सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 148, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 148

तैत्तिरीयब्राह्मणम् (१.३.४) ११९
आ॒त्मान॑मे॒व स्पृ॑णोत्यग्नि॒ष्टोमे॑न । प्रा॒णा॒पा॒नावु॒क्थ्ये॑न ।
वी॒र्यँ॑ षोड॒शिन॑: स्तोत्रे॑ण । वाच॑मतिरा॒त्रेण॑ । प्र॒जां बृ॑ह॒तः
स्तोत्रे॑ण । इ॒ममे॒व लो॒कम॒भिज॑यत्यग्नि॒ष्टोमे॑न ।
अ॒न्तरि॑क्षमुक॒थ्ये॑न (२) । सु॒वर्गं लो॒क ँषोड॒शिन॑: स्तोत्रे॒ण॑ ।
दे॒व॒याना॑ने॒व पथ॒ आरो॑हत्यतिरा॒त्रेण॑ । नाकँ॑ रोहति
बृ॒हतः॒ स्तोत्रे॑ण । तेज॑ ए॒वाऽऽत्मन्धे॑त्त आग्ने॒येन॑ प॒शुना॑ ।
ओजो॒ बल॑मैन्द्रा॒ग्नये॑न । इ॒न्द्रि॒यमै॒न्द्रेण॑ । वाचँ॑
सारस्व॒त्या । उ॒भावे॒व दे॑वलो॒कं च॑ मनुष्यलो॒कं
चा॒भिज॑यति मारु॒त्या व॒शया॑, इति ।
अत्राग्निष्टोमेनेत्यादिशब्दैस्तन्निष्पादका आग्नेयादिपशवो
विवक्षिताः । पशुविधेः प्रस्तुतत्वात् । आग्नेयेन पशूनेत्यन्तिमपर्याय (ये)
विधानाच्च ।
विधत्ते-
स॒प्तद॑श प्राजाप॒त्यान्प॒शूनाल॑भते । स॒प्तद॑शः प्र॒जाप॑तिः
(३) । प्र॒जाप॑तेरा॒प्त्यै, इति ।
तेषु पशुषु गुणद्वयं वाक्यभेदमङ्गीकृत्य विधत्ते-
श्या॒मा एक॑रूपा भवन्ति । ए॒वमि॑व॒ हि प्र॒जाप॑तिः समृ॑द्ध्यै,
इति ।
पशूनामेकरूपत्वं नामैकविधशृङ्गपुच्छादिभिर्युक्तत्वम् ।
प्रजापतिशब्देनात्रत्वरस्य हिरण्यगर्भशरीराद्यभिव्यक्तेः प्रागवस्था
विवक्ष्यते, सा चावस्था श्यामेव भवति . तम आसीत्तमसा गूढमिति
श्रुतेः। जगद्रूपस्य नानात्वस्यानुत्पत्तेरेकरूपत्वम्, एकमेवाद्वितीयमिति
श्रुतेः । पशूनां जगदीश्वरेण साम्ये सति समृद्धिर्भवति ।
प्रकृतिभूतेऽग्नीषोमीये . पशौ पर्यग्निकरणादूर्ध्वमविलम्बेना
ऽऽलम्भस्य विहितत्वात्, अत्रापि चोदकपरम्परया तत्प्राप्तौ सहसाऽऽलम्भनं
निषेधति-
तान्प॒र्य॑ग्निकृ॒तानुत्सृ॑जति, इति ।