सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 155, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 155

श्लोक १०३ ] प्रथमाह्निकम् । १४५
त्सर्गादौ ईश्वरः प्रवर्तते, अत एव स्वानन्दघनत्व-
मेवात्र हेतुरुपात्तः, अत एव चास्य स्वतन्त्रत्वमेव,
सर्वोत्कर्षेण वर्तनेच्छा विजिगीषुता, विजिगीषोर्हि
कथं नु नाम सर्वानिवाभिभूय अहं वर्ते इतीयमेव
इच्छा भवति । तथा-शब्दः पूर्वापेक्षया समुच्चये
तेन दीव्यति विजिगीषते इति देवः । देवशब्दस्य
सर्वस्मात् अभिन्नेऽपि स्वात्मनि भेदेन 'अहमिदं जा-
नामि' इति योऽयमस्य संजल्पः तद्व्यवहरणम् अपा-
रमार्थिकेन रूपेण स्फुरणम् इत्यर्थः, तेन दीव्यति
व्यवहरति इति देवः । निखिलस्य प्रमातृप्रमेयात्मनो
निखिले चास्य यत् अवभासनं तत् द्योतनं, तेन
दीव्यति द्योतते द्योतयति इति वा देवः । यतः
सकलमिदं जगत् स्वरूपलाभात्प्रभृति समस्तेति-
कर्तव्यतायां तदायत्तप्रवृत्ति इत्यस्य स्तुतिः । सर्वे
हि शिवमन्त्रमहेश्वरादयः तत्परतन्त्रवृत्तित्वादुन्मु-
खतया प्रह्वा एव इति भावः । अस्य इति कर्मणि
पं० ६ क० पु० इति भाव इति पाठः ।
पं० ८ ख० पु० योऽस्येति पाठः ।
पं० १५ ख० पु० शिवे मन्त्रमहेश्वरेति शोधितः पाठः ।
१९