सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 159, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 159

१३० (१.३.५) तैत्तिरीयब्राह्मणम्
वाजपेये किमेकैकपशोः सर्वसमापनम् ।
सर्वेष्वेवैकधर्मो आद्यः साहित्यसिद्धये ॥
धर्मसाहित्यमेतच्च सिद्धान्तेऽपि न हीयते ॥ (इति) ।
वाजपेये सप्तदशसु प्राजापत्येषु पशुष्वेकैकस्मिन्पशावुपाकरण-
नियोजनादि संस्काराः सर्वे समापनीयाः । तथा सति साङ्गं प्रधानं
कर्मव्यमिति प्रयोग वचनेनावगतं धर्माणां साहित्यं प्रसिध्यति ।
चोदकोऽपि धर्मसाहित्यं प्रापयति । प्रकृतावुपाकरणनियोजनादीनां
साहित्यदर्शनात् । तस्मादत्र काण्डानुसमयो न तु पदार्थानुसमय इति प्राप्ते
ब्रूमः । सप्तदश प्राजापत्यान्पशूनालभत इति वचनात्पशुसा-
हित्यमवगतम् । तत्र प्रबलं प्रत्यक्षेण पशूनित्यनेनैकशब्देन प्रापितत्वात् ।
धर्मसाहित्यं तु न प्रत्यक्षशब्देन प्रापितं किंतु प्रयोग वचनेन परिकल्प्यंते
यदैकस्मिन्प्रयोगे धर्मसाहित्यं न स्यात्तदा कतिपय धर्मवैकल्येन
साङ्गप्रधानानुष्ठानविधिर्नोपपद्येतेत्यर्थापत्तेश्चोदकेनापि विकृतौ
धर्मसाहित्यवचनमनुष्ठीयते । तदुभयं प्रत्यक्षात्पशुसाहित्यवचनाद्
दुर्बलम् । तस्माद्वैश्र्वदेवीं कृत्वा प्राजापत्यैश्चरन्तीत्यनेन
प्रत्यक्षवचनेनावगतं पशुसाहित्यमबाधितुं सर्वेषु पशुष्वेकैक
उपाकरणादिधर्मः कर्तव्य इत्येवं पदार्थानुसमयोऽभ्युपेतव्यो न तु
काण्डानुसमयः । अस्मिन्नपि पक्षे प्रयोगवचनचोदकाभ्यामवगतं
धर्मसाहित्यं न विरुध्यते । एकस्मिन्नेव प्रयोगे कृत्स्नधर्माणा-
मनुष्ठितत्वात् । दशमाध्यायस्य चतुर्थपादे चिन्तितम्--
प्राजापत्यैः पशूनां किं बाधो यद्वा समुच्चयः ।
अक्रियार्था पशूक्तिः स्याल्लिङ्गं तेनास्तु बाधनम् ॥
पशूनुद्दिश्य संख्याया देवस्य च विधौ भिदा ।
कर्मान्यत्वे ग्रहन्यायाद्रोधनाच्च समुच्चयः ॥ (इति) ।
वाजपेये श्रूयते । सप्तदश प्राजापत्यान्पशूनालभत इति । तैरेतैः
प्राकृतपशूनामाग्नेयादीनां बाधः स्यात् । कुतः पशुत्वलिङ्गात् । नहि
पशुशब्दो ग्रहशब्दवदपूर्वां विधेयक्रियां ब्रूते, येन लिङ्गत्वं हीयेतेति प्राप्ते
ब्रूमः । किमत्र प्रकृतपश्वनुवादेन सप्तदशसंख्या प्रजापतिर्देवता चेति
गुणद्वयं विधीयते, आहोस्विद्विशिष्टमन्यत्कर्म । नाऽऽद्यो वाक्यभेदापत्तेः ।
द्वितीये तु न पशुशब्दो लिङ्गम् । ततोऽत्र ग्रहन्यायो योजनीयः ।
किंचावरोधनमेवाऽऽम्नायते-“ब्रह्मवादिनो वदन्ति । नाग्निष्टोमो
नोक्थ्यः । न षोडशी नातिरात्रः । अथ कस्माद्वाजपेये सर्वे यज्ञक्रतवो
ऽवरुध्यन्त इति । पशुभिरिति ब्रूयात् । आग्नेयं पशुमालभते ।