तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 147, कुल 345 में से
संदर्भ में पढ़ें११८ (१.३.४) तैत्तिरीयब्राह्मणम्
अथ चतुर्थोऽनुवाकः ।
ग्रहावाधमतेनानुवाकेन समाप्यनुवाकान्तरेण पशून्विधातुं प्रस्तौति-
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । नाग्नि॒ष्टोमो नोक्थ्य॑ः । न षो॒ड॒शी
नाति॑रा॒त्रः । अथ॒ कस्मा॑द्वाजपे॒ये सर्वै॑ य॒ज्ञक्रत॑वोऽव॑रुध्यन्त॒
इति॑ । प॒शु॒भिरिति॑ ब्रूयात्, इति ।
यज्ञशब्देन देशत्यागरूपाः प्रयाजादयः प्रत्येकमभिधीयन्ते ।
तत्समूहरूप एव फलसाधनात्मा कर्मविशेषः क्रतुः। वेदवादिनो मिलित्वा
परस्परमेवं विचारयन्ति । यज्ञाश्च क्रतवश्च सर्वेऽपि वाजपेयेऽन्तर्भूता
इत्यस्ति प्रसिद्धिः । तत्कथमुपपद्यते । तथाहि । प्रयाजादीनां
दाक्षणीयादिद्वारा तत्रान्तर्भावेऽप्यग्निष्टोमादीनामन्तर्भावात् । तेषां
ब्रह्मवादिनां मध्ये कश्चिद् बुद्धिमानेवमुत्तरं ब्रूयात् ।
अग्निष्टोमादिगतैराग्नेयादिसवनीयपशुभिः क्रतवोऽन्तर्भूता इति ।
पशून्विधत्ते-
आ॒ग्ने॒यं प॒शुमा॑लभते । अ॒ग्नि॒ष्टोम॑मेव तेना॑वरुन्धे ।
ऐ॒न्द्रा॒ग्नि॒नोक्थ्य॑म् । ऐ॒न्द्रेण॑ षो॒ड॒शिन॑: स्तोत्र॑म् ।
सा॒र॒स्व॒त्याऽति॑रा॒त्रम् (१) । मा॒रु॒त्या बृ॒हत॑: स्तोत्र॑म् ।
ए॒ताव॑न्तो॒ वै य॒ज्ञक्रत॑वः । तान्प॒शुभि॑रे॒वाव॑रुन्ध, इति ।
आग्नेयादयोऽग्निष्टोमादीनां व्यावर्तकाः पशवः । षोडशिनो ग्रहस्य
स्तोत्रं तेन स क्रतुरुपलक्ष्यते । सारस्वती मेषी सा चातिरात्रस्य
व्यावृत्तिहेतुः । मारुती वशा तयाऽनूबन्ध्यया बृहत्सामसंबन्धि
स्तोत्रमवरुन्धे, तेन च स्तोत्रेण वाजपेय उपलक्ष्यते तस्य
चासाधारणत्वात् । तानेतान्पशुविधीन्बौधायन उदाहरति-“आश्विनं
गृहीत्वा षड्रशना आदाय यूपमभ्यैति स्वर्वन्तं
यूपमुत्सृज्याथैनान्पशूनुपाकरो-त्याग्नेयमैन्द्राग्नमैन्द्रं मारुतीं वशां सप्त दश
प्रजापत्याञ्स्यामाने-करूपान्सरस्वतीमततः” इति ।
आपस्तम्बस्त्वाग्नेयादीनां चोदकप्राप्ता-नामनुवादं मत्वा
मेषीमारुत्योर्विधिमुदाहरति- “पशुकाले त्रीन्क्रतुपशूनुपाकृत्य मारुतीं
वशामुपाकरोति सारस्वतीं च मेषीम्’ इति ।
आत्मादिप्रीतिहेतुत्वेन भूम्यादिलोकजयहेतुत्वेन तेजःप्रभृतिधारण-
हेतुत्वेन च क्रतुपशून्प्रशंसति-