सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

तैत्तिरीयब्राह्मणम् (१.३.३) ११५
ब्रह्म॑ण ए॒व तेज॑सा॒ तेजो॒ यज॑माने दधाति । सु॒रा॒-
ग्र॒हान्गृह्णा॑ति । अन्न॑स्य॒ वा ए॒तच्छम॑लम् । यत्सुरा॑ (३) ।
अन्न॑स्यै॒व शम॑लेन शम॑लं॒ यज॑माना॒दपं॑ हन्ति, इति ।
ब्रह्मणो ब्राह्मणस्योचितं तेजः सोमोऽत एव तदभावे
व्रात्यत्वमाम्नायते- ‘यस्य पिता पितामहो वा सोमं नापिबत्स व्रात्यः’
इति ।
प्रकारान्तरेण विधिद्वयं प्रशंसति-
सोम॑ग्र॒हाꣳ॑श्च सुराग्र॒हाँश्च॑ गृह्णाति । पुमा॒न्वै सोमः॑ । स्त्री॒
सुरा॑ । तन्मि॑थु॒नम् । मि॒थु॒नमे॒वास्य॒ तद्य॒ज्ञे क॑रोति
प्र॒जन॑नाय । आ॒त्मान॑मे॒व सौमग्रहैः स्पृ॑णोति । जा॒याँ
सु॒राग्र॑हैः । तस्मा॑द्वाजपेयया॒ज्यामुष्मिँ॑ल्लो॒के स्त्रियँ॑
संभ॑वति । वा॒ज॒पे॒या॒भि॒जि॒तꣳ॒ह्यस्य॑ (४) इति ।
स्पृणोति प्रीणयति । तस्माज्जायाभिनिदेवतायाः सुराग्रहैस्तोषितत्वा-
त्स्वर्गलोके स्वापेक्षितां रम्भादिस्त्रियमनुभवति तदेतत्सामर्थ्यमस्य युक्तं
वाजपेयेन संपादितत्वात् ।
वर्गद्वयस्य पूर्वोत्तरकालविशेषं स्थानविशेषं च विधत्ते-
पूर्वे॑ सो॑मग्र॒हा गृ॑ह्यन्ते । अप॑रे सुराग्र॑हाः । पु॒रोक्षँ॑
सौमग्र॒हान्त्साद॑यति । प॒श्चाद॒क्षꣳ सु॑राग्र॒हान् ।
पा॒प॒व॒स्य॒सस्य॒ विधृ॑त्यै, इति ।
पुरोक्षं शकटस्याधस्तादक्षस्य पुरः । पापं सुराग्रहरूपं निन्दितं कर्म,
वस्यस वसुमत्तरं सामग्रहरूपं पुण्यं कर्म , तयोर्विधृत्यै विभागेन
धारणाय । व्यतिषङ्गं विधत्ते-
ए॒ष वै यज॑मानः। यत्सोमः॑ । अन्नँ॒॑ सुरा॑ । सोम॑ ग्र॒हाꣳ॑
श्च॑ सुराग्र॒हाꣳश्च॒ व्यति॑षजति । अन्नाद्यै॒नैवै॑नं व्यति॑ष॒ज॒ति
(५), इति ।
व्यतिषङ्गप्रकार आपस्तम्बेन दर्शितः-“व्यतिषङ्गं सोमग्रहैः सुराग्र

११६ (१.३.३) तैत्तिरीयब्राह्मणम्
हान्गृह्णाति पूर्वोऽध्वर्युर्गृह्णाति जघन्यः प्रतिप्रस्थाता" इति । व्यतिषङ्गं
व्यतिषज्येत्यर्थः । अध्वर्युणा प्रथमे सोमग्रहे गृहीते सति प्रतिप्रस्थाता
प्रथमं सुराग्रहं गृह्णीयात् । ततो द्वितीये द्वितीयं सोऽयं व्यतिषङ्गः ।
अध्वर्योरुदद्रवणस्य विधास्यमानस्य मन्त्रमुत्पा (पपा?) द्य
व्याचष्टे-
संपृच॑ः स्थ॒ सं मा॒ भद्रे॑ण पृङ्क्तेत्या॑ह । अन्नं॒ वै भ॒द्रम् ।
अ॒न्नाद्ये॑नै॒वैनं॑ ँस ँसृ॑जति, इति ।
हे सोमग्रहा यूयं संपृचः स्थ संपर्कयोग्याः स्थ । अतो मां भद्रेण
श्रेयसाऽन्नेन संपृक्त संयोजयत । प्रतिप्रस्थातुरुदद्रवणस्य विधास्यमानस्य
करणभूतं मन्त्रमुत्पा (पपा ?) दयितुं प्रस्तौति-
अन्न॑स्य॒ वा ए॒तच्छर्मलम् । यत्सुरा॑ । पा॒प्मेव॒ खलु॒ वै
शर्मलम् । पा॒प्मना॒ वा ए॑नमे॒तच्छर्मलेन॒ व्यति॑षजति ।
यत्सौ॑मग्र॒हा ँश्च॑ सुराग्र॒हा ँश्च॑ व्यति॒षज॑ति, इति ।
पाप्मेव पापरूपमेव लोकवेदनिषिद्धत्वात् ।
मन्त्रमुत्पा (पपा ?) द्य व्याचष्टे-
वि॒पृच॑ः स्थ॒ वि मा पा॒प्मना॑ पृङ्क्तेत्या॑ह । पा॒प्मनै॒वैनं॑ ँ
शर्मले॑न॒ व्याव॑र्तयति (६) । तस्मा॑द्वाजपे॒यंया॒जी पू॒तो मेध्यो॑
दक्षिण्य॑ः, इति ।
हे सुराग्रहा यूयं स्थ विभागयोग्याः स्थ । अतो मां पाप्मना विपुङ्क्त
विनियोजयत । तस्मात्पापव्यावृत्तत्वादयं शुद्धो यज्ञं दक्षिणां दातुं च
योग्यः ।
अध्वर्युप्रतिप्रस्थात्रोरुद् द्रवणं विधत्ते-
प्राङ्द्र॑वति सोमग्र॒हैः। अ॒मुमे॒व तैर्लोक॑म॒भिज॑यति ।
प्र॒त्यङ्त्सु॑राग्र॒हैः । इ॒ममे॒व तैर्लोक॑म॒भिज॑यति, इति ।
तदेतदुदद्रवणमापस्तम्बः स्पष्टीचकार-“संपृचः स्थ सं मा भद्रेण
पृङ्क्तेति प्राङध्वर्युः सोमग्रहैरुदद्रवति । विपचः स्थ वि मा पाप्मना

तैत्तिरीयब्राह्मणम् (१.३.३) ११७
पृङ्क्तेति प्रत्यङ्प्रतिप्रस्थाता सुराग्रहैराहवनीयं न्यङ्क्ते सोमग्रहैरवतिष्ठन्ते
मार्जालीयं न्यङ्क्ते सुराग्रहैः” इति ।
प्रचारं विधत्ते-
प्रति॑ष्ठन्ति सोमग्र॒हैः । याव॑दे॒व स॒त्यम् । तेन॑ सूयते, इति ।
प्रतिष्ठन्ति प्रचरन्ति जुह्वतीत्यर्थः । सत्यमवश्यंभावि फलं
तद्यावदस्ति तेन सर्वेणायं यजमानः सूयते प्रेर्यते कृत्स्नं फलमुद्दिश्य
सोमग्रहैर्हुतवान्भवतीत्यर्थः ।
विधत्ते-
वा॒ज॒सृद्भ्यः॑ । सु॒रा॒ग्र॒हान्हर॑न्ति । अनृ॑तेनै॒व विशं॒ ँ स ँ
सृ॑जति, इति ।
वाजसृतोऽन्नस्यार्जयितारो वैश्याः । तेभ्यः सुराग्रहान्सो-
मरहितान्दद्युः । सुरायाः शमलत्वेनानृतसदृशत्वाद्विशमधमजातिमम्नृतेनैव
संयोजितवान्भवति ।
दक्षिणाविशेषं विधत्ते-
हि॒र॑ण्यपा॒त्रं॒ मधोः॑ पू॒र्णं द॑दाति । मध्व्यो॑ऽसा॒नीति॑, इति ।
मधुमाक्षिकम् । मध्वादिभोग्यद्रव्ययुक्तो भवानीत्यनेनाभिप्रायेण
मधुपूर्र्णं सुवर्णपात्रं दद्यात् ।
तद्दानस्य कृष्णलदानसाहित्यं विधत्ते-
एक॑धा ब्रा॒ह्म॒ण उप॑हरति । एक॑धैव यज॑मा॒न् आयु॒स्तेजो॑
दधाति (७), इति ।
कृष्णलसाहित्यं चाऽऽपस्तम्बो दर्शयति-“कृष्णलं कृष्णलं वाजसृद्
भ्यः प्रयच्छति तानि प्रत्यादाय ब्रह्मणे ददाति मधुष्ठीलं च सौवर्णं
शतमानस्य कृतम्” इति ।
आप्न॒वाऽव॑रुन्धे सोम॑: शम॑लं यत्सु॒रा ह्य॑स्यै॒नं व्यति॑षजति
व्याव॑र्तयति सृजति च॒त्वारि॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
तृतीयाध्याये तृतीयोऽनुवाकः ॥ ३ ॥

११८ (१.३.४) तैत्तिरीयब्राह्मणम्
अथ चतुर्थोऽनुवाकः ।
ग्रहावाधमतेनानुवाकेन समाप्यनुवाकान्तरेण पशून्विधातुं प्रस्तौति-
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । नाग्नि॒ष्टोमो नोक्थ्य॑ः । न षो॒ड॒शी
नाति॑रा॒त्रः । अथ॒ कस्मा॑द्वाजपे॒ये सर्वै॑ य॒ज्ञक्रत॑वोऽव॑रुध्यन्त॒
इति॑ । प॒शु॒भिरिति॑ ब्रूयात्, इति ।
यज्ञशब्देन देशत्यागरूपाः प्रयाजादयः प्रत्येकमभिधीयन्ते ।
तत्समूहरूप एव फलसाधनात्मा कर्मविशेषः क्रतुः। वेदवादिनो मिलित्वा
परस्परमेवं विचारयन्ति । यज्ञाश्च क्रतवश्च सर्वेऽपि वाजपेयेऽन्तर्भूता
इत्यस्ति प्रसिद्धिः । तत्कथमुपपद्यते । तथाहि । प्रयाजादीनां
दाक्षणीयादिद्वारा तत्रान्तर्भावेऽप्यग्निष्टोमादीनामन्तर्भावात् । तेषां
ब्रह्मवादिनां मध्ये कश्चिद् बुद्धिमानेवमुत्तरं ब्रूयात् ।
अग्निष्टोमादिगतैराग्नेयादिसवनीयपशुभिः क्रतवोऽन्तर्भूता इति ।
पशून्विधत्ते-
आ॒ग्ने॒यं प॒शुमा॑लभते । अ॒ग्नि॒ष्टोम॑मेव तेना॑वरुन्धे ।
ऐ॒न्द्रा॒ग्नि॒नोक्थ्य॑म् । ऐ॒न्द्रेण॑ षो॒ड॒शिन॑: स्तोत्र॑म् ।
सा॒र॒स्व॒त्याऽति॑रा॒त्रम् (१) । मा॒रु॒त्या बृ॒हत॑: स्तोत्र॑म् ।
ए॒ताव॑न्तो॒ वै य॒ज्ञक्रत॑वः । तान्प॒शुभि॑रे॒वाव॑रुन्ध, इति ।
आग्नेयादयोऽग्निष्टोमादीनां व्यावर्तकाः पशवः । षोडशिनो ग्रहस्य
स्तोत्रं तेन स क्रतुरुपलक्ष्यते । सारस्वती मेषी सा चातिरात्रस्य
व्यावृत्तिहेतुः । मारुती वशा तयाऽनूबन्ध्यया बृहत्सामसंबन्धि
स्तोत्रमवरुन्धे, तेन च स्तोत्रेण वाजपेय उपलक्ष्यते तस्य
चासाधारणत्वात् । तानेतान्पशुविधीन्बौधायन उदाहरति-“आश्विनं
गृहीत्वा षड्रशना आदाय यूपमभ्यैति स्वर्वन्तं
यूपमुत्सृज्याथैनान्पशूनुपाकरो-त्याग्नेयमैन्द्राग्नमैन्द्रं मारुतीं वशां सप्त दश
प्रजापत्याञ्स्यामाने-करूपान्सरस्वतीमततः” इति ।
आपस्तम्बस्त्वाग्नेयादीनां चोदकप्राप्ता-नामनुवादं मत्वा
मेषीमारुत्योर्विधिमुदाहरति- “पशुकाले त्रीन्क्रतुपशूनुपाकृत्य मारुतीं
वशामुपाकरोति सारस्वतीं च मेषीम्’ इति ।
आत्मादिप्रीतिहेतुत्वेन भूम्यादिलोकजयहेतुत्वेन तेजःप्रभृतिधारण-
हेतुत्वेन च क्रतुपशून्प्रशंसति-

तैत्तिरीयब्राह्मणम् (१.३.४) ११९
आ॒त्मान॑मे॒व स्पृ॑णोत्यग्नि॒ष्टोमे॑न । प्रा॒णा॒पा॒नावु॒क्थ्ये॑न ।
वी॒र्यँ॑ षोड॒शिन॑: स्तोत्रे॑ण । वाच॑मतिरा॒त्रेण॑ । प्र॒जां बृ॑ह॒तः
स्तोत्रे॑ण । इ॒ममे॒व लो॒कम॒भिज॑यत्यग्नि॒ष्टोमे॑न ।
अ॒न्तरि॑क्षमुक॒थ्ये॑न (२) । सु॒वर्गं लो॒क ँषोड॒शिन॑: स्तोत्रे॒ण॑ ।
दे॒व॒याना॑ने॒व पथ॒ आरो॑हत्यतिरा॒त्रेण॑ । नाकँ॑ रोहति
बृ॒हतः॒ स्तोत्रे॑ण । तेज॑ ए॒वाऽऽत्मन्धे॑त्त आग्ने॒येन॑ प॒शुना॑ ।
ओजो॒ बल॑मैन्द्रा॒ग्नये॑न । इ॒न्द्रि॒यमै॒न्द्रेण॑ । वाचँ॑
सारस्व॒त्या । उ॒भावे॒व दे॑वलो॒कं च॑ मनुष्यलो॒कं
चा॒भिज॑यति मारु॒त्या व॒शया॑, इति ।
अत्राग्निष्टोमेनेत्यादिशब्दैस्तन्निष्पादका आग्नेयादिपशवो
विवक्षिताः । पशुविधेः प्रस्तुतत्वात् । आग्नेयेन पशूनेत्यन्तिमपर्याय (ये)
विधानाच्च ।
विधत्ते-
स॒प्तद॑श प्राजाप॒त्यान्प॒शूनाल॑भते । स॒प्तद॑शः प्र॒जाप॑तिः
(३) । प्र॒जाप॑तेरा॒प्त्यै, इति ।
तेषु पशुषु गुणद्वयं वाक्यभेदमङ्गीकृत्य विधत्ते-
श्या॒मा एक॑रूपा भवन्ति । ए॒वमि॑व॒ हि प्र॒जाप॑तिः समृ॑द्ध्यै,
इति ।
पशूनामेकरूपत्वं नामैकविधशृङ्गपुच्छादिभिर्युक्तत्वम् ।
प्रजापतिशब्देनात्रत्वरस्य हिरण्यगर्भशरीराद्यभिव्यक्तेः प्रागवस्था
विवक्ष्यते, सा चावस्था श्यामेव भवति . तम आसीत्तमसा गूढमिति
श्रुतेः। जगद्रूपस्य नानात्वस्यानुत्पत्तेरेकरूपत्वम्, एकमेवाद्वितीयमिति
श्रुतेः । पशूनां जगदीश्वरेण साम्ये सति समृद्धिर्भवति ।
प्रकृतिभूतेऽग्नीषोमीये . पशौ पर्यग्निकरणादूर्ध्वमविलम्बेना
ऽऽलम्भस्य विहितत्वात्, अत्रापि चोदकपरम्परया तत्प्राप्तौ सहसाऽऽलम्भनं
निषेधति-
तान्प॒र्य॑ग्निकृ॒तानुत्सृ॑जति, इति ।

१२० (१.३.४) तैत्तिरीयब्राह्मणम्
तदानीं नाऽऽलभेतैत्यर्थः ।
आलम्भस्य व्यवधाने कारणमाह-
म॒रुतो॑ य॒ज्ञम॑जिघा ँ स॒न्प्रजाप॑तेः । तेभ्य॑ ए॒तां मारु॒तीं
व॒शामार॑भत । तयै॒वैना॑नशमयत् इति ।
सप्तदशप्रजापतिरूपो, यः प्रजापतेर्यज्ञस्तं यज्ञं मरुतः
पर्यग्निकरणादूर्ध्वं हन्तुमुद्यताः । तदानीमुत्कोचरूपेण प्रजापतिर्मरुद्भ्यो
वशामालभत, क्रुद्धान्मरुतस्तया वशया शमितवान् ।
प्राजापत्यानां संज्ञपनकालं विधत्ते-
मारु॒त्या प्र॒चर्य॑ । तान्संज्ञ॑पयेत् । म॒रुत॑ ए॒व श॑म॒यित्वा (४)
ए॒तैः प्र॑चरति । य॒ज्ञस्याघा॑ताय, इति ।
प्रचर्य मारुत्य वशाया वपां हुत्वेत्यर्थः ।
सप्तदशानां वपानां सह प्रचारं विदधाति-
एक॑धा व॒पा जु॑होति । एक॑दे॒वत्या॑ हि । ए॒ते । अथो॑
एक॑धैव यज॑माने वी॒र्यं॑ दधति, इति ।
विधत्ते-
नै॒वारे॑ण स॒प्तद॑शशरावेणैत॒र्हि प्र॑चरति । ए॒तत्पु॑रोडाशा॒
ह्ये॑ते । अथो॑ पशूनामे॒व च्छिद्र॒मपि॑दधाति, इति ।
नीवारैर्निष्पन्नश्चरुर्नैवारः, सप्तदशसंख्याकैः शरावैर्निरुप्तः
सप्तदशशरावः, तेनैव चरुणैतर्हि प्राजापत्यवपाहोमादूर्ध्वं प्रचरेत् । एष
एव चरु पशुपुरोडाशस्थानीयो तेषां प्राजापत्यपशूनां त एतत्पुरोडाशा अतः
प्रकृतौ यथा वपया प्रचर्य पुरोडाशेन प्रचरति तद्वदत्रापि । किंच
वपोत्खेदात्पशूनां यच्छिद्रं कर्मवैकल्यं भवति तदेतेन चरुणाऽपिहितं
भवति ।
सारस्वस्या मेष्याङ्गप्रचारस्य कालविशेषं विधत्ते-
सा॒र॒स्व॒त्यात्त॒मया॑ प्र॑चरति । वाग्वै सर॑स्वती ।

तैत्तिरीयब्राह्मणम् (१.३.५) १२१
तस्मा॑त्प्रा॒णानां॒ वागु॑त्त॒मा । अथो॑ प्र॒जाप॑तावे॒व य॒ज्ञं
प्र॒तिष्ठा॑पयति । प्र॒जाप॑ति॒र्हि वाक्, इति ।
सारस्वती यथोत्तमा चरमा भवति तथा प्रचरेत् ।
सप्तदशपश्वङ्गप्रचारादूर्ध्वं प्रचरेदित्यर्थः । यस्मात्सारस्वत्या उत्तमत्वं
तस्माल्लोकेऽपि सस्वती रूपा वाक्प्राणापानचक्षुःश्रोत्रादीनां मध्य उत्तमा,
सभामध्ये विद्वदयात्यादेर्वाग्मिनः प्रागल्भ्यदर्शनात् । किंच प्रजापतेः
सरस्वतीपतित्वात्तद्भेदोपचारेण वाग्रूपत्वे सति सारस्वत्या समापनेन
प्रजापतावेव यज्ञः समापितो भवति ।
सारस्वत्या मेष्याः किं (कं) चिद्गुणं विधत्ते-
अप॑न्नदती भवति । तस्मा॑न्मनु॒ष्या॑: स॒र्वां॒ वाचं॑ वदन्ति
(५), इति ।
अपतितदन्तोपेता मेषी कार्या । लोकेऽप्यपतितदन्ताः पुरुषाः
सर्वाक्षराणि यथोक्तस्थानप्रयत्नोपेतान्येवोच्चारयन्ति ।
अ॒ति॒रा॒त्रम॒न्तरि॑क्षम॒क्थ्यै॑न प्र॒जाप॑तिः शमयित्वोत्त॒मया॒ प्रच॑रति॒ षट्
र्चं ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
तृतीयाध्याये चतुर्थोऽनुवाकः ॥ ४ ॥
अथ तृतीयाध्याये पञ्चमोऽनुवाकः ।
तदेवं ब्राह्मणगतेनानुवाकत्रयेण वाजपेयगता विधय निरूपिताः ।
अथ मन्त्रव्याख्यानरूपान्ब्राह्मणानुवाकांस्तत्तन्मन्त्रैः सहैवोदाहरामः । तत्र
प्रथममन्त्रस्य विनियोगं बौधायन आह- ‘दीक्षणीया निर्वप्स्यन्सावित्रं
जुहोति-
दे॒वं स॑वि॒तः प्रसु॑व य॒ज्ञं प्रसु॑व य॒ज्ञप॑तिं॒ भगा॑य दि॒व्यो ग॑न्ध॒र्वः ।
के॒त॒पूः केतं॑ नः पुनातु वा॒चस्पति॒र्वाचं॑म॒द्य स्व॑दाति नः ॥
स्वाहेति, दीक्षाहुतीर्होमन्सावित्रं जुहोति, प्रायणीया
निर्वप्स्यन्सावित्रं जुहोति” इति । हे सवितर्देव प्रेरकान्तर्यामिन्नस्मदीयं
वाजपेययज्ञं प्रवर्तय, यज्ञपतिं यजमानं भगयानुष्ठानरूपायैश्वर्याय । दिवि
भवो यो गन्धर्वः सवितुरनुग्रहात्केतान्पुनाति प्राणिनो विज्ञानानि शोधयति
स्म सोऽस्माकं केतं वाजपेयविज्ञानं पुनातु शोधयेत् (शोधयतु)।
वाचस्पतिश्च सवित्राऽनुज्ञातोऽद्यास्मिन्कर्मणि वाचमस्माभिः

१२२ (१.३.५) तैत्तिरीयब्राह्मणम्
पठितान्वाजपेयमन्त्रान्स्वदाति स्वदयतु यथावत्सादयतु । अनेन मन्त्रेण
होमं विधत्ते-
सा॒वि॒त्रं जु॑होति॒ कर्म॑णः कर्मण पुर॒स्ता॑त्, इति ।
तदेतद्बौधायनेनैवोदाहृतम् ।
तत्तत्कर्मादौ होममुपपादयति-
कस्तद्द्वे॒देत्या॑हुः । यद्वा॑ज॒पेय॑स्य॒ पूर्वं॒ यदप॑र॒मिति॑ ।
स॒वि॒तृप्र॑सूत एव यथापूर्वं॒ कर्मा॑णि॒ करोति॑, इति ।
बद्धक्रमैश्चौदकप्राप्तैः प्रत्यक्षविहितैश्चोदकस्य वाजपेयस्य यदङ्गं
पूर्वभावि यच्च पश्चाद्भावि तन्मनुष्यः को वेदेति बुद्धिमन्त आहुः ।
सावित्रहोमे तु कृते सविता प्रेरित एव सन्क्रममनुल्लङ्घ्य कृतवान्भवति
प्रतिकर्म ।
तमेतं होमं कर्तुमशक्तं प्रति पक्षान्तरं विधत्ते-
सव॑ने सवने जुहोति । आ॒क्रम॑णमे॒व तत्सेतुं यज॑मानः
कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै, इति ।
उक्तेन त्रयाणां सवनानामादौ होमेन स्वर्गं प्राप्तुं सेतुस्थानीयमाक्रमणं
कृतवान्भवति ।
अस्य मन्त्रस्यचतुर्थपादे स्वदनस्यान्नविषयस्य
वाग्विषयत्वमुपयुक्तमिति शङ्कां निराकर्तुं व्याचष्टे-
वा॒चस्पति॒र्वाचं॑म॒द्य स्व॑दाति न् इत्या॑ह । वाग्वै दे॒वानां॑
पुरा॒ऽन्न॑मासीत् । वाच॑मे॒ वास्मा॒ अन्नँ॑ स्वदयति (१),
इति ।
स्तुत्या देवैस्तू (वानां तृ)प्तत्वाद्वाचौ देवान्नत्वम् ।
कल्पः-"रथ एव दक्षिणे श्रोण्यन्ते रथवाहन आहितो भवति
तमुपसादयति-
इन्द्र॑स्य वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यात् " इति ।
वार्त्रघ्नो वैरिघाती योऽमिन्द्रस्य वज्रः, हे रथैवं त्वमसि । त्वया.
सहकारिणा सहितोरथं यजमानो वृत्रं वैरिणं वध्यात् । रथवाहने

तैत्तिरीयब्राह्मणम् (१.३.५) १२३
काष्ठविशेषे स्थापिते गमनाय सजीकर्तुं तस्य रथस्य तस्मात्काष्ठादवरोहणं
विधत्ते-
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॒घ्न इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै,
इति ।
कल्पः-“अथैनं धूर्गृहीतमन्तर्वेद्याम्यावर्तयन्ति-
वाज॑स्य नु प्रस॒वे मा॒तरं॑ म॒हीमदि॑तं॒ नाम॒ वच॑सा करामहे ।
यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑
साविषत् ” इति ।
दक्षिणवेदिश्रोण्यन्त रथवाहनादवरोपितं रथं सौमिकवेदिमध्ये
प्रादक्षिण्येनाऽऽनयेदित्यर्थः । वाजस्य नु, अन्नस्यैव प्रसव उत्पत्तिनिमित्तं
मातरमन्नस्य निर्मात्रीं महीं वेदरूपां पृथिवीमदितिं नामाखण्डनीयामेव
वचसास्तुत्या करामहे कुर्मः । यस्यां पृथिव्यामिदं सर्वं भूतजातं
प्रविश्यावतिष्ठते तस्यां पृथिव्यां नोऽस्माकं धर्म धारणं सविता देवः
साविषदनुजानातु । अनेन मन्त्रपाठेन भूमिं तदाश्रितं जगञ्च जगञ्च
स्वाधीनत्वेन संपादयतीत्येवं व्याचष्टे-
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमित्या॑ह । य॒ज्ञैवेयम् ।
य॒ज्ञास्यामधि॑ । तदे॒वाव॑रुन्धे । अथो॒ तस्मि॑न्ने॒वोभये॑ऽ
भिषि॑च्यते, इति ।
न केवलं बलं तयोः स्वाधीनत्वं किंत्वेतस्मिन्नुभयस्मिन्भूम्यां
तदाश्रिते जने च राजत्वेनाभिषिक्तो भवति ।
कल्पः-“अथाश्वानपल्पूलयति-
अ॒प्स्व॑न्तर॒मृत॑म॒प्सु भेष॒जमु॒पामुप॑ प्र॒शस्ति॑ष्वश्वा॑ भव॒थ वाजिनः”
इति ।
पल्पूयति जले प्लावयति । शरीरं प्रक्षालयतीत्यर्थः । अप्सु मध्ये
यन्मृत्युनिवारकं रोगनिवारकं च सारं वर्तते (तन्न) हे
वाजिनोऽन्नवन्तोऽश्वा अपां संबन्धिन्यीषूत प्रशस्तिष्वमृतत्वभेषजत्व-
सदृशीष्वन्यास्वपि गुणवत्प्रशंसासु यूयं संबद्धा भवथ । विधत्ते-
अ॒प्स्व॑न्तर॒मृत॑म॒प्सु भेष॒जमित्यश्वा॑नपल्पूलयति । अ॒प्सु वा
अश्व॑स्य॒ तृतीयं॒ प्रवि॑ष्टम् । तद॑नुवे॒न्वव॑प्लवते । यद॒प्सु

१२४ (१.३.५) तैत्तिरीयब्राह्मणम्
प॑ल्पूलय॑ति (२) । यदे॒वास्या॒प्सु प्रवि॑ष्टम् । तदे॒वाव॑रुन्धे,
इति ।
स्नपयितुं प्रवशितोऽप्यश्वः स्वेच्छया क्रीडञ्जलस्योपरि प्लवते ।
तत्रेद्रमुत्प्रेक्षते । अप्सुयोनिर्वा अश्व इति श्रुतेरश्वजन्मकाले गर्भसंबन्धि
तृतीयमंशजातं जलेऽवस्थितं भवति । यथा मनुष्यगर्भे तद्वत् । अत एव
हि मनुष्या नवप्रसूताया योषितो गर्भस्थानं समाधातुं बहुभिरौषधैश्चिकित्सां
कुर्वन्ति । एवं च सत्ययमप्यश्वस्तदंशजातमन्वेवेन्कामयमानोऽनु
प्रायेणावप्लवते । यथा विनष्टद्रव्यमचिन्वन्पुरुषो जले पुनः
पुनर्मज्जन्नुत्तिष्ठति तद्वत् । एवं च सत्यध्वर्युः प्लावयतीति यत्तेनाप्सु
प्रविष्टमश्वावयवजातं तत्सर्वं संपादितवाम्भवति ।
प्रकारान्तरेण प्लावनविधिं स्तौति-
बहु॒ वा अश्वो॑ऽमे॒ध्यमुप॑गच्छति । यद॒प्सु प॑ल्पूलय॑ति ।
मेध्य॑मे॒वैना॑न्करोति, इति ।
अश्वः खलु पृथिव्यां यत्र क्वाप्यशुचिप्रदेशे विपरिवर्तमानो
बहुविधममेध्यमयज्ञार्हमुच्छिष्टादिकमुपगच्छति, अतोऽध्वर्युः
प्रक्षालनेनाश्वान्यज्ञयोग्यानेव करोति ।
कल्पः-“अथ दक्षिणं योग्यं युनक्ति-
वा॒युर्वा॒ त्वा॒ मनु॑र्वा त्वा गन्ध॒र्वाः स॒प्तवि॑ ँशतिः ।
ते अग्रे॒ अश्व॑मायुञ्ज॒न्ते अ॒स्मिञ्ज॒यमार्धुः” इति ।
योग्यं रथयोक्तुमर्हमश्वम् । वायुश्च मनुश्च पञ्चविंशतिसंख्याका
गन्धर्वाश्चेति मिलित्वा सप्तविंशतिसंख्याका ये पुरुषास्ते सर्वेऽग्रेऽस्मत्तः
पूर्वं रथे संयोजितवन्तस्ते पुनः सर्वे पृष्ठसंमार्जनाद्युपचारैणास्मिन्नश्वे वेगं
संपादितवन्तः । वायुस्त्वामयोजयन्मनुस्त्वामयोजयदिति पृथग्वाक्यकरणं
तयोर्मुख्यत्वज्ञापनार्थम् । अहं युनज्मीत्यभिप्रायः । अहं युनज्मीति । पाठं
परित्यज्य वायुर्वा त्वेति पाठस्याभिप्रायमाह-
वा॒युर्वा॒ त्वा॒ मनु॑र्वा॒ त्वेत्या॑ह । ए॒ता॰ वा ए॒तं दे॒वता॒ अग्रे॒
अश्व॑मयुञ्जन् । ताभि॑रे॒वैना॑न्युनक्ति । सर्व॑स्यो जित्यै, इति ।
योजयितॄणां देवानामनुग्रहाद्यज्ञस्योत्कर्षेण जयो भवा[...]
विधत्ते-

तैत्तिरीयब्राह्मणम् (१.३.५) १२५
यजु॑षा युनक्ति॒ व्यावृत्यै॑ (३), इति ।
अनुप् छन्दस्तादृग्रूपोऽपि वायुर्वा त्वेति मन्त्रो यजुर्वेदपठित्वा-
द्यजुरित्युपचर्यते । लौकिके रथे मन्त्रमन्तरेणाश्वयोजनादत्र समन्त्रकत्वेन
व्यावृत्तिर्भवति ।
कल्पः-“अथास्य पृष्ठं मर्मृज्यते-
अपांनपादाशुहे॑म॒न्य ऊ॒र्मिः क॒कुद्मान्प्रतूर्तिर्वा॒जसा॑तम॒स्तेना॒यं वाजं॑
सेत्” इति ।
मर्मृज्यते पुनः पुनः संमार्ष्टि । हेऽपांनपात्प्लवनकाले जलस्य
कालुष्यापादनादविनाशयितराशुहेमंस्तीव्रगन्तस्तादृश हेऽश्व जल य
ऊर्मिः ककुद्वान्ककुदिवोन्नतः प्रतूर्तिर्निमज्जन प्रसक्तस्योपद्रवस्य
प्रकर्षेण हिंसको वाजसातमः सस्योपकारित्वेनातिशयेनान्नप्रदस्तेन त
(त्व) त्पृष्ठलग्नेनोर्मिणाऽस्माकं वाजमन्नं सेत्साधय । विधत्त-
अ॒पांनपादाशुहे॑म॒न्निति॑ संमा॒र्ष्टि । मे॒ध्याने॒वैना॑न्करोति ।
अथो॒ स्तौत्ये॒वैना॑ना॒जि ँस॑रिष्य॒तः, इति ।
पृष्ठसंमार्जनेन शोधितत्वाद्यागयोग्यत्वम् । किंच धावनार्थायः
सप्तदशशरपातपरिमिताया भूमेरवधिराजिस्तं प्रति सरिष्यन्ति गमिष्यन्ति
तान्गमिष्यतोऽश्वान्पृष्ठसंमार्जनरूपणोपलालनेनस्तौत्येव प्रोत्साहयत्येव ।
कल्पः-“अथ रथमभिप्रेति-
विष्णो॑ः क्रमो॑ऽसि॒ विष्णो॑ः क्रा॒न्तम॑सि॒ विष्णो॒र्विक्रान्तमसि, इति ।
तदेतद्यजमानकर्म । तथाचाऽऽपस्तम्ब-“विष्णोः क्रमऽसीति रथं
यजमानोऽभ्येति इति । यजमानस्य मम हे प्रथम प्रक्रम त्वं
विष्णोर्व्यापनशीलस्य जगदीशवरस्य त्रिविक्रमावतारस्य प्रक्रमोऽसि
प्रथमपदप्रक्षेपेण जितो भूलोकोऽसि । हे द्वितीयप्रक्रम त्वं क्रान्तं
विष्णोर्द्वितीयपदप्रक्षेपेण जितमन्तरिक्षमसि । हे तृतीयप्रक्रम त्वं विक्रान्तं
विष्णोः पराक्रमेण जितं त्रिविष्टपमसि । विधत्ते-
विष्णु॑क्र॒मान्क्रम॑ते । विष्णु॑रि॒व भू॒त्वेमाँल्लो॒कान॒भिज॑यति॒,
इति ।
कल्पः-“अथ रथस्य पक्षसी संमृशत्यङ्कौ न्यङ्कावभितो रथं यौ ”
इति । पक्षसी पार्श्वौ ।

१२६ (१.३.५) तैत्तिरीयब्राह्मणम्
पाठस्तु-अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यौ ध्वान्तं॒ वाता॑ग्रम॒नुसं॒चर॑न्तौ दू॒रे
हे॒तिरिन्द्रि॑यावा॒न्पत॒त्री ते नो॑ऽग्नयः॒ पप्र॑यः पारयन्तु” इति ।
रथमभितो यावङ्कौ लक्षणभूतौ पार्श्वविशेषौ, न्यङ्कौ नितरां
लक्षणभूतौ चक्रविशेषौ । अत एवाऽऽपस्तम्ब आह-“अङ्कौ न्यङ्काविति
रथचक्रे अभिमृशति पक्षसी वा” इति । ध्वान्तं ध्वन्युपेतं वाताग्रं वायोरपि
पुरोदेशं शीघ्रतया वायुमप्यतिलङ्घ्यानुक्रमेण संचरन्तौ
तादृग्भ्यामुभाभ्यामग्नयो नोऽस्मान्पारयन्तु धावनावधिं पारयन्तु । कीदृशा
अग्नयः पप्रयोऽपेक्षितमर्थं पूरयितारः । येऽग्नयो दूरे
हेतिरित्यादिनामोपेतास्ते । एतन्मन्त्रगतमग्निपदं रथावस्थदेवतापरत्वेन
व्याचष्टे ।
वै॒श्व॒दे॒वो वै रथ॑: । अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒ यावि॒त्याह॑ ।
या एव दे॒वता॒ रथे॒ प्रवि॑ष्टाः । ताभ्य॑ एव नम॑स्करोति ।
आ॒त्मनोऽना॑र्त्यै॒ इति॑ ।
दूरे हेतिरित्यादिनामका अग्नयोऽत्र विश्वेदेवाः । तद्वाहनरूपोऽयं
रथः । पारयन्त्विति प्रार्थनैव नमस्कारस्तेन नमस्कारेण तदीयं
रथमारूढस्यापि स्वस्याऽऽर्तिर्न भवति ।
वेदनं प्रशंसति-
अश्मा॑रथं भावुकोऽस्य॒ रथो॑ भवति । य ए॒वं वेद॑ (४) ,
इति ।
स्व॒दय॑ति प्लू॒प्लूय॑ति॒ व्यावृत्यै॒ अना॑र्त्यै॒ द्वे च॑ ।
शमयुक्तो रथः शमरथो मन्दगतिः । अशमरथः शीघ्रगती रथः ।
तच्छीलोऽस्य वेदितूं रथो भवति ।
अत्र विनियोगसंग्रहः-
देव होमोऽत्र कर्माऽऽदाविन्द्रस्य रथमाहरेत् ।
वाजस्य वेदिमध्ये तमभ्यावर्त्तयते रथम् ।।
अप्प्वश्वान्प्लावयेद्वायुर्युनक्ति तुरगं रथे ।
अपां तदश्वपृष्ठानि मार्ष्टि विष्णो रथं व्रजेत् ।।
अङ्कौ रथे मृशेत्पक्षावष्टौ मन्त्रा इहोदिताः ।। इति ।
अथ मीमांसा । प्रथमाध्यायस्य चतुर्थपादे चिन्तितम्-

तैत्तिरीयब्राह्मणम् (१.३.५) १२७
यजेत वाजपेयेन स्वाराज्यार्थीत्यसौ गुणः ।
नाम वा गुणता तन्त्रयोगाद्गुणफलद्वये ॥
साधारणयजेः कर्मकरणत्वेन तन्त्रता ।
त्रिकद्वयं विरुद्धं स्यात्तन्त्रतायां फलं प्रति ॥
उपादेयविधेयत्वगुणत्वाख्यत्रिकं यजेः ।
उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रतिं ॥
त्यक्त्वा तन्त्रं तदावृत्तौ वाक्यं भिद्येत तेन सः ।
वाजपेयेति शब्दोऽपि कर्मनामाग्निहोत्रवत् ।। (इति) ।
वाजपेयेन स्वाराज्यकामो यजेतेत्यत्र वाजपेयशब्देन गुणो
विधीयते । अन्नवाची वाजशब्दः । तच्चान्नं पेयं सुराद्रव्यम् । तच्चात्र
गुणः । सुराग्रहाणामनुष्ठेयत्वात् ननु गुणत्वे वाजपेयगुणवता यागेन
स्वाराज्यं भावयेदित्येवं मत्वर्थलक्षणा प्रसज्यते । मैवम् । सकृदुच्चरितस्य
यजेतेत्याख्यातस्य वाजपेयगुणे स्वाराज्यफले च तन्त्रेण
संबन्धाङ्गीकाराद्वाजपेयद्रव्येण स्वाराज्याय यजेतेत्येवमुभयसंबन्धः । ननु
गुणसंबन्धे सति वाजपेयेन गुणेन यागं कुर्यादिति यजेः कर्मकारकत्वं
भवति। फलसंबन्धे तु यागेन स्वाराज्यं संपादयेदिति करणकारकत्वम् ।
ततः कथमुभयसंबन्ध इति चेन्नायं दोषः । यजेः साधारणत्वेन
द्विरूपत्वसंभवात् । यजेतेत्यत्र प्रकृत्या याग उक्तः प्रत्ययेन भावनोक्ता ।
तयोस्तु समभिव्याहारात्संबन्धमात्रं गम्यते । तच्च कर्मत्व करणत्वयोः
साधारणम् । न खलु तत्र कर्मत्वस्यैव करणत्वस्यैव वा साक्षादभिधायिका
काचिदसाधारणविभक्तिः श्रूयतेऽतः साधारणस्य यजेरुभाभ्यां
गुणफलाभ्यां युगपत्संबन्धे सति यथोचितं संबन्धविशेषः पर्यवस्यति ।
एवं तन्त्रेण संबन्धाङ्गीकरणे वाजपेयद्रव्येण यागं कुर्यादित्यस्यार्थस्य
लभ्यमानत्वाद् गुणविधित्वेऽपि नास्ति मत्वर्थलक्षणा ।
यद्युद्भिदादिष्वप्येवं गुणविधिः स्यात्तर्हि तान्यपि वाक्यान्यत्रोदाहृत्य
तदीयः सिद्धान्तः पुनः-राक्षिप्यतामिति प्राप्ते ब्रूमः ।
यजेस्तन्त्रणोभयसंबन्धे सति विरुद्धत्रिकद्वयापत्तिः स्यात् । उपादेयत्वं
विधेयत्वं गुणत्वं चेत्येकं त्रिकम् । उद्देश्यत्वमनुवाद्यत्वं मुख्यत्वं चेत्यपरं
त्रिकम् । तत्रोद्देस्यत्वादयः स्वाराज्यफलनिष्ठाधर्मा उपादेयत्वादयस्त्रयः
साधनभूतयजिनिष्ठाः । फलमुद्दिश्य यजिरुपादीयते, फलमनूद्य
याजिर्विधीयते । फलं प्रधानं यजिरुपसर्जनम् । फलस्योद्देश्यत्वं नाम
मानसापेक्षाविषयत्वाकारः । यजेरुपादेयत्वं नामानुष्ठीयमानत्वाकारः।
तावुभौ मनःशरीरोपाधिकौ धर्मौ । अनुवाद्यत्वविधेयत्वधर्मौ तु
शब्दोपाधिकौ । ज्ञातस्य कथनमनुवादः । अज्ञातस्यानुष्ठेयस्य कथनं
विधिः । फलयागयोः साध्यसाधनरूपतया प्रधानत्वोपसर्जनत्वे । एवं

१२८ (१.३.५) तैत्तिरीयब्राह्मणम्
सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां
फलस्योद्देश्यत्वादित्रिकं यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते । तथा
यागस्य वाजपेयद्रव्यस्य च साध्यसाधनभाव- पर्यालोचनायां
यागस्योद्देश्यत्वादित्रिकं द्रव्यस्योपादेयत्वादित्रिकं पर्यवस्यति । ततो
यागस्य फलद्रव्याभ्यामुभाभ्यां प्रतियोगिभ्यां युगपत्संबन्धे सति
विरुद्धत्रिकद्वयमापद्येत् । ननु तर्हि माभूत्तन्त्रेणोभयसंबन्धः । पृथक्संबन्धाय
यजिरावर्त्यतामिति चेन्न । वाक्यभेदप्रसङ्गात् । द्रव्येण यागं कुर्यादित्येकं
वाक्यम् । यागेन फलं कुर्यादित्यपरम् । तस्माद्वाजपेयशब्दो न
गुणविधायकः किंतु यथोक्तं द्रव्यं
निमित्तीकृत्याग्निहोत्र-शब्दवत्कर्मनामधेयम् । द्वितीयाध्यायस्य
द्वितीयपादे चिन्तितम्-
आहुतीस्तिस्र इत्यत्र कर्मैक्यमुत भिन्नता ।
एकत्वं सकृदाख्यानात्संख्यावृत्त्या प्रयाजवत् ॥
आख्यातमात्रं नो मानं संख्यया बहुकर्मता ।
आवृत्त्यैकादशत्वं तु प्रयाजे गत्यभावतः ॥
पशून्सप्तदश प्राजापत्यानित्यत्र भाष्यकृत् ।
विचारमाह पूर्वत्र क्रियात्रित्वस्फुटत्वतः ॥
बहुत्वोपेतपशुभिर्देवयोगादभिन्नता ।
रूपस्य तेन कर्मैक्यं संख्या नात्र क्रियागता ॥
देवतासंगतस्यैव तद्धितार्थस्य पश्चिमः ।
बहुत्वसंगमो रूपसंख्ययाऽतः क्रियाभिदा ॥ (इति) ।
तिस्र आहुतीर्जुहोतीति श्रूयते । तत्र जुहोतीत्येतदाख्यातं समिधो
यजतीत्यादिवन्नाभ्यस्तं किंतु सकृदेवाऽऽम्नातम् । तत एकमिदं कर्म ।
त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या । यथा
प्रयाजेष्वेकादशत्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता तद्वदिति
प्राप्ते ब्रूमः । किमिदमाख्यातं पदान्तरनिरपेक्षमेव कर्मैक्ये प्रमाणम्, उत
पदान्तरान्वितम् । नाऽऽद्यः । वाक्यांशस्य पदमात्रस्य
प्रमितिजन्रकत्वाभावात् । द्वितीये त्रित्वसंख्यया विशेषितेनाऽऽख्यातेन
कर्मबहुत्वं गम्यते । प्रयाजानां तु पूर्वमेव संख्या
वरुद्धत्वादावृत्तिमन्तरेणैकादशत्वं दुःसंपादम् । इह त्वतद्धितः
पूर्वकर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम् ।
तदेतद्वृत्तिकारोदाहरणं भाष्यकारो नानुमन्यते । कर्मवाचिन
आहुतिशब्दस्य विशेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया
पूर्वपक्षानुत्थानात् इदं त्वत्रोदाजहार । सप्तदश प्राजापत्यान्पशूनालभत

तैत्तिरीयब्राह्मणम् (१.३.५) १२९
इति । अत्र प्रजापतिर्देवता येषां पशूनां त प्राजापत्या इति तद्धितव्युत्पत्तौ
बहुत्वोंपेताः पशव एकं द्रव्यम् । ततो द्रव्यैक्याद्देवताैक्याच्च यागस्य
रूपमभिन्नमित्येकमिदं कर्म । या तु सप्तदशेति संख्या सा पशुद्रव्यगता,
नतु पूर्वोदाहृतत्रित्वसंख्येव क्रियागता । तस्मान्न कर्मभेदमापदयतीति
प्राप्ते ब्रूमः । अत्र प्रजापतिर्देवता यस्य पशोः स प्राजापत्य इति तद्धितान्तं
प्रातिपदिकं व्युत्पाद्य पश्चात्तद्धितान्तप्रातिपदिकार्थस्य प्रजापतिदेवता-
विशिष्टपशोः कर्मत्वबहुत्वविवक्षायामुत्पन्ने इमे द्वितीयाविभक्ति-
बहुवचने । तत्र प्रथमभाविन्‍या द्वितीयाविभक्तेरेव
तावत्तद्धितोत्पत्तिवेलायामन्वयो नास्ति । कुतः पश्चाद्भाविनो
बहुवचनस्यान्वयः । एवं सति प्राजापत्येत्यनेन तद्धितान्तप्रातिपदि-
केनैकपशुद्रव्यकमेकदेवतोपेतं यागस्य रूपं समर्थ्यते । तादृशानां च
रूपाणां बहुत्व‍ाय बहुवचनम् । बहुत्वविशेषश्च सप्तदशेति निर्दिश्यते ।
तस्मादत्र संख्यया कर्मभेदः । एवं च सत्येमे वक्ष्यमाणं सप्तदशपशूनामै
कादशिनपशुगणविकृतित्वमुपपद्यते । पञ्चमाध्यायस्य प्रथमपादे
चिन्तितम्-
उपाकृतानां किं सप्तदशानां यूपबन्धने ।
क्रमो नास्त्यस्ति वा नास्ति नियामकविवर्जनात् ।।
आद्यसंस्कृत्यनुष्ठानं यत्क्रमेण स एव हि ।
क्रमोऽन्यत्र प्रवृत्तिस्तु क्रमस्यात्र नियमिका ।। ( इति) ।
वाजपेये सप्तदश प्राजापत्यान्पशूनालभत इति विहितानां
पशूनामुपाकरणनियोजनादयः संस्काराः कर्तव्याः। तत्रेदृशे पशावुपक्रम
ईदृशे च समाप्तिरिति नियमकारिणः शास्त्रस्याभावादेच्छिकेन
क्रमेणोपाकरणरूपः प्रथमः संस्कारोऽनुष्ठितः । उपाकृतानां यूपे नियोजनं
संस्कारान्तरं कर्तव्यम् । तदानीमीदृशः पशुः प्रथमं नियोक्तव्य इति
क्रमनियमकारिणां श्रुत्यर्थपाठानामाभावान्नास्ति क्रमनियम इति
चेन्मैवम् । उपाकरणे यः क्रमः स्वीकृतस्तस्यैव नियोजनादिसंस्कारेषु
स्वीकर्तव्यत्वाच्छ्रुत्यर्थपाठ इव प्रथमप्रवृत्तिरपिक्रमं नियन्तुमर्हति ।
प्रवृत्‍या बुद्धिस्थस्य क्रमस्य त्यागकारणाभावात् । प्रवृत्तिकक्रमस्वीकार
प्रथमपशावुपाकरणनियोजनयोः प्रथमद्वितीयसंस्कारयोर्मध्ये
पश्वन्तरेष्वनुष्ठितैः षोडशभिरेवोपाकरणपदार्थैर्व्यवधानं भवति ।
तच्चव्यवधानं सप्तदशेतिविधिबलादभ्यनुज्ञातम्। प्रवृत्तिकं क्रमं परित्यज्य
पश्वन्तराणां पूर्वनियोजनं कृत्वा पश्चात्प्रथमपशोर्यदि नियोजनं क्रियते
तदा द्वात्रिंशद्भिः पदार्थैर्व्यवधानं स्यात् । तत्तु नाभ्यनुज्ञातम् ।
तस्मात्प्रवृत्त्या क्रमो नियम्यते । तत्रैव द्वितीयपादे चिन्तितम्-

काण्डानुसमयः । अस्मिन्नपि पक्षे प्रयोगवचनचोदकाभ्यामवगतं

१३० (१.३.५) तैत्तिरीयब्राह्मणम्
वाजपेये किमेकैकपशोः सर्वसमापनम् ।
सर्वेष्वेवैकधर्मो आद्यः साहित्यसिद्धये ॥
धर्मसाहित्यमेतच्च सिद्धान्तेऽपि न हीयते ॥ (इति) ।
वाजपेये सप्तदशसु प्राजापत्येषु पशुष्वेकैकस्मिन्पशावुपाकरण-
नियोजनादि संस्काराः सर्वे समापनीयाः । तथा सति साङ्गं प्रधानं
कर्मव्यमिति प्रयोग वचनेनावगतं धर्माणां साहित्यं प्रसिध्यति ।
चोदकोऽपि धर्मसाहित्यं प्रापयति । प्रकृतावुपाकरणनियोजनादीनां
साहित्यदर्शनात् । तस्मादत्र काण्डानुसमयो न तु पदार्थानुसमय इति प्राप्ते
ब्रूमः । सप्तदश प्राजापत्यान्पशूनालभत इति वचनात्पशुसा-
हित्यमवगतम् । तत्र प्रबलं प्रत्यक्षेण पशूनित्यनेनैकशब्देन प्रापितत्वात् ।
धर्मसाहित्यं तु न प्रत्यक्षशब्देन प्रापितं किंतु प्रयोग वचनेन परिकल्प्यंते
यदैकस्मिन्प्रयोगे धर्मसाहित्यं न स्यात्तदा कतिपय धर्मवैकल्येन
साङ्गप्रधानानुष्ठानविधिर्नोपपद्येतेत्यर्थापत्तेश्चोदकेनापि विकृतौ
धर्मसाहित्यवचनमनुष्ठीयते । तदुभयं प्रत्यक्षात्पशुसाहित्यवचनाद्
दुर्बलम् । तस्माद्वैश्र्वदेवीं कृत्वा प्राजापत्यैश्चरन्तीत्यनेन
प्रत्यक्षवचनेनावगतं पशुसाहित्यमबाधितुं सर्वेषु पशुष्वेकैक
उपाकरणादिधर्मः कर्तव्य इत्येवं पदार्थानुसमयोऽभ्युपेतव्यो न तु
काण्डानुसमयः । अस्मिन्नपि पक्षे प्रयोगवचनचोदकाभ्यामवगतं
धर्मसाहित्यं न विरुध्यते । एकस्मिन्नेव प्रयोगे कृत्स्नधर्माणा-
मनुष्ठितत्वात् । दशमाध्यायस्य चतुर्थपादे चिन्तितम्--
प्राजापत्यैः पशूनां किं बाधो यद्वा समुच्चयः ।
अक्रियार्था पशूक्तिः स्याल्लिङ्गं तेनास्तु बाधनम् ॥
पशूनुद्दिश्य संख्याया देवस्य च विधौ भिदा ।
कर्मान्यत्वे ग्रहन्यायाद्रोधनाच्च समुच्चयः ॥ (इति) ।
वाजपेये श्रूयते । सप्तदश प्राजापत्यान्पशूनालभत इति । तैरेतैः
प्राकृतपशूनामाग्नेयादीनां बाधः स्यात् । कुतः पशुत्वलिङ्गात् । नहि
पशुशब्दो ग्रहशब्दवदपूर्वां विधेयक्रियां ब्रूते, येन लिङ्गत्वं हीयेतेति प्राप्ते
ब्रूमः । किमत्र प्रकृतपश्वनुवादेन सप्तदशसंख्या प्रजापतिर्देवता चेति
गुणद्वयं विधीयते, आहोस्विद्विशिष्टमन्यत्कर्म । नाऽऽद्यो वाक्यभेदापत्तेः ।
द्वितीये तु न पशुशब्दो लिङ्गम् । ततोऽत्र ग्रहन्यायो योजनीयः ।
किंचावरोधनमेवाऽऽम्नायते-“ब्रह्मवादिनो वदन्ति । नाग्निष्टोमो
नोक्थ्यः । न षोडशी नातिरात्रः । अथ कस्माद्वाजपेये सर्वे यज्ञक्रतवो
ऽवरुध्यन्त इति । पशुभिरिति ब्रूयात् । आग्नेयं पशुमालभते ।

तैत्तिरीयब्राह्मणम् · (१.३.५) १३१
अग्निष्टोममेव तेनाव॒रुन्धे॑ । ऐन्द्राग्नेनोक्थ्यम् । ऐन्द्रेण षोडशिनः स्तोत्रम् ।
सारस्वत्याऽतिरात्रम् । मारुत्या बृहतः स्तोत्रम् । एतावन्तो वै यज्ञक्रतवः ।
तान्यशुभिरेवावरुन्द्धे'' इति । अस्मिन्नवरोधनाम्नाये चोदकप्राप्ताग्नेयादि-
पशुतद्भावस्य सिद्धवदनुवादात्समुञ्चयोऽवगम्यते । एकादशाध्यायस्य
द्वितीयपादे चिन्तितम्-
प्रजापत्यवसानां किं भेदस्तन्त्रमुताग्रिमः ।
पशुभेदाद्देवपाककालैक्याच्छक्तितोऽन्तिमः ।। (इति) ।
वाजपेये सप्तदशसु प्रजापतिदेवताकेषु पशुषु तद्भेदानुसारेण
वसाहोमो भिद्यत इति चेन्मैवम् । प्रजापति एव सप्तदशानां पशूनां देवता
तथा पाकोऽपि सहैव क्रियते । प्रदानस्यापि पाक उपलक्षणम् । प्रदानेऽपि
साहित्यमस्ति . कालश्चैको याज्याया अर्धर्चान्तस्य तत्कालत्वेन
चोदकातिदेशात् । शक्यते च सह होमः तस्मात्तन्त्रम् । तत्रैव चतुर्थपादे
चिन्तितम्-
प्राजापत्येषु कुम्भ्यादेर्भेदो नो वाऽङ्गभेदतः ।
भेदो मैवमशेषाङ्गश्रपणादौ प्रभुत्वतः ।। (इति ) ।
वाजपेये सप्तदशसु प्राजापत्यपशुषु कुम्भ्याद्वयशूलस्य
वपाश्रपण्याश्च भेदः स्यात् । कुतः । तत्तत्पश्वङ्गानां भिन्नत्वात् । मैवम् ।
पश्वङ्गानां बहुत्वेऽपि प्रौढकुम्भ्यादेर्दृष्टार्थश्रपणादौ प्रभुत्वात् ।
तस्मात्तन्त्रम् । तत्रैव तृतीयपादे चिन्तितम्-
प्राजापत्यप्रचारः किमार्भवे शस्त्रिसोमतः ।
ऊर्ध्वं वा विकृतौ वोत परस्मात्सर्वसोमतः ।।
आर्भवे चोदकादुक्त्यासत्तिभ्यां तदनन्तरः ।
श्रुतिबाधस्तदा तस्मात्तृतीयो विकृतित्वतः ।।
पशवो नहि सोमस्य विकारा अविशेषतः ।
उक्तत्वात्सर्वसोमानामुपरिष्टात्प्रचर्यताम् ।। (इति) ।
वाजपेये सप्तदशप्राजापत्यपशुप्रचारस्य काले चतुर्धा संशयः । तत्र
तावदयं प्रयोगक्रमः। तृतीयसवने प्रथममार्भवः पवमानः । ततो
वैश्वदेवग्रहपर्यन्ताः शस्त्रवन्तः सोमाः । ततोऽ शस्त्रेष्ववशिष्टेषु सोमग्रहेषु
प्रचीर्णेष्वग्निष्टोमसाम ऊर्ध्वमुक्थ्यादयः सोमविकारा इति । एवं स्थिते
प्राजापत्यपशूनामार्भवकाले प्रचारः । कुतः । प्रकृतौ तस्य
पशुप्रचारकालत्वेन चोदकप्राप्तेरित्याद्यः पक्षः । उपरिष्टात्सोमानां
प्राजापत्यैश्चरन्तीति वचनेन सोमग्रहप्रचारादूर्ध्वं कालो विधीयते । यदि

१३२ (१.३.५) तैत्तिरीयब्राह्मणम्
प्रातः सवनमाध्यन्दिनसवनसोमेभ्य ऊर्ध्वत्वमार्भवकालस्यास्तीति योज्येत
तदा चोदकेनैव तत्कालप्राप्तेर्वचनमिदमनर्थकं स्यादतस्तृतीय
सवनगतसोमानामुपरीति वक्तव्यम् । यदि तत्र सर्वसोमानामुपरीति
विवक्ष्येत तदा चोदकप्राप्तः कालो विप्रकृष्यते । ततः प्रत्यासत्तये शस्त्रिणां
वैश्वदेवग्रहान्तानां सोमानामुपरीति द्वितीयः पक्षः । उपरिष्टात्सो-
मानामित्यविशेषप्रवृत्ता श्रुतिः कतिपयसोमोर्ध्वत्वविवक्षायां बाध्येत ।
तस्माच्छस्त्रवतां तद्रहितानां च सोमानामुपरिष्टादग्निष्टोमे
यज्ञायज्ञीयसाम्ना संस्थिते सति तत्प्रचारः कार्यः। तस्य
विकृतिकालत्वात्प्राजापत्यपशूनां च विकृतिरूपत्वादिति तृतीयः पक्षः ।
सोमविकाराणामेवायं कालःपशवस्तु न सोमविकारस्त-
स्मादविशेषवचनानुसारेण प्राकृतानां वैकृताना च सर्वेषां
सोमानामुपरिष्टात्प्राजापत्यपशुप्रचार इति राद्धान्तः । तत्रैव द्वितीय पादे
चिन्तितम्-
पर्यग्निकरणे त्याग आलम्भो ब्रह्मसामनि ।
कर्मशेषनिषेधश्च कर्मान्तरविधिर्भवेत् ।।
किंवोत्कर्षोऽवशिष्टस्य ह्यारण्योक्तिवदादिमः ।
अदृष्टवाक्यभेदाप्तेर्द्रव्याभावेन चान्तिमः ।। (इति) ।
वाजपेये सप्तदश प्राजापत्यान्पशून्प्रकृत्य श्रूयते-“ तान्पर्यग्निकृ-
तानुत्सृजति । ब्रह्मसाम्न्यालभते” इति । तेषु सप़्दशसु पशुषु
पर्यग्निकरणेऽनुष्ठिते सत्युत्तरकालभावी कर्मशेष उत्सर्गशब्देन
निषिध्यते । अश्वमेधे पर्यग्निकृतानारण्यानुत्सृजन्तीत्यत्र कर्मशेषनिषेधस्य
संप्रतिपन्नत्वादत्रापि तथात्वेन सप्तदश पशवः पर्यग्निकरणपर्यन्ताः
समापनीयाः । आलम्भवचनेन च ब्रह्मसामकलेकर्मान्तरं विधीयत इति
प्राप्ते ब्रूमः । कर्मान्तरविधौ सप्तदशपशुजन्यादृष्टाद्भिन्नं किंचिददृष्टं
कल्प्येत, वाक्यभेदश्च प्राप्नुयात् । किंच ब्रह्मसाम्न्यालभत इत्यत्र
द्रव्यदेवतयोरश्रवणान्न कर्मान्तरविधिः संभवति । तस्मात्पर्यग्नि-
करणानन्तरमेव कर्तव्यस्य सप्तदशपशूनामालम्भादिशेषस्य ब्रह्मसामकाल
उत्कर्षो विधीयते । तथा सत्यर्थप्राप्तः पर्यग्निकरणानन्तरभा
विकर्मशेषव्यापारोपरम उत्सर्गशब्देनानूद्यते ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
तृतीयाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥

तैत्तिरीयब्राह्मणम् (१.३.६) १३३
अथ तृतीयाध्याये षष्ठोऽनुवाकः ।
सप्तमे रथमन्त्रा वर्णिताः । अष्टमे रथस्य धावनमन्त्रा वर्ण्यन्ते ।
कल्पः- “रथमातिष्ठति-
दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना ॰वा॒ज॒जिता॒ वाजं॑ जे॒षम्”
इति ।
अतिष्ठत्यारोहेदित्यर्थः । वाजजिताऽन्नजयकारिणा बृहस्पति-
नाऽनुगृहीतोऽहं वाजं जेषमन्नं जेष्यामि ।
एतन्मन्त्रगतं बृहस्पतिशब्दं ब्राह्मणजात्यभिमानिदेवपरत्वेन
व्याचष्टे-
दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना वा॒ज॒जिता॒ वाजं॑
जे॒षमि॒त्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वाज॑मु॒ज्जय॑ति,
इति ।
कल्पः-“चात्वाले रथचक्रं निमित्तं ब्रह्माऽऽरोहति तमत
एवानुमन्त्रयते
दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना वा॒ज॒जिता॒ वर्षि॑ष्ठं॒ नाक ꣳ
रुहे॒यम् ” इति ।
निमिक्तं निखातस्य काष्ठस्याग्रे स्थापितं वर्षिष्ठमतिशयेन प्रवृद्धम् ।
पूर्वमन्त्रवद्व्याचष्टे-
दे॒वस्या॒हꣳ स॑वि॒तुः प्रस॑वे॒ बृह॒स्पति॑ना वा॒ज॒जिता॒ वर्षि॑ष्ठं
नाकँ॑रुहेय॒मित्या॑ह । स॒वि॒तृप्र॑सूत ए॒व ब्रह्म॑णा॒ वर्षि॑ष्ठं
नाकꣳ॑ रोहति, इति ।
विधत्ते-
चा॒त्वा॒ले र॒थच॒क्रं निमि॑क्तꣳ रोहति । अ॒तो वा अङ्गि॑रस
उत्त॑माः सु॑व॒र्गं लो॒कमा॑यन् । सा॒क्षादे॒वयज॑मानः सुव॒र्गं
लो॒कमै॑ति, इति ।
अत उपरिस्थिताद्रथचक्रादुत्तमा उद्गततमाः । साक्षादेवाव्यव-
धानेनैव ।

ब्राह्मणा आशीर्वादरूपं श्रुतां वाचं वदत । इन्द्रं यजमानं वाजं जापयत ।

१३४ (१.३.६) तैत्तिरीयब्राह्मणम्
विधत्ते-
आवै॑ष्टयति । वज्रो॒ वै रथः॑ वज्रे॑णैव दिशोऽभिज॑यति (१),
इति ।
ऊर्ध्वकाष्ठाग्रे स्थापितं ब्रह्मणा समारूढं रथचक्रं त्रिःप्रदक्षिणं पर्यावर्त
येत् । रथस्य वज्रांशत्वाद्वज्रत्वम् । तच्चान्यत्राऽऽम्नातम्-‘ ‘स्फ्यस्तृतीयँ
रथस्तृतीयं यूपस्तृतीयम्' अतो भ्राम्यमाणेन वज्ररूपेण रथचक्रेणैव सर्वासां
दिशां जयो भवति ।
विधत्ते-
वा॒जिनाँ॒ साम॑ गायते । अन्नं॒ वै वाजः॑। अन्न॑मे॒वाव॑रुन्धे,
इति ।
वाजिनामन्नार्थिनां सबन्धि यत्साम तद्ब्रह्मा गायेत् । अन्नपदस्तु
सामविशेषः शाखान्तरे द्रष्टव्यः । ब्रह्मण इदं गानमित्यापस्तम्बः
स्पष्टयति- “औदुम्बर ँरथचक्रं ब्रह्माऽऽरोहति तमाह । वाजिना ँसाम
गायेति तस्य चक्रं त्रिःप्रदक्षिणमावर्तयति । तत्राऽऽवर्त ( र्त्स्यः)माने ब्रह्मा
गायति ” इति ।
कल्पः-“आघ्नन्ति दुन्दुभीन्संपवदन्ति वावः संप्रवदिता
वाचोऽनुमन्त्रयते-
इन्द्रा॑य॒ वाचं॑ वद॒तेन्द्रं॒ वाजं॑ जापय॒तेन्द्रो॒ वाज॑मजयित् ” इति ।
यागलक्षणेन परमैश्वर्येण योगाद्यजमान इन्द्रस्तस्मादिन्द्राय हे सभ्या
ब्राह्मणा आशीर्वादरूपं श्रुतां वाचं वदत । इन्द्रं यजमानं वाजं जापयत ।
अन्नविषये जयं प्रापयत । अयमिन्द्रो यजमानो वाजमन्नमजयिञ्जयतु ।
सोऽयं मन्त्र आपस्तम्बेन दुन्दुभिवादने विनियुक्तः-‘ इन्द्राय वाचं वदतेति
दुन्दुभीन्सँ ह्वादयन्ति ” इति । तमेतं दन्दुभिघातं विधातुं प्रस्तौति-
वा॒चो वर्ष्म॑ दे॒वेभ्योऽपा॑क्रामत् । तद्वन॒स्पती॒न्प्रावि॑शत् ।
सैषा वाग्वन॒स्पति॑षु वदति । या दु॑न्दु॒भौ । तस्मा॑द्दुन्दुभिः
सर्वा॒ वाचोऽति॑वदति, इति ।
वाग्देवताया वर्ष्म नादात्मकं प्रधानशरीरं तस्य प्रदेशादयं दुन्दुभिः
सर्वा मनुष्यवाचोऽतिक्रम्य ध्वनिं करोति ।
विधत्ते-