सामग्री पर जाएँ
सर्वकोश
उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

Upavanavinoda of Sharngadhara with Commentary

आचार्य शार्ङ्गधर (सम्पादक: पं. गिरिजाप्रसाद) द्वारा

DevanagariHindipublished134 पृष्ठ

पृष्ठ 100, कुल 134 में से

संदर्भ में पढ़ें
पृष्ठ 100

92 UPAVANA VINODA
शिविरेऽतिनिषिद्धश्च प्राज्ञस्तं परिवर्जयेत् ।
खर्जूरश्च डहुश्चैव निषिद्ध शिबिरे तथा ॥
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ।
वृक्षाश्च चम्पकादीनां धान्यञ्च मङ्गलप्रदम् ॥
ग्रामेषु नगरे चापि शिबिरे च तथैव च ।
इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा ॥
अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ।
कच्ची हरिद्रा शुभदा शुभदश्चाद्रकस्तथा ॥
हरितकी च शुभदा ग्रामेषु नगरेषु च ।
न वात्यां भद्रता नित्यं तथा चामलकी ध्रुवम् ॥¹
अपुत्रस्य च पुत्रत्वं पादपा इह कुर्वते ।
यत्नेनापि च राजेन्द्र ! अश्वत्थारोपणम् कुरु ॥
स ते पुत्रसहस्राणां कार्यमेकः करिष्यति ।
धनी चाश्वत्थवृक्षेण अशोकः शोकनाशनः ॥
प्लक्षो यज्ञप्रदः प्रोक्तो निम्बश्चायुप्रदः स्मृतः ।
जम्बुकी नाकदा प्रोक्ता भार्यादा दाड़िमी तथा ॥
डुम्बरो रोगनाशाय पलाशो ब्रह्मदस्तथा ।
अर्कपुष्पारोपणान् नित्यं तुष्येद्दिवाकरः ॥
श्रीवृक्षः शङ्करो देवः पाटलायान्तु पार्वती ।
शिंशपायामप्सरसः कुन्दे गन्धर्वसत्तमाः ॥
विभीतके दासवृद्धिर्वकुलो दास्यदस्तथा ।
अपत्यनाशकस्तालो वकुलः कुलवर्द्धनः ॥
बहुभार्या नारिकेली द्राक्षः सर्वाङ्गसुन्दरः ।
रतिप्रदा तथा केली केतकी सर्वनाशिनी ।
प्रतिष्ठां ते गमिष्यन्ति ये नराः प्लक्षरोपकाः ॥²
¹ ब्रह्मवैवर्त्ते श्रीकृष्ण जन्मखण्डे १०२ अध्यायः।
Śabdakalpadruma, vol. 4, pp. 475-476, Radhakanta Deb edition, Calcutta, Śakābda 1814.
² पद्मपुराणे सृष्टिखण्डे वृक्षारोपणम् नाम २६ अध्यायः।