तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
१३४ श्रीतन्त्रालोकः ।
परं शिवं तु व्रजति
भैरवाख्यं जपादपि ।
येन क्षीणं कल्मषं तत्तद्भेदावभासकालुष्यं यस्य
तादृशं मनो, मनुते इति मनो विमर्शात्मावबोधो
यस्य तेन
'सर्वो विकल्पः स्मृतिः.......................।'
इति नीत्या स्मृतिरेव केवला स्मृतिमात्रं शरीर-
मुखहस्ताद्यात्मकं विकल्पनं, तस्य निरोधनम्—आका-
राद्युल्लेखशून्यत्वेन प्रतिहननं, तदवलम्ब्य, तत्तन्नि-
यताकारसंकोचाभावात् परमं ध्येयं शिवलक्षणं परम-
कारणं ध्यायते स्वात्माभेदेन परामृश्यते । यदुक्तं
'ध्यानं या निश्चला बुद्धिर्निराकारा निराश्रया ।
न तु ध्यानं शरीरस्य मुखहस्तादिकल्पना ॥'
इति । एवंविधो ध्याता, गमो गमनं गतिः, अगमश्च
अगतिः स्थानं, ताभ्यामुपलक्षिते पदे समनन्त-
पं० ५ क० पु० मनो मतिरिति विमर्शात्मेति पाठः ।
पं० १२ ख० ग० पु० निश्चला चिन्ता इति पाठः ।
पं० १३ क० पु० मुखचिन्तादिकल्पना इति पाठः ।
श्लोकः ९० ] प्रथमाह्निकम् । १३५
रोक्ते चतुर्दशविधे आश्रये स्थितम्, अत एव परं
पूर्णम्, अत एव च भैरवाख्यं शिवं व्रजति - तत्समावे-
शमाप्नोति इत्यर्थः । न केवलमयं ध्यानादेव शिवं
व्रजति यावज्जपादपि इत्युक्तं-जपादपि इति ॥८६॥
कोऽसौ जपो नाम इत्याशङ्क्याह
तत्स्वरूपं जपः प्रोक्तो
भावाभावपदच्युतः ॥६०॥
तस्य शिवस्य, स्वरूपं परावाक्स्वभावम् आत्मरूपम्
अर्थात् भूयो भूयः परामृश्यमानं जपः, अत एव
भावाभावपदच्युतः-पूर्वोक्तनीत्या तन्मध्यस्फुरत्संवि-
त्परामर्शमात्रसारः इत्यर्थः । तदुक्तं
'भूयो भूयः परे भावे भावना भाव्यते हि या ।
जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः ॥'
पं० १ ग० परिपूर्णमिति पाठः
पं० ६ ख० पु० तत्स्वरूपो जपः प्रोक्त इति पाठः,
पं० ७ ख० पु० पदाच्युत इति, पदाक्युत
इति पाठान्तरं चास्ति ।
पं० ११ क० पु० परामर्शसार इति पाठः ।
पं० १२ ग० पु० परे तत्त्वे इति पाठः । क० पु० साध्यते हि या इति पाठः ।
पं० १४ क० पु० जप ईदृश इति पाठः ।
१३६ श्रीतन्त्रालोकः ।
इति। एवं ग्रामधर्मवृत्तिरेव रामस्थः इत्युक्तं स्यात्।
तदुक्तं श्रीत्रिशिरोभैरवे
‘गच्छंस्तिष्ठन्स्वपञ्जाग्रदुन्मिषन्निमिषंस्तथा ।
धावनं प्लवनं चैव आयासः शक्तिवेदनम् ॥
बुद्धिभेदास्तथा भावाः संज्ञाः कर्माण्यनेकंशः ।
एतच्चतुर्दशविधं रामं तु परिकीर्तितम् ॥
व्यापितं देवदेवेन शिवेन परमात्मना ।
सर्वभावान्तरस्थेन अनेकाकारलक्ष्मणा ॥
कल्मषक्षीणमनसा स्मृतिमात्रनिरोधनात् ।
ध्यायते परमं ध्येयं गमागमपदे स्थितम् ॥
परं शिवं तु व्रजति भैरवाख्यं जपादपि ।
तत्स्वरूपं जपः प्रोक्तो भावाभावपदच्युतः ॥’
इति ॥६०॥
ननु प्रायः सर्वत्रैव ध्यानस्य व्यतिरिक्तसाकार-
ध्येयविषयत्वं, जपस्य विकल्पात्मकवाचकवाच्यज-
प्यनिष्ठत्वं चोक्तम्, इह पुनः स्वात्माभेदेन परामर्श-
मात्रमेवोभयो रूपम् इति किमेतद् इत्याशंक्याह
पं० १ क० पु० रामस्येति इति पाठः ।
पं० १२ क० पु० तत्स्वरूपो जप इति पाठः ।
पं० १४ क० पु० व्यतिरिक्ताकारध्येयेति पाठः ।
श्लोकः ९२ ] प्रथमाह्निकम् । १३७
तदत्रापि तदीयेन
स्वातन्त्र्येणोपकल्पितः ।
दूरासन्नादिको भेद-
श्चित्स्वातन्त्र्यव्यपेक्षया ॥६१॥
इह पराहंपरामर्शमात्रसारत्वात् स्वतन्त्रप्रका-
शात्मा परमेश्वर एव परमार्थः इति तत्प्राप्तौ उप-
देश्यभेदेन तदुपकल्पितमेव उपायानां नानात्वं, तेन
चित्स्वातन्त्र्यप्रधानतया उल्लसित उपाय आसन्नः
इत्युच्यते, अन्यथा तु इतरः इत्याह दूर इति । एव-
मपि उपेयासन्नतया कस्यचिदेव उपायत्वम् इति
नाशङ्क्यम् – उपायोपेयभावस्य द्वारद्वारिभावेन
वक्ष्यमाणत्वात् ॥६१॥
एतदेवोपसंहरति
एवं स्वातन्त्र्यपूर्णात्वा-
दतिदुर्घटकार्ययम् ।
केन नाम न रूपेण
भासते परमेश्वरः ॥६२॥
पं० ५ क० पु० इह अहंपरामर्शमात्रसारत्वादिति पाठः ।
१८
१३८ श्रीतन्त्रालोकः ।
रूपेण इति तत्तत्स्वशक्त्यात्मना इत्यर्थः ॥६२॥
अत एवाह
निरावरणमाभाति
भात्यावृतनिजात्मकः ।
आवृतानावृत्तो भाति
बहुधा भेदसंगमात् ॥६३॥
इति शक्तित्रयं नाथे
स्वातन्त्र्यापरनामकम् ।
इच्छादिभिरभिख्याभि-
र्गुरुभिः प्रकटीकृतम् ॥६४॥
निरावरणम् इति शुद्धप्रकाशमयत्वात् , आवृत
इति भेदकालुष्योदयात् , आवृतानावृत्तः इति शुद्ध-
ज्ञानमयत्वेऽपि भेदकालुष्यासूत्रणात् , अत एव
परापरपरापरत्वं , बहुधा इति एषणीयादिनानात्वात्
अनेकप्रकारम् इत्यर्थः । निरावरणत्वेऽपि हि
निषेध्यमानत्वाद् भेदस्य वासनामात्रेणावस्थानम् ।
पं० ६ क० ख० पु० भेदसंगम इति पाठः ।
पं० १४ क० पु० एषणीयत्वादिनानात्वादिति पाठः ।
श्लोकः ९५ ] प्रथमाह्निकम् । १३९
इति शब्दः स्वरूपपरामर्शकः, तेन एतदेव अव-
भासमानं निरावरणत्वादि परादिरूपं शक्तित्रयं
गुरुभिः एतच्छास्त्रावतारकैः इच्छादिसंज्ञाभिः परमे-
श्वरविषयतया उन्मीलितमपि स्वातन्त्र्यशक्त्यभि-
धानमेव इति 'बहुशक्तित्वमप्यस्य तच्छक्त्यैवावि-
युक्तता' इति निर्वाहितम् ॥६३॥६४॥
बहुशक्तित्वमेव च एतदभिधायकानां प्रवृत्ति-
निमित्तम् इत्याह
देवो ह्यन्वर्थशास्त्रोक्तैः
शब्दैः समुपदिश्यते ।
महाभैरवदेवोऽयं
पतिर्यः परमः शिवः ॥६५॥
अन्वर्थैः व्युत्पन्नैः निरुक्तैः, शास्त्रोक्तैः साम-
यिकैः ॥६५॥
तदेवाह
विश्वं बिभर्ति पूरणा-
द्धारणाद्योगेन तेन च भ्रियते ।
पं० १ ख० पु० एतदेवाभासमानमिति पाठ ।
१४० श्रीतन्त्रालोकः ।
सविमर्शतया रव
रूपतश्च संसारभीरुहितकृच्च ॥६६॥
संसारभीतिजनिता-
द्वात्परामर्शतोऽपि हृदि जातः ।
प्रकटीभूतं भवभय-
विमर्शनं शक्तिपाततो येन ॥६७॥
नक्षत्रप्रेरककाल-
तत्त्वसंशोषकारिणो ये च ।
कालग्राससमाधान-
रसिकमनःसु तेषु च प्रकटः ॥६८॥
संकोचिपशुजनभिये
यासां रवणं स्वकरणदेवीनाम् ।
अन्तर्बहिश्चतुर्विध-
खेचर्यादिकगणस्यापि ॥६९॥
तस्य स्वामी संसार-
वृत्तिविघटनमहाभीमः ।
पं० १ क० पु० स्वविमर्शतयेति पाठः ।
पं० १४ ख० ग० पु० भूचर्यादिकगणस्यापीति पाठः ।
श्लोकः १०० ] प्रथमाह्निकम् । १४१
बिभर्ति-धारयति पोषयति च स्वात्मभित्तिसंलग्न-
त्वेन तदुल्लासनात् । तेन इति विश्वेन, भ्रियते इति
धार्यते पोष्यते च - तस्य विश्वमयत्वेनैव सर्वत्र स्फुर-
णात् । रवरूपतः इति शब्दनस्वाभाव्यात्, तेन
भरणाद्रवणाच्च भैरवः इत्ययं निरुक्तः । भीरू-
णाम् अयं हितकृत् इति भैरवः, भीरुत्वे च नि-
मित्तं संसारः तेन संसारिणामभयप्रदः इत्यर्थः ।
भयं भीः संसारत्रासः, तया जनितो योऽसौ रवः
भगवद्विषय आक्रन्दः परामर्शो वा ततो जातः
इति भैरवः, तेनाक्रन्दवतां परामर्शवतां च हृदि
परमार्थभूमौ स्फुरितः इति यावत् । भवाद्भयं
भीस्तस्य रवो विवेचनं विमर्शनं तस्य शक्तिपात-
मुखेन अयं कारणम् इति भैरवः, संसारवैमुख्ये-
ऽपि अयमेव निमित्तम् इति भावः । भानि नक्ष-
त्राणि ईरयति प्रेरयति इति भेरः कालः तस्य
तत्त्वं क्षणाद्यात्मकं स्वरूपं, तस्य सम्यङ् निःशेषेण
पं० २ क० ख० पु० तदुल्लासादिति पाठः ।
पं० ५ ख० पु० निरुक्तिरिति पाठः ।
१४२ श्रीतन्त्रालोकः ।
शोषम् अभिभवं कुर्वन्ति इति कालं वायन्ति
इति भैरवाः-कालग्राससमाधिरूढावधाना यो-
गिनः, तेषु अयं स्वामी तत्त्वेन प्रकटः स्फुरितः
इति भैरवः । संकोचिनो भेदप्रथामयस्य पशुज-
नस्य भिये तत्तत्सुखदुःखाद्युपजननत्रासाय रवणं
शब्दराशिसमुत्थकादिकलाविमर्शमयो रवो यासां ताः
स्वकरणदेव्य इन्द्रियशक्तयः, तथा अन्तर्बहिः प्र-
मातृप्रमेयाद्यात्मा चतुर्विधः चतुष्प्रकारः खेचर्या-
दिको गणः खेचरी-गोचरी-दिक्कचरी-भूचर्यो भीरवा-
स्तासामयं स्वामी भैरवः । महाभीम इति भी-
षणः, तेनात्र भैरवशब्दः संकेतितः इति भावः
॥६६॥६७॥६८॥६९॥
एतदेवोपसंहरति
भैरव इति गुरुभिरिमै-
रन्वर्थैः संस्तुतः शास्त्रे ॥१००॥
पं० १ क० पु० वाहयन्ति इति भैरवा इति पाठः ।
पं २ क० समधिरूढावधाना इति, ख० पु० समारूढा, इति पाठान्तरोपेतश्च
पाठः ।
पं० ३ क० पु० अयं स्वरूपीति पाठः ।
श्लोकः १०१ ] प्रथमाह्निकम् । १४३
गुरुभिः तत्तच्छास्त्रावतारकैः, इमैः एभिः सम-
नन्तरोक्तैः अन्वर्थैः अर्थानुगतैर्वाचकैः, संस्तुतः
परिचितः शास्त्रे विशेषानुपादानात् सर्वत्रैव अर्था-
दुक्तः । अथ च अन्वर्थैः सम्यक् सकलजगद्धरणादि-
सामर्थ्यप्रतिपादनद्वारेण स्तुतः इत्यर्थः, यदुक्तं
'ध्रियात्सर्वं रवयति सर्वदो व्यापकोऽखिले ।
इति भैरवशब्दस्य सततोच्चारणाच्छिवः ॥'
इति । तथा
'....................भरणाद्धरितस्थितिः ।'
इति । इमैः इति चिन्त्यम् । गुरुगदितैरिति तु
श्रेष्ठः पाठः ॥१००॥
हेयेत्यादिना देवशब्दस्य निर्वचनमाह
हेयोपादेयकथा-
विरहे स्वानन्दघनतयोच्छलनम् ।
पं० ४ क० पु० असौ चान्वर्थैः सकलजगद्धरणादिति पाठः ।
पं० ६ ख० पु० रचयतीति पाठः ।
पं० ७ क० पु० समन्ततोच्चारणाच्छिव इति पाठः ।
पं० ११ ख० पु० स्पष्टः पाठः इति ।
पं० १४ ख० पु० स्वानन्दतयोच्छलनमिति प्रथमः पाठः ।
१४४ श्रीतन्त्रालोकः ।
क्रीडा सर्वोत्कर्षेण-
वर्तनेच्छा तथा स्वतन्त्रत्वम् ॥१०१॥
व्यवहरणामभिन्नेऽपि
स्वात्मनि भेदेन संजल्पः ।
निखिलावभासनाच्च
द्योतनमस्य स्तुतिर्यतः सकलम् ॥१०२॥
तत्प्रवणामात्मलाभा-
त्प्रभृति समस्तेऽपि कर्तव्ये ।
बोधात्मकः समस्त-
क्रियामयो दृक्क्रियागुणश्च गतिः ॥१०३॥
स्वस्वातन्यमाहात्म्यात् शिवादिक्षित्यन्ताशेषवि-
श्वात्मनोल्लासनमेव अस्य क्रीडा सर्वोत्कर्षेण वर्तने-
च्छा, तथा स्वतन्त्रत्वं व्यवहरणम् इति अभिन्नेऽपि
स्वात्मनि भेदेन संजल्पः, क्रीडेति देव्यति क्रीडति
इति देवः । न चात्र क्रीडातिरिक्तं निमित्तम् इत्याह
हेय इत्यादिना । नहि किंचिदुपादातुं हातुं वा जग-
पं० ५ क० ख० अखिलेति पाठः ।
पं० ६ क० पु० बोधात्मकसमस्तक्रियामये इति पाठः ।
पं० १० क० ख० पु० गुणमयश्च गतिरिति पाठः ।
श्लोक १०३ ] प्रथमाह्निकम् । १४५
त्सर्गादौ ईश्वरः प्रवर्तते, अत एव स्वानन्दघनत्व-
मेवात्र हेतुरुपात्तः, अत एव चास्य स्वतन्त्रत्वमेव,
सर्वोत्कर्षेण वर्तनेच्छा विजिगीषुता, विजिगीषोर्हि
कथं नु नाम सर्वानिवाभिभूय अहं वर्ते इतीयमेव
इच्छा भवति । तथा-शब्दः पूर्वापेक्षया समुच्चये
तेन दीव्यति विजिगीषते इति देवः । देवशब्दस्य
सर्वस्मात् अभिन्नेऽपि स्वात्मनि भेदेन 'अहमिदं जा-
नामि' इति योऽयमस्य संजल्पः तद्व्यवहरणम् अपा-
रमार्थिकेन रूपेण स्फुरणम् इत्यर्थः, तेन दीव्यति
व्यवहरति इति देवः । निखिलस्य प्रमातृप्रमेयात्मनो
निखिले चास्य यत् अवभासनं तत् द्योतनं, तेन
दीव्यति द्योतते द्योतयति इति वा देवः । यतः
सकलमिदं जगत् स्वरूपलाभात्प्रभृति समस्तेति-
कर्तव्यतायां तदायत्तप्रवृत्ति इत्यस्य स्तुतिः । सर्वे
हि शिवमन्त्रमहेश्वरादयः तत्परतन्त्रवृत्तित्वादुन्मु-
खतया प्रह्वा एव इति भावः । अस्य इति कर्मणि
पं० ६ क० पु० इति भाव इति पाठः ।
पं० ८ ख० पु० योऽस्येति पाठः ।
पं० १५ ख० पु० शिवे मन्त्रमहेश्वरेति शोधितः पाठः ।
१९
१४६ श्रीतन्त्रालोकः ।
षष्ठी, तेन दीव्यते स्तूयते इति देवः । समस्ता
पूर्णा विमर्शलक्षणा क्रिया प्रकृता यस्यासौ, दृक्क्रिये
गुणः शक्तिर्यस्यासौ, यतोऽयमेवंविधः ततोऽस्य
गतिः - विशेषानुपादानात् सर्वत्र ज्ञानं प्रसरणं
च इति सर्वज्ञः सर्वव्यापकश्च इति सिद्धम्, तेन
दीव्यति, जानाति, प्रसरति च इति वा देवः ॥१०१॥
१०२॥१०३॥
एतदेवोपसंहरति
इति निर्वचनैः शिवतनु-
शास्त्रे गुरुभिः स्मृतो देवः ।
गुरुभिः इति बृहस्पतिपादैः स्मृत इति
‘एवं वामो देवः स दीव्यति क्रीडति प्रभुर्यस्मात् ।’
इत्यादिना
‘अविवृत्तगतिः स यस्माद्देवस्तस्मात्सदाशिवो गीतः ।’
इत्यन्तेन ग्रन्थेन व्यावर्णितः इत्यर्थः ॥
शासनेत्यादिना पतिशिवशब्दयोर्निर्वचनमाह
पं० १२ क० ख० पु० क्रीडति प्रभुर्यः स्यादिति पाठः ।
श्लोक १०४ ] प्रथमाह्निकम् । १४७
शासनरोधनपालन-
पाचनयोगात्स सर्वमुपकुरुते ।
तेन पतिः श्रेयोमय
एव शिवो नाशिवं किमपि तत्र ॥१०४॥
शासनं शास्त्रोपदेशादिना बोध्यानां बोधनं ।
रोधनं संसारिणां विलयशक्त्या आघ्रातत्वात् तत्रै-
वावस्थापनं । पालनं यथास्थितस्य विश्ववैचित्र्यस्य
नियतनियन्त्रणया तथैव स्थापनात्मकं संरक्षणं ।
पाचनं कर्मणां कर्मिणः प्रति फलदानोन्मुख्यजननम् ।
उक्तं हि
‘स्वापेऽप्यास्ते बोधयन्बोधयोग्यान्
रोध्याञ्रुन्धन्पाचयन्कर्मिकर्म ।
मायाशक्तोर्व्यक्तियोग्याः प्रकुर्वन्
सर्वं पश्यन् यद्यथावस्तुजातम् ॥’
इति । तेन इति रक्षणार्थपर्यवसायिनोऽपि पतिशब्दस्य
शासनादिकारकत्वेन हेतुना इत्यर्थः । अत एव
पं० ६ ख० पु० फलदानादौन्मुख्येति पाठः ।
पं० १४ ग० पु० पश्यन्सर्वं यद्यथेति पाठः ।
पं० १५ ख० पु० पर्यवसायिनोपकारकत्वेन हेतुनेत्येवंविधः पाठः ।
१४८ श्रीतन्त्रालोकः ।
पाति रक्षति इति पतिः । श्रेयोमयः पराद्वयस्व-
भावत्वात् । अशिवम् इति द्वैतम् ॥१०४॥
ननु एवमपि किं विशेषणयोगेन, इत्याशङ्क्याह
ईदृग्रूपं कियदपि
रुद्रोपेन्द्रादिषु स्फुरेद्येन ।
तेनावच्छेदमुदे
परममहत्पदविशेषणमुपात्तम् ॥१०५॥
ईदृक् इति भैरवादिशब्देष्वन्वर्थगत्या दर्शितम् ।
कियत् इति किंचिदेव, न तु सर्वम्, एतत् हि अंशां-
शिकया सर्वत्रैव संभवेत् इति भावः । अत एव अन्य-
व्यवच्छेदेन सर्वातिशयप्रतिपादनार्थं परममहत्पदल-
क्षणं विशेषणमुक्तम् ॥१०५॥
ननु अज्ञानं संसृतौ निमित्तं, ज्ञानं च मोक्षे,
स्वस्वरूपाख्यातिश्चाज्ञानं, तत्ख्यातिश्च ज्ञानं, स्वा-
पं० १ क० पु० परमाद्वयेति पाठः ।
पं० ३ स० पु० विशेषेण योगेनेति पाठः ।
पं० ७ ख० पु० महत्पदमुपात्तमिति पाठः ।
पं० ११ क० पु० महत्पदविशेषणमिति लक्षणपदहीनः पाठः ।
पं० १४ क० पु० तद्व्याख्यातिश्चेति पाठः ।
श्लोक १०६ ] प्रथमाह्निकम्। १४९
त्मनश्च स्वरूपं परः प्रकाशः, स एव च स्वं रूपं स्वे-
च्छया प्रच्छाद्य विश्वरूपतामवभासयेत् । एवमपि
तदधिगमे तच्छक्तिरेवोपायो, येन स्वरूपख्यातिर्भ-
वेत्, इयदेव च ज्ञातव्यम् यत्सर्वेषामेव शास्त्राणां
प्रतिपाद्यं तच्च इह उक्तप्रायम् इत्यत एव विर-
न्तव्यम् इत्याशङ्क्याह
इति यज्ज्ञेयसतत्त्वं
दर्श्यते तच्छिवाज्ञया ।
मया स्वसंवित्सतर्क-
पतिशास्त्रालिकक्रमात् ॥ १०६॥
‘इत्युपोद्घातः’ । इति – उक्तेन प्रकारेण यत् ज्ञेयस्य
बन्धमोक्षादेः शास्त्रान्तरदृष्टत्वात् सतत्त्वं पारमार्थिकं
रूपम् अर्थादिह संक्षेपेण उद्दङ्कितम्, तन्मया
शिवाज्ञया स्वसंविदादि अवलम्ब्य च दर्श्यते –
विस्तरेण उच्यते इत्यर्थः । शिवोऽत्र गुरुः ।
‘यो गुरुः स शिवः प्रोक्तो यः शिवः स गुरुः स्मृतः ।
उभयोरन्तरं नास्ति गुरोरपि शिवस्य च ॥’
पं० १४ ख० पु० अवलम्ब्य चर्च्यते इति पाठः ।
१५० श्रीतन्त्रालोकः ।
इति, नहि अत्र तदादेशमन्तरेण अधिकार एव भवेत्
ईत भावः । स्वसंवित् स्वानुभवः । सत्तर्को युक्तिः ।
पतिशास्त्रं भेदप्रधानं शैवम् । त्रिकं परादिशक्तित्रया-
भिधायकं शास्त्रम् । क्रमः चतुष्टयार्थः । समाहारेऽयं-
द्वन्द्वः । इह सर्वमेव स्वानुभवेन युक्त्या सामान्या-
गमेन विशेषागमेन च सिद्धमुपदिश्यते इत्यागमः ।
उपोद्घात इति उप — आशु संक्षेपेण ऊर्ध्वमादौ हन्यते
टंक्यते दीनार इव राजाभिधानं शास्त्रार्थो यस्मिन्
स तथा ॥ १०६ ॥
तदेवं प्रतिज्ञाय शास्त्रार्थगर्भीकारेण संप्रति अव-
तारयितुमाह
तस्य शक्तय एवैता-
स्तिस्रो भान्ति परादिकाः ।
सृष्टौ स्थितौ लये तुर्ये
तेनैता द्वादशोदिताः ॥ १०७ ॥
तस्य परमेश्वरस्य भैरवादिशब्दाभिधेयस्य, एताः
पं० २ क० पु० स्वसंविदनुभव इति पाठः ।
प० ७ ख० पु० उपांशु संक्षेपेयोति पाठः ।
श्लोकः १०८ ] प्रथमाह्निकम् । १५१
निखिलशक्त्यन्तरगर्भीकारेण प्रधानतया प्रतिपा-
दिताः परादिकास्तिस्रः शक्तयः, सृष्टौ, स्थितौ, लये
संहारे, तुर्ये, अनाख्ये च भान्ति-सर्वसर्वात्मकेन रूपेण
स्फुरन्ति इत्येकैकस्याः चातूरूप्येण श्रीसृष्टिकाल्या-
द्यात्मकतया द्वादशधोदय इति वाक्यार्थः । तदुक्तं
'धाम्नां त्रयाणामप्येषां सृष्ट्यादिक्रमयोगतः ।
भवेच्चतुर्धावस्थानमेवं द्वादशधोदितः ॥
स्वसंवित्परमादित्यः प्रकाशवपुरव्ययः ।'
इति ॥ १०७ ॥
ननु एक एव परप्रकाशात्मको भैरवादिशब्द-
व्यपदेश्यः परमेश्वरः समस्ति, तस्य चाभिन्ना एकैव
स्वातन्त्र्याख्या शक्तिः इत्युपपादितं, तत्कथमस्य इह
द्वादशधोदय इत्युक्तम् ?, इत्याशङ्क्याह
तावान्पूर्णस्वभावोऽसौ
परमः शिव उच्यते ।
तेनात्रोपासकाः साक्षा-
त्तत्रैव परिनिष्ठिताः ॥ १०८ ॥
पं० ३ क० पु० भवन्ति सर्वसर्वात्मकत्वेन स्फुरन्तीति पाठः ।
पं० ११ ख० पु० तस्य चैके वाभिन्ना इति पाठः ।
१५२ श्रीतन्त्रालोकः ।
तावान् इति - द्वादश शक्तयः परिमाणमस्य, स
तथा, अत एव पूर्णस्वभावः इत्युक्तं । पूर्णे सर्व-
मस्ति, सर्वत्र पूर्णमस्ति, अन्यथास्य पूर्णतैव न
स्यात् । अत एव अत्र द्वादशात्मके चक्रे ये उपास-
काः ते तत्र परमशिवे एव परिनिष्ठिताः - तदैकात्म्य-
भाजो भवन्ति इत्यर्थः । एतच्च बहुप्रघट्टकवक्त-
व्यम्, इति शाक्तोपायाह्निक एव वितत्य विचार-
यिष्यते, इति नेहायस्तम् ॥ १०८ ॥
ननु कथमेतद्युक्तं - यतोऽत्र संख्यायाः तत्र तत्र
न्यूनत्वमाधिक्यं च संभवति ?, इत्याशङ्क्याह
तासामपि च भेदांश-
न्यूनाधिक्यादियोजनम् ।
तत्स्वातन्त्र्यबलादेव
शास्त्रेषु परिभाषितम् ॥ १०६ ॥
तदेवाह
एकवीरो यामलोऽथ
त्रिशक्तिश्चतुरात्मकः ।
पं० १६ ख० पु० यामलोक्त इति, यामलोत्थ इति च पाठः ।
श्लोकः १११ ] प्रथमाह्निकम् । १५३
पञ्चमूर्तिः षडात्मायं
सप्तकोष्ठकभूषितः ॥ ११० ॥
नवात्मा दशादिक्शक्ति-
रेकादशकलात्मकः ।
द्वादशारमहाचक्र-
नायको भैरवस्त्विति ॥ १११ ॥
यथा एकवीरो मृत्युजिति प्रथमध्याने । यामलः
तत्रैव । कुलप्रक्रियायां तिस्रः शक्तयः पराद्याः ।
चतुरात्मा जयादिभेदेन । पञ्चमूर्तिः सद्योजातादि-
तया । तदुक्तं
'सिद्धान्ते पञ्चकं सारं चतुष्कं वामदक्षिणे ।
त्रिकं तु भैरवे तन्त्रे....................॥'
इति । षडात्मा इति, यद्वक्ष्यति
'विश्वा तदीशिका रौद्री वीरका त्र्यम्बिका तथा ।
गुर्वीति षडरे देव्यः.................. ॥'
इति । सप्तकः इति, यदुक्तं
पं० ८ क० पु० तत्रैव प्रक्रियायामिति पाठः ।
पं० ११ ख० पु० चतुर्थं वामेति पाठः ।
२०