्कुराः क्षीरयुता करीरा
रक्ता धरा चेज्जलमश्मनोऽधः ॥ १०६
1 तथा च मनुः—गुञ्जापादपवल्ल्यः स्युः पर्व्वताखण्डितैर्युताः ।
तदधो विद्यते वारि खाते तु पुरुषत्रये ॥
पद्माक्षोशीरकुला गुण्ड्रा काशः कूशोऽथवा ।
नलिकानलखर्जूरजम्बूवेतसकार्जुनाः ॥
यव सार्द्रं मवङ्गाश्च क्षीरयुक्ताः फलान्विताः ।
कूब्जकनागनीपाश्च शतपत्रविभीतकाः ॥
सिन्धु वारा नक्तमालाः सुगन्धा मदयन्तिकाः ।
यत्रैते सुस्रुतं जलं खातेऽम्भः पुरुषत्रये ॥
14

106 UPAVANA VINODA
वैदूर्य्यमुद्गाम्बुदमेचकाभा
पाकोन्मुखोदुम्बरसन्निभा वा ।
भृङ्गाञ्जनाभा कपिलाथवा या
ज्ञेया शिला भूरिसमीपतोया ॥ १०७
पारावतक्षौद्रघृतोपमा या
क्षौमस्य वस्त्रस्य च तुल्यवर्णा ।
या सोमवल्लयाश्च समानरूपा
साप्यशु तोयं कुरुतेऽक्षयञ्च ॥ १०८
ताम्रैः समेता पृषतैर्विचित्रै-
रापाण्डुभस्मोष्ट्रखरानुरूपा ।
भृङ्गोपमाङ्गुष्ठिकपुष्पिका वा
सूर्याग्निवर्णा च शिला वितोया ॥ १०६
चन्द्रातपस्फटिकमौक्तिकहेमरूपा
याश्चेन्द्रनीलमणिहिङ्गुलुकाञ्जनाभाः ।
सूर्य्योदयांशुहरितालनिभाश्च याः स्यु-
स्ताः शोभना मुनिवचोऽत्र च वृत्तमेतत् ॥ ११०
एता ह्यभेद्याश्च शिला शिवाश्च
यक्षैश्च नागैश्च सदाभिजुष्टाः ।
येषाञ्च राष्ट्रेषु भवन्ति राज्ञां
तेषामवृष्टिर्न भवेत् कदाचित् ॥१११
भेदं यदा नैति शिला तदानीं
पलाशकाष्ठैः सह तिन्दुकानाम् ।
प्रज्वालयित्वानलमग्निवर्णा
सुधाम्बुसिक्ता प्रविदारमेति ॥११२
तोयं शृतं मोक्षकभस्मना वा
यत् सप्तकृत्वः परिषेचनं तत् ।
कार्य्यं शरक्षारयुतं शिलायाः
प्रस्फोटनं वह्निवितापितायाः ॥११३
गिरेरुपरि यवाख्यः पर्वतः स्यात् ततो जलम् ।
तस्यैव मूले पुरुषैस्त्रिभिरम्भो विनिर्दिशेत् ॥

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 107
तक्रकाञ्जिकसुराः सकुलत्था
योजितानि बदराणि च तस्मिन् ।
सप्तरात्रमुषितान्यभितप्तां
दारयन्ति हि शिलां परिषेकैः ॥११४
नैम्बं पत्रं त्वक् च नालं तिलानां
सापामागं तिन्दुकं स्याद् गुडूची ।
गोमूत्रेण स्रावितः क्षार एषां
षट्कृत्वोऽतस्तापितो भिद्यतेऽश्मा ॥११५
आर्क पयो हुडुविषाणमषीसमेतं
पारावताङ्गुशकृता च युतं प्रलेपः ।
टङ्कस्य तैलमथितस्य ततोऽस्य पानं
पश्चाच्छितस्य शिलासु भवेद्विघातः ॥११६
क्षारे कदल्या मथितेन युक्ते
दिनोषिते पायितमायसं यत् ।
सम्यक् शितं चाश्मनि च एति भङ्गं
न चान्यलोहेष्वपि तस्य कौण्ठ्यम् ॥११७
पाली प्रागपरायताम्बु सुचिरं धत्ते न याम्योत्तरा
कल्लोलैरवदारमेति मरुता सा प्रायशः प्रेरितैः ।
तां चेदिच्छति सारदार्घभिरपां सम्पातमावारयेत्-
पाषाणादिभिरेव वा प्रतिचयं क्षुण्णां द्विपाश्वादिभिः ॥११८
ककुभवटाम्रप्लक्षकदम्बैः
सनिचुलजम्बूवेतसनीपैः ।
कुरुबकतालाशोकमधुकैर्व्व-
कुलविमिश्रैश्चावृततीराम् ॥११९
द्वारञ्च नैर्वाहिकमेकदेशे
कार्य्यं शिलासञ्चितवारिमार्गम् ।
कोशस्थितं निर्व्विवरं कपाटं
कृत्वा ततः पांशुभिरावपेत्तम् ॥१२०
अञ्जनमुस्तोशीरैः सराजकोशकामलकचूर्णैः ।
कतकफलसमायुक्तैर्योगः कूपे प्रदातव्यम् ॥१२१