सामग्री पर जाएँ
सर्वकोश
तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा

स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)

DevanagariSanskritpublished368 पृष्ठ

पृष्ठ 156, कुल 368 में से

संदर्भ में पढ़ें
पृष्ठ 156

१४६ श्रीतन्त्रालोकः ।
षष्ठी, तेन दीव्यते स्तूयते इति देवः । समस्ता
पूर्णा विमर्शलक्षणा क्रिया प्रकृता यस्यासौ, दृक्क्रिये
गुणः शक्तिर्यस्यासौ, यतोऽयमेवंविधः ततोऽस्य
गतिः - विशेषानुपादानात् सर्वत्र ज्ञानं प्रसरणं
च इति सर्वज्ञः सर्वव्यापकश्च इति सिद्धम्, तेन
दीव्यति, जानाति, प्रसरति च इति वा देवः ॥१०१॥
१०२॥१०३॥
एतदेवोपसंहरति
इति निर्वचनैः शिवतनु-
शास्त्रे गुरुभिः स्मृतो देवः ।
गुरुभिः इति बृहस्पतिपादैः स्मृत इति
‘एवं वामो देवः स दीव्यति क्रीडति प्रभुर्यस्मात् ।’
इत्यादिना
‘अविवृत्तगतिः स यस्माद्देवस्तस्मात्सदाशिवो गीतः ।’
इत्यन्तेन ग्रन्थेन व्यावर्णितः इत्यर्थः ॥
शासनेत्यादिना पतिशिवशब्दयोर्निर्वचनमाह
पं० १२ क० ख० पु० क्रीडति प्रभुर्यः स्यादिति पाठः ।