सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

तैत्तिरीयब्राह्मणम् (१.२.६) ९५
गालितवृषणः । अजाश्च पेत्वाश्चाजपेत्वास्तानजपेत्वानेव पशून्पूर्वमासैरेते
यजमानाः प्राप्नुवन्ति । इदानीं विधीयमानपशुयुक्तदिनेभ्यः पूर्वेषु मासेषु
तादृशानामेव पशूनामालब्धत्वादेतेषु तु विधीयमानेषु पशुषु धेन्वादयो
गव्याः सन्ति । तदालम्भने पशूनामुभयेषां पूर्वमालब्धा-
नामजानामिदानीमालभ्यमानानां गव्यानां च प्राप्तिर्भवति ।
पुनरपि व्यतिरेकमुखेन तानेव पशून्प्रशंसति-
यद॑तिरि॒क्तामेका॑द॒शिनी॒माल॑भेरन् । अप्रि॑यं
भ्रातृ॑व्य॒म॒भ्य॑तिरिच्येत । यद् द्वौद्वौ॑ प॒शू स॒मस्ये॑युः कनी॑य॒
आयुः॑ कुर्वीरन् । यदे॒त ब्रा॑ह्म॒ण वन्त॑: प॒शव॑ आ॒लभ्य॑न्ते ।
नाप्रि॑यं भ्रातृ॑व्य॒म॒भ्य॑ति॒रिच्य॑ते । न कनी॑य॒ आयु॑: कुर्वते
(३) , इति ।
ते ए॒वाऽऽल॑भन्ते मैत्रावरु॒णीमाल॑भन्ते॒ऽवरु॑द्ध्यै स॒प्त च॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
द्वितीयाध्याये पञ्चमोऽनुवाकः ॥ ५ ॥
अतिविशिष्टेष्वपि दिनेष्वेकादशिन्येवाऽऽलब्धव्येति दुराग्रहाद्यो
मन्यते स प्रष्टव्यः किं वत्सरादूर्ध्वदिनद्वयेनातिरिक्ता
सेयमेकादशिन्यालब्धव्या किंवा चरमयोर्दिनद्वयोर्द्वौ द्वौ पशू समस्याऽऽ
लब्धव्याविति । नाऽऽद्यः । दिनातिरेके सत्यप्रियस्य
भ्रातृव्यस्याभिवृद्धिप्रसङ्गात् । न द्वितीयः । एकादशिन्या दिनसंपूर्णा (र्त्य) ·
भावेनाऽऽयुःक्षयप्रसङ्गात् । अतो दोषद्वयपरिहारायानेन ब्राह्मणेनोक्ताः
पशव आलम्भनीयाः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
द्वितीयप्रपाठके पञ्चमोऽनुवाकः ॥ ५ ॥
अथ द्वितीयप्रपाठके षष्ठोऽनुवाकः ।
पञ्चमे वैष्णवाद्या नव पशवोऽभिहिताः । अथ षष्ठे महाव्रतमुच्यते
तत्राऽऽदौ तच्छब्दनिरुक्तिद्वारेण प्रशंसति-
प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा वृ॑त्तोऽशयत । तं दे॒वा भू॒तानां॒ रसँ॑
तेज॑: सं॒भृत्य॑ । तेनै॑नमभिषज्यन् । म॒हान्वृ॒वती॑ति॑ ।

९६ (१.२.६) तैत्तिरीयब्राह्मणम्
तन्म॒हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒हद् व्र॒तमिति॑ ।
तन्म॒हाव्र॒तस्य॑ महाव्रत॒त्वम् । म॒हतो॒ व्रतमिति॑ ।
तन्म॒हाव्र॒तस्य॑ महाव्रत॒त्वम्, इति ।
प्रजासृष्टिव्यापारेण श्रान्तः प्रजापतिर्यदा शयनं कृतवांस्तदा देवाः
सर्वेषां भूतानां सारभूतं तेजः संपाद्य तेन तेजसा तमेनं श्रान्तं प्रजापतिं
चिकित्सितवन्तः । ततोऽयं प्रजापतिर्महान्भूदित्युक्तवन्तः । यदिदं रसरूपं
तेजस्तदिदं महाव्रताख्ये विद्यमानं हविः । तथा सति महानववर्तिष्ठानेन
कर्मणेति व्युत्पत्या तस्य कर्मणो महाव्रतनाम संपन्नम् । यद्वा कर्मणोऽस्य
महाफलहेतुत्वेन महत्वान्महच्चतद् व्रतमिति तद् व्युत्पत्तिः । अथवा महतः
प्रजापतेरौषधरूपत्वान्महतो व्रतमिति व्युत्पत्तिः ।
तस्मिन्महाव्रताख्येऽह्नि प्रधानभूतस्तोमं विधत्ते-
प॒ञ्च॒विँ॒शः स्तोमो॑ भवति (१) । च॒तुर्विंशत्यर्धमासः॒
सं॑वत्स॒रः । यद्वा ए॒तस्मि॑न्त्सवंत्सरेऽधि॒प्रजा॑यत । तदन्नं॑
पञ्चवि॒ ँशम॑भवत्, इति ।
एकस्मिन्सूक्ते विद्यमानानां तिसृणामृचामावृत्तिविशेषेण संपाद्यः
पञ्चविंशतिसंख्यायुक्तः स्तोमः कर्तव्यः। तत्र
चतुर्विंशतिसंख्यायाऽर्धमासद्वारेण संवत्सरसंपत्तिः। यच्चैतस्मिन्संवत्सरे-
ऽधिकमन्नमुत्पन्नं तत्पञ्चविंशतिसंख्यापूरकमभवत् ।
एवं प्रशस्तेन पञ्चविंशतिस्तोमेन युक्तस्याह्नः स्थानविशेषं विधत्ते-
म॒ध्य॒तः क्रि॑यते । म॒ध्य॒तो ह्यन्न॑मशि॒तं धि॒नोति॑ । अथो॑
मध्य॑त ए॒व प्र॒जाना॒मूर्ध॑ध्रियते, इति ।
संवत्सरस्य समाप्तिहेतोरतिरात्ररूपादन्तिमादह्नः पूर्वभावित्वेन
संवत्सरमध्ये तदनुष्ठानम् । लोकेऽपि यदन्नमशितं सन्नात्यधिकं नात्यल्पं
भवति तदेव मध्यमप्रमाणयुक्तं भोक्तारं प्रीणयति । अति च भुक्तोरसः
शरीरमध्य एव स्थाप्यते । तस्मात्संवत्सरमध्येऽनुष्ठानं प्रशस्तम् ।
तस्मिन्नपि मध्ये पुनर्विशेषेण स्थापनं विधत्ते-
अथ॒ यद्वा इ॒दम॑न्त॒तः क्रि॒यतै॑ । तस्मा॑दु॒दन्ते॑ प्र॒जाः
समै॑धन्ते । अ॒न्त॒तः क्रि॑यते प्र॒जन॑नायै॒व, इति॑ ।

तैत्तिरीयब्राह्मणम् (१.२.६) ९७
अन्तिमादतिरात्रात्पूर्वश्वःसु योऽन्तः संवत्सरस्योपान्तरूपो
देशस्तत्रैतदहः कर्तव्यम् । यद्यस्मादिदमेव महाव्रतमन्ते क्रियते
तस्माल्लोकेषूत्कृष्टस्य कृष्यादिव्यापारस्यान्ते फलदशायां प्रजाः
सम्यग्वर्धन्ते । तस्मात्प्रजावृद्ध्यर्थमितरेषामह्नामन्त एवैतत्कर्तव्यम् ।
अस्याह्नः पक्षिरूपत्वं परिकल्प्य तदवयवरूपेण स्तोमं विधत्ते-
त्रि॒वृच्छिरो॑ भवति (२)। त्रे॒धा विहि॑तं॒ हि शिर॑: । लोम॑
छ॒वीरस्थि॑, इति ।
ऋक्त्रयात्मकमेकं सूक्तं तादृशानि त्रीणि सूक्तानि त्रिवृतोऽवयवा
यस्य स्तोमस्य सोऽयं स्तोमस्त्रिवृत् । स च पक्ष्याकारस्य शिरः स्थानीयः ।
लोकेऽपि शिरस्त्रिधा निर्मितम् । लोम केशः । छवीस्त्वक् । अस्थि
प्रसिद्धम् । तदिदं शिरसस्त्रैविध्यम् ।
तस्य त्रिवृत्स्तोमस्य पञ्चदशादिस्तोमवदावृत्तगानशङ्कां
वारयितुमूर्ध्वगानं विधत्ते-
परा॑चा स्तुवन्ति । तस्मा॑त्स॒दृगे॒व । न मेद्य॑तो॒ऽनुमेद्यति॑ ।
न कृ॒श्य॒तोऽनु॑ कृश्यति, इति ।
आवृत्तिराहित्यं पराक्त्वं तादृशेन त्रिवृता स्तुतिं कुर्युः।
यस्माच्छिरःस्थानीयस्य त्रिवृत आवृत्तिर्नास्ति तस्माल्लोकेऽपि
त्रिवृत्स्थानीयं तच्छिर एक रूपमेव मेद्यतः स्थौल्यं गच्छतः शरीरस्यापि
संबन्धि भूत्वा स्वयं न मेद्यति न स्थूली भवति । तथा कृश्यतः कृशीभवतः
शरीरस्य संबन्धि भूत्वा स्वयं न कृशी भवति ।
अथ पक्षद्वयस्थानीयं स्तोमद्वयं विधत्ते-
प॒ञ्च॒द॒शौऽन्यः प॒क्षो भ॑वति । स॒प्त॒द॒शौऽन्यः॑ । तस्मा॑द्वया॑ '५
स्यन्यत॑र॒मर्ध॑म॒भिप॒र्याव॑र्तन्तै । अ॒न्य॒त॒रतो॒ हि तद्गरीयः
क्रियते॑ (३), इति ।
यस्मांद्रान्तरत एकस्मिन्पक्षरूपे सप्तदशाख्ये स्तोमे तत्स्तोत्रं
गरीयोऽधिकावृत्तिरूपम् । यस्माल्लोकेऽपि पक्षिण आकाशे गच्छन्तः
पर्यावर्तमाना दक्षिणं वामं वाऽन्यतरमर्धमभिलक्ष्य प्रवृद्धमिव कृत्वा
पर्यावर्तन्ते ।

९८ (१.२.६) तैत्तिरीयब्राह्मणम्
योऽयं पूर्वत्र विहितः पञ्चविंशः स्तोमो भवतीति तं
मध्यशरीरत्वकल्पनया प्रशंसति-
प॒ञ्च॒वि॒ꣳ॒श आ॒त्मा भ॑वति । तस्मा॑न्मध्य॒तः प॒शवो॒
वरि॑ष्ठाः, इति ।
आत्मा पक्ष्याकारस्य महाव्रतस्य मध्यशरीरम् । तस्मादयं
पञ्चविंशस्तोम इतरेभ्यस्त्रिवृदादिस्तोमेभ्यो भूयांस्तस्मात्पशवो
मध्यशरीरभागे वरिष्ठाः स्थौल्ययुक्ता दृश्यन्ते ।
अथ पुच्छस्थानीयं स्तोमन्तरं विधत्ते-
ए॒क॒वि॒ꣳ॒शं पु॒च्छम् । द्वि॒पदा॑सु स्तुवन्ति॒ प्रति॑ष्ठित्यै, इति ।
योऽयमेकविंशस्त्र्यावृत्तिरूपः स्तोमस्तत्पक्षिरूपस्य महाव्रतस्य
पुच्छम् । तंचित्स्तोमं द्विपदास्वृक्षु स्तुवन्ति । पादद्वयेन हि मनुष्याः
प्रतितिष्ठन्ति । त्रिवृदादिस्तोमानामृतविजां च समुच्चयं विधत्ते-
सर्वे॑ण स॒ह स्तु॑वन्ति । सर्वे॑ण॒ ह्यात्मना॑ऽऽत्म॒न्वी ।
स॒होत्प॑तन्ति, इति ।
योऽयं त्रिवृदादिकः पञ्चविंशान्तः स्तोमसंघस्तेन सर्वेणापि स्तुतिं
कुर्यु ऋत्विजश्च सर्वे सहैव स्तुतिं कुर्युः । यस्माल्लोके सर्वेणाऽऽत्मना
कृत्स्नेनावयववर्गसंघेन पक्षपुच्छादिना पतङ्ग आत्मन्यवयवी भवति न
त्वेकेकेनावयवेन । तस्मादत्रापि सर्वे स्तोमाः यस्माच्च लोके सर्वे पक्षिणः
सहोत्पतन्ति तस्मादत्र सर्वेऽप्यृत्विजः सहैव स्तुतिं कुर्युः । अत एव
च्छन्दोगा आमनन्ति- “सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन् ।
अध्वर्युशिरसोद्गायेत्” इत्यादिना ।
तत्र कंचिद्विशेषं विधत्ते-
एकै॑कामुच्छि॑षन्ति । आ॒त्मन्ह्यङ्गा॑नि ब॒द्धानि॑, इति ।
अध्वर्युप्रभृतयः स्वस्वस्तोत्रेण गानं कुर्वन्तः स्वकीयामन्तिमां
स्तोत्रीयामुच्छिषेयुः, न तु तया स्तुतिं कुर्युः । यतो लोके
कस्मिंश्चिदात्मन्मध्यशरीरे सर्वाण्यवयवान्तराणि बद्धानि भवन्त्यतोऽत्रापि
मध्यशरीरस्थानीयायामेकैकस्यां स्तोत्रीयायामवशेषितायामङ्गान्तराणि
तत्राऽऽ पादयितुं शक्यानि । अन्यथा निराधाराण्यङ्गानि स्युः । तां च तत्र
तत्रावशिष्टां स्तोत्रीयामुद्गाता गायेत् । अत एव च्छन्दोगैराम्नायते-“एवं

तैत्तिरीयब्राह्मणम् (१.२.६) ९९
कु॒र्यु॒रेकै॑कया स्तोत्री॑ययाऽ स्तु॒तयोद्गा॒तार॑म॒भिसमे॑युः” इत्यादिना ।
संहितायामप्यस्तुतायां गानमुद्गातृराम्नायते-“एकैकयाऽ स्तुतया समायन्ति
दिग्भ्य एवान्नाद्य ँसंभरन्ति ताभिरुद्गातोद्गायनि दिग्भ्य एवान्नाद्यं संभृत्य
तेज आत्मन्धत्ते ” इति ।
अथ हर्षहेतुव्यापारविशेषान्विधत्ते-
न वा ए॒तेन॒ सर्वः॒ पुरु॑षः (४) । यदि॑त इ॒तो लोमा॑नि द॒तो
न॒खान् . प॒रिमा॒र्दः क्रि॑यन्ते । ता॒न्येव तेन॒ प्रत्यु॑प्यन्ते, इति ।
इयत्पूर्वमुक्तमेकैकस्तोत्रीयोच्छेषणेन सर्वाण्यङ्गानिस्वात्मनि बद्धानि
भवन्तीति । तत्रायं पुरुषो लोमानीतः प्राप्तवान् । दतो दन्तानितः प्राप्तवान् ।
नखानितः प्राप्तवानिति । यदेतेन लोमदन्तादिप्राप्तिमात्रेण पुरुषः सर्वो
नैव भवति । पुरुषस्य भोगसंपूर्णत्वं नास्ति । अतो भोगः परिपूर्यते ।
परिमादः परितो हर्षहेतवो विनोदव्यापाराः कर्तव्याः ।
तैर्व्यापारैस्तान्यङ्गानि भोगपरिपूर्णानि प्रत्युप्यन्ते स्थाप्यन्ते ।
सामान्यतो व्यापारविशेषा उक्ताः । अथ विशेषाकारेणैकं विधत्ते-
औदु॑म्बर॒स्तल्पो॑ भवति । ऊर्जा अन्न॑मुदु॒म्बरः॑ । ऊर्ज॒
ए॒वान्नाद्य॒स्याव॑रुद्ध्यै, इति ।
आसंदी चौदुम्बरी कार्या । उदुम्बरस्यान्नरस-
रूपत्वात्तत्प्राप्तिर्भवति । एतच्च संहितायामप्याम्नातम्- “आसन्दीमुद्गा-
ताऽऽरोहति साम्राज्यमेव गच्छति” इति ।
अथ तल्पे कर्तव्यं विधत्ते-
यस्य॑ तल्प॒सद्य॒मन॑भिजित् ँस्यात् । स दे॒वाना॒ ँसाम्य॑क्षे ।
तल्प॒सद्य॑म॒भिज॑या॒नीति॑ तल्प॑मा॒रुह्योद्गा॑येत् ।
तल्प॒सद्य॑मे॒वाभि॒जय॑ति (५) । यस्य॑ तल्प॒सद्य॑म॒भिजित् ँ
स्यात् । स दे॒वाना॒ ँसाम्य॑क्षे । तल्प॒सद्यं॒ मा परा॑जेषी॒दि॑
तल्प॑मा॒रुह्योद्गा॑येत् । न तल्प॒सद्यं॒ परा॑जयते, इति ।
तल्पे मञ्चके सद्यं सदनमुपवेशनं तल्पसद्यम् । यद्युद्गातापूर्वं
दरिद्रः स्यात्तदा राजादियोग्येतल्पे ऽवस्थानं न प्राप्तं तादृशमुद्गाता यज्ञभूमौ
देवानां समक्षे देशेऽवस्थाय तल्पेत्यादिमन्त्रं गायेत् । तस्यायमर्थः ।

द्वितीयोऽध्यायः ॥ २ ॥

१०० (१.२.६) तैत्तिरीयब्राह्मणम्
धनिको भूत्वा तल्पेऽवस्थानं सर्वदा प्राप्तवानिति । स च तथैव प्राप्नोति ।
यद्युद्गाता पूर्वं धनिको भूत्वा तल्पावस्थानं प्राप्तवांस्तदानीमिमं मन्त्रं
पठेत् । तस्य चायमर्थः । इदं तल्पावस्थानं कदाचिदपि मा
पराजेष्यस्मिन्विषये मम पराजयो मा भूत् । कदाचिदपि मदीयं धनिकत्वं
मा विनश्यत्विति ।
अथ होतृदोला विधत्ते-
प्रेङ्खे॒ शँ ꣳ॒ सति॑ । महो॒ वै प्रेङ्खः॑ । मह॑स
ए॒वान्नाद्य॒स्याव॑रुद्ध्यै, इति ।
महस्तेजो दोलायास्तेजोहेतुत्वान्महस्त्वम् । अतस्तत्तेजसोऽन्नस्य च
प्राप्तये भवति ।
अथ व्यापारान्तरं विधत्ते-
दे॒वा॒सु॒राः संय॑त्ता आसन् । त आ॑दि॒त्ये व्याय॑च्छन्त । तं
दे॒वाः सम॑जयन् (६) । ब्रा॒ह्म॒णश्च॑ शू॒द्रश्च॑ चर्मक॒र्ते
व्याय॑च्छेते । दैव्यो॒ वै वर्णो ब्रा॑ह्म॒णः । असु॑र्यः॒ शूद्रः॑ ।
इ॒मैऽरात्सुरि॒मे सु॑भू॒तम॑क्र॒न्नित्य॑न्यत॒रो ब्रू॑यात् । इ॒म
उ॑द्वासीका॒रिण॑ इ॒मे दुर्भू॒तम॑क्र॒न्नित्य॑न्त॒रः । यदे॒वैषां॒ सुकृ॑तं
या रा॒द्धिः । तद॑न्यत॒रोऽभि॒श्रीणा॑ति । यदे॒वैषां॑ दुष्कृ॒तं या
रा॒द्धिः । तद॑न्यत॒रोऽप॑हन्ति । ब्रा॒ह्म॒णः संज॑यति ।
अ॒मुमे॒वाऽऽदि॒त्यं भ्रातृ॑व्यस्य॒ संवि॑न्दन्ते (७), इति ।
भ॒व॒ति॒ भ॒वि॒त् क्रि॒यं॒तं पु॒रु॑षं ज॒य॒त्य॒ज॒य॒ञ्ज॒य॒त्ये॒कं॑ च॒ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
द्वितीयाध्याये षष्ठोऽनुवाकः ॥ ६ ॥
उद्ग॑च्छन्॒यन्मा॑नं नवैतानि॒ सन्त॑ति॒रेक॑वि ꣳ॒शं ए॒षोऽप्र॑तिष्ठां प्र॒जाप॑ति॒र्वृतः॑
षट् । उद्ग॑न्॒यन्मां॒ 'शौचि॑ष्के॒शोऽग्न॑ स॒प्लौ नति॑ग्रा॒ह्या वै॑श्वदे॒वमाल॑भन्ते
पञ्चाश॑त् ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
द्वितीयोऽध्यायः ॥ २ ॥

ब्राह्मणः सम्यग्जयेत । तेन भ्रातृव्यस्य संबन्धिनममुमादित्यमेतं यजमानाः

तैत्तिरीयब्राह्मणम् (१.२.६) १०१
देवाश्चासुराश्चायमादित्योऽस्माकमेव भूयादिति परस्परं कलहं
कृतवन्तः। तत्र देवानां जयोऽभूत्। अतोऽद्यापि वेदिमध्ये ब्राह्मणो बहिः
शूद्रश्चावस्थाय किंचिदार्द्रं चर्म परिमण्डलाकारं गृहीत्वा तद्विषये कलहं
कुर्याताम् । तत्र देवस्वरूपो ब्राह्मणः। असुरस्वरूपः शूद्रः।
तस्मिन्कलहावसर इमंऽरात्सुरिति मन्त्रं ब्राह्मणो ब्रूयात् । तस्यायमर्थः इमे
यजमानाः सत्रे समृद्धिं गताः शोभनं कर्म कृतवन्त इति । शूद्रस्तु मंत्रान्तरं
ब्रूयात् । तस्यायमर्थः । इमे यजमानाः कर्मव्याजेन धनहानिं कृत्वा
देशमेतमुद्वासं निवासशून्यं कुर्वन्ति । तस्मादिमे दुर्व्यापारं कृतवन्त इति ।
ए॒वं स॒त्ये॒षां यजमानानां यत्सुकृतं॒ प॒रलोकहि॒तं या चे॒ह लो॒कं
समृद्धिस्तदुभयमन्यतरो॒ ब्राह्म॑णः॒ सं॒पादयति॒ । यद॒न्यत्किंचि॒
त्प्रमादकृतमेषां दुष्कृतं या चैषामसमृद्धिर्दारिद्रयरूपा तदुभयमन्यतरःशूद्रो
विनाशयति । निन्दाजनितेन हि रूपेण पापफलं सर्वमनुभूतम् । तत्र कलहं
ब्राह्मणः सम्यग्जयेत । तेन भ्रातृव्यस्य संबन्धिनममुमादित्यमेतं यजमानाः
सम्यगलभन्ते ।
अस्य प्रपाठकस्यानुवाकार्थसंग्रह -
आधानमन्त्रा आद्ये स्युर्नवाहानि द्वितीयेके ।
गवामयनगानि स्युरतिग्राह्यास्तृतीयेके ।। १ ।।
दिवाकीर्त्यानि तुर्ये स्युः पञ्चमे पशवः श्रुताः ।
महाव्रतं तु पृष्ठे स्यात्प्रपाठक उदीरितः ।। २ ।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।। ३ ।।
इति श्रीमत्सायणाचार्यविरचिते माधवीयवेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
द्वितीयप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।
इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधरश्रीमत्सायणाचार्यविरचिते माधवीये
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये
प्रथमकाण्डे द्वितीयः प्रपाठकः समाप्तः ।। २ ।।
(मूलक्रमेण-अष्ट. १ अध्या. २ अनु. ६ (१६) ।
(भाष्यक्रमेण-का. १ प्रपा. २ अनु. ६ (१६) ।

१०२ (१.३.१) तैत्तिरीयब्राह्मणम्
अथ तृतीयप्रपाठकारम्भः ।
तत्र प्रथमोऽनुवाकः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
गवामयनमाख्यातं द्वितीये हि प्रपाठके ।
यदनुक्तं संहितायां तत्सर्वमिह वर्णितम् ॥ २ ॥
तृतीय वाजपेयस्य ब्राह्मणं समुदीर्यते ।
दशानुवाकास्तेषु स्युः पुनराधानमादिमे ।
स्यात्पिण्डपितृयज्ञोऽन्ते वाजपेयस्तु मध्यतः ॥ ३ ॥
यत्संहितायामाख्यातं पुनराधानमत्र तु ।
तस्योक्तस्यानुवादेन विशेषः कोऽपि वर्ण्यते ॥ ४ ॥
वाजपेयस्य मन्त्रास्तु संहितायामुदीरिताः ।
मध्यवर्त्यनुवाकेषु तद्व्याख्यानमिहेर्यते ॥ ५ ॥
द्वितीये वाजपेयस्य विधिस्तस्य ग्रहाः परे ।
चतुर्थे पशवः प्रोक्ताः पञ्चमे रथयोजनम् ॥ ६ ॥
मर्यादाधावनं षष्ठे यूपारोहणमुत्तरे ।
अष्टमे त्वभिषेकः स्यादतिग्राह्यास्त्वनन्तरे ॥ ७ ॥
नवमान्ता द्वितीयाद्या वाजपेयावबोधिनः ।
यः पिण्डपितृयज्ञोऽसौ दशमे स्पष्टमीरितः ॥ ८ ॥
तृतीयस्यानुवाकार्था इत्येवं समुदीरिताः ।
वाजपेयब्राह्मणार्था मन्त्रैः सह पुरेरिताः ।
आद्यन्तावनुवाकौ तौ व्याख्यास्येते इह क्रमात् ॥ ९ ॥
तत्राऽऽद्येऽनुवाके पुनराधेयगतयोराज्यभागयोर्विशेषं
विधातुमादावुपाख्यायिकामाह-
दे॒वा॒सु॒राः संय॑त्ता आसन् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ ।
अ॒ग्नीषोम॑योस्तेज॑स्विनीस्त॒नूः संन्य॑दधत । इ॒दमु॑ नो

तैत्तिरीयब्राह्मणम् (१.३.१) १०३
भ॑विष्य॒ति । यदि॑ नो जे॒ष्यन्तीति॑ ।
तेना॑ग्नीषो॒मावपा॑क्रामताम् । ते दे॒वा वि॒जित्य॑ ।
अ॒ग्नीषोमा॒वन्वै॑च्छन् । तैऽग्निमन्व॑विन्दन्नृतूषूत्स॑न्नम् ।
तस्य॒ विभ॑क्तीभिस्तेज॑स्विनीस्त॒नूरवा॑रुन्धत (१) । ते
सो॒ममन्व॑विन्दन् । तम॑घ्नन् । तस्य॑ यथाभि॒ज्ञाय॑
त॒नूर्व्य॑गृह्णात । ते ग्रहा॑ अभवन् । तद्ग्रहा॑णां ग्रह॒त्वम् ।
य॒स्यै॒वंवि॒दुषो॒ ग्रहा॑ गृह्यन्तै । तस्य॒ त्वै॒व गृ॑ही॒ताः, इति ।
यदा देवाश्चासुराश्च युद्धाद्युक्तास्तदा देवा विजयं प्राप्तुकामाः
स्वकीया-स्तेजस्विनीस्तनूरग्नीषोमयोः स्थापितवन्तः । तनुशब्देन
शरीरवत्प्रियभूतधनमुपलक्ष्यते । तयोर्धनस्थापयतां देवानामयमभिप्रायः ।
यदि कथंचिदस्मान्यदाऽसुरा जेष्यन्ति तदानीमिदमेव धनमस्माकं
जीवनाय भविष्यतीति । ततः स्थापितेन तेन धनेन सह तावग्नीषोमौ
पलायनमकुरुताम् । देवाः पुण्यवशेन विजयं प्राप्य
सर्वत्राग्नीषोमावन्विष्य क्वचिदृतुषु वेष्माच्छाद्यावस्थितमग्निमलभन्त ।
ऋतूनां बलमवष्टभ्यावस्थितत्वादब्लाद् ग्रहीतुमशक्ता
देवास्तस्याग्नेरुत्कोचरूपेण चतस्रो विभक्तीर्दत्वा स्वकीयास्तनूर्धनरूपाः
स्वीकृतवन्तः । ताश्च विभक्तयः सूत्रे
स्पष्टमुदाहृताः-“अग्नेऽग्नऽग्नावग्नेऽग्निनाऽग्नेऽग्निमग्ने” इति चतुर्षु
प्रयाजेषु चतस्रो विभक्तीर्ददाति ” इति । “समिधोऽग्न आज्यस्य वियन्तु
तनूनपादग्न आज्यस्य वेतु” इत्याद्यासु प्रयाजयाज्यासु संबुद्ध्यन्ता
अग्निशब्दा आम्नाताः । तेभ्यः पुरस्तात्क्रमेण
संबुद्धिसप्तमीतृतीयाद्वितीयाविभक्त्यन्ता अग्निशब्दाः प्रयुक्ताः । तेन
तृप्तोऽग्निस्तदीयास्तनूर्दत्तवान् । अथ ते देवाः सोममन्विष्य लब्ध्वा तं
ताडयित्वा तस्य सकाशात्स्वकीयास्तनूस्तत्तल्लक्षणेन सम्यगभिज्ञाय
यथायथं गृहीतवन्तः । ते च तनुसमाना द्रव्यविशेषा ऐन्द्रवायवादिग्रहा
अभवन् । देवैर्गृह्यन्त इति व्युत्पत्या ग्रहनाम संपन्नम् । यो यजमानस्तादृशं
महिमानं विद्वान्गृह्णाति तस्यैव ग्रहा यथाशास्त्रं गृहीता भवन्ति ।
अथ यथोक्तविभक्तिविधिं मनसि निधाय तं विधिमुन्नेतुमुपोद्-
घातमाह-

द्वितीयोऽप्याग्नेयः कर्तव्यः ।

१०४ (१.३.१) तैत्तिरीयब्राह्मणम्
नाना॑ग्ने॒यं पु॑नरा॒धेये॑ कुर्यात् । यदना॑ग्ने॒यं पु॑नरा॒धेये॑ कु॒र्यात्
व्यू॑द्धमे॒व तत् (२) । अना॑ग्ने॒यं वा ए॒तत्क्रि॑यते ।
यत्स॒मिध॒स्तनूनपा॑तम॒िडो ब॒र्हिर्यज॑ति, इति ।
यत्पुनराधेयं तस्मिन्ननाग्नेयं न कुर्यात् । अत एव
सूत्रकारेणोक्तम्-“सर्वमाग्नेयं भवति” इति । अनाग्नेयकरणे पुनराधेयस्य
समृद्धिहेतुत्वं न स्यात् । क्रियते चात्र समिदादिषु चतुर्षु
प्रयाजेष्वनाग्नेयम् । तन्मन्त्रेषु देवतान्तराणां समिदादीनां श्रूयमाणत्वात् ।
सोऽयमाक्षेपस्वरूप उपोद्घातः । अत्र प्रयाजानां चतुर्णामाग्नेयत्वसंपादनाय
यथोक्तविभक्तीः कुर्यादिति विधिरुन्नेयः । प्रत्यक्षविधिश्च
संहितायामाम्नातः-“ विभक्तयो॑ भवन्ति वाच विधृत्यै ” इति ।
इदानीमाज्यभागयोर्विशेषं विधत्ते-
उ॒भावा॑ग्ने॒यावा॑ज्यभा॒गौ स्या॑ताम्, इति ।
प्रकृतावाद्य आज्यभाग आग्नेयः । द्वितीयः सौम्यः । अत्र तु
द्वितीयोऽप्याग्नेयः कर्तव्यः ।
अत्रैका परं विशेषं विधत्ते-
अना॑ज्यभा॒गौ भव॑त॒ इत्या॑हुः । यदु॒भावा॑ग्ने॒या-
वन्व॒ञ्चाविति॑ । अ॒ग्नये॑ पव॑मानायोत्त॒रः स्या॑त् ।
यत्पव॑मानाय । तेनाऽऽ ज्यभागः॑ । तेन॑ सौ॒म्यः, इति ।
अत्र केचिदभिज्ञा एवमाक्षिपन्ति । यद्युभावप्याज्यभागा-
वन्वञ्चावव्यवहितावाग्नेयावेव कुर्यात्तदानीमेतावाज्यभागावेव न
भवतः । सौम्यस्याननुष्ठितत्वात् । सौम्यो हि सोपपत्तिकः प्रकृतावेवं
विहितः-“देवलो॒कं वाऽग्नि॒नायजमानोऽनु॑पश्यति पितृलो॒क
सोमे॑नोत्तरार्धेऽग्नये जुहोति दक्षिणार्धे सोमायेवेति तस्मादुत्तरः सौम्यः
कर्तव्यः” इति । अस्मिन्पक्षेऽभिज्ञस्यैवमुत्तरम्- अनाग्नानेय-
त्वमसौम्यत्वं चेति दोषद्वयं वारयितुं पवमानायाग्नय उत्तर आज्य भागः
कर्तव्यः । तत्राग्निः प्रत्यक्षमेव श्रूयते । पवमानविशेषणेन तु
केवलाग्नेयत्वदोषवारणादाज्यभागत्वं सिध्यति । तावता
सौम्यत्वमुपचरणीयम् “अग्न आयूँषि पवसे” इत्यस्यां पुरोनुवाक्यायां
कृतायामग्नये पवमानायायमुत्तर आज्यभागः स्यादिति तात्पर्यार्थः ।

तैत्तिरीयब्राह्मणम् (१.३.१) १०५
प्रथमस्याऽऽज्यभागस्य प्राकृतीं पुरोनुवाक्यां बाधितुमन्यां विधत्ते-
बुधन्न्वत्याग्ने॒यस्या॑ऽऽज्यभा॒गस्य॑ पुरोनुवा॒क्या॑ भवति ।
(३) । यथा॑ सु॒प्तं बोध॑यति । ता॒दृगे॒व तत्, इति ।
बुधिधातुर्यस्यामृच्यस्ति सेयं बुधन्वन्ती । तस्यां स्थिमाणायां यथा
लोके सुप्तं पुरुषं बोधयति तादृशमेव तद्भवति । अत्र सूत्रम्-“अग्नि ँ
स्तोमेन बोधयत्याग्नेयस्यऽऽज्यभागस्य पुरोनुवाक्या भवत्यग्न आयूँषि
पवस इति सौम्यस्व ” इति ।
पत्नीसंयाजमन्त्रेषु विशेषं विधत्ते-
अ॒ग्निन्य॑क्ताः पत्नीसंया॒जाना॒मृच॑ः स्युः । तेना॑ऽऽग्ने॒य ँसर्वं॑
भवति, इति ।
अग्निपदेन युक्ता अग्निन्यक्ताः । “आप्यायस्व समेतु ते विश्वतः
सोमवृष्णियम्” इत्येषा प्रथमस्य पत्नीसंयाजस्य पुरोनुवाक्या । तत्र
सोमाग्नेऽग्नियुक्तत्वम् । यथा समिदादिप्रयाजेष्वग्निशब्दवत्
विभक्तिप्रयोगेणाऽऽग्नेयत्वमेवं पत्नीसंयाजानामप्याग्नेयत्वं संपद्यते ।
अत्र चोद्यवादिनामाक्षेपं दर्शयति-
ए॒क॒धा तैज॑स्विनीं दे॒वता॒मुपै॑ती त्या॑हुः । सैन॑मीश्व॒रा प्र॒दह॑
इति॑, इति ।
तेजोधिकां देवतां वः पुमानेकधोपेति नैरन्तर्येण सेवते सा देवता
तमेनं प्रदग्धुं समर्था भवति । तस्मात्पूर्वोक्तमग्निन्यक्तत्वं न
कार्यमित्याक्षेपः । तस्योत्तरं दर्शयति-
नेति॑ ब्रूयात् । प्र॒जन॑नं॒ वा अ॒ग्निः । प्र॒जन॑नमे॒वोपैतीति॑,
इति ।
नास्ति प्रदाह इत्येवमुत्तरं ब्रूयात् । अग्नेर्विरोधिदाहकत्वेऽपि
स्वकीयसेवकं प्रति प्रजननेनानुग्राहकत्वान्निरन्तरमग्निं सेवमानः
प्रजोत्पत्तिपदं प्राप्नोतीति ।
अत्र चोदकप्राप्तान्संभारानाधानमन्त्रांश्च पूर्वपक्षरूपेण निराचष्टे-

१०६ (१.३.१) तैत्तिरीयब्राह्मणम्
कृ॒तर्य॑जुः संभृ॑तसंभा॒र् इत्या॑हुः (४) । न संभृ॑त्याः
संभा॒राः । न यजु॑: का॒र्य॒मिति॑, इति ।
यजुः शब्देन धर्मः शिर इत्याद्या आधानमन्त्रा विवक्षिताः ।
संभारशब्देन सिकतादिसप्तमृद्विशेषा अश्वत्थौदुम्बरादिसप्त-
वानस्पत्यविशेषाश्च विवक्षिताः। प्रथमाधाने यजुषामुच्चरितत्वात्संभाराणां
च संपादितत्वादस्यापि पुनराधेयस्याऽऽधानादत्यन्तभेदाभावेन यजुः
संभारयोः सिद्धत्वात्तदुभयं पुनर्न कर्तव्यमिति पूर्वः पक्षः । सिद्धान्तमाह-
अथो॒ खलु॑ । संभृ॒त्या॑ एव संभा॒राः । कार्यं॒ यजु॑: ।
पु॒न॒रोध॒स्य॒ समृ॑द्ध्यै, इति ।
अथोशब्देन पूर्वपक्षो निवर्तते । यद्यप्ययमर्थः
संहितायामुक्तस्तथाऽप्यस्यानुवाकस्य तच्छेषत्वद्यो॑तनाय पुनरनुवादः ।
अन्यं विशेषं विधत्ते-
तेनों॑पा॒ꣳ॒शु प्र॑चरति । ए॒ष्य॑ इव वा ए॒षः । यत्पु॑नराधे॒यः ।
यथो॑पा॒ꣳ॒शु मृ॒गमिच्छ॑ति (५)। ता॒दृगे॒व तत्, इति ।
तेन पुनराधेयेनाव्यक्तशब्दं यथा भवति तथाऽनुतिष्ठेत् । तत्रायं हेतुः ।
योऽयं पुनराधेयः स एव पुनरन्वेषणीय इव भवति । आधानेन
संपादितस्याग्नेरुद्वासनेन विनाशे सति पुनः संपादनाय प्रवृत्तत्वात् । अत
एव पुनराधेयविधिरैवमाम्नातः-“उद्वास्य पुनरादधीत” इति । अत्रान्वेषणे
दृष्टान्तः । यथा लोके स्वगृहे चौरैरपहृतं नष्टं वस्तु चौरगृहेऽन्विच्छन्पुरुषो
हस्तपादादि शब्दो यथा नोत्तिष्ठेत् तथैवान्विच्छति तादृगेव तद् द्रष्टव्यम् ।
विशेषान्तरं विधत्ते-
उ॒च्चैः स्वि॑ष्ट॒कृत॒मुत्सृ॑जति । यथा॑ न॒ष्टं वि॒त्वा
प्राहा॒यमिति॑ । ता॒दृगे॒व तत्, इति ।
स्विष्टकृद्विषयं मन्त्रमुच्चैरुच्चारयेत् । यथा लोके नष्टं वस्तु
प्रच्छन्नवेषणान्विष्य कथंचित्तल्लब्ध्वा सर्वेषामग्रे मदीयोऽयं पदार्थ

तैत्तिरीयब्राह्मणम् (१.३.१) १०७
इत्येवं प्रकाशयति तद्देव तत् । तदेतत्सूत्रकार आह-
“साभिषेनीप्रभृत्युपांशु यजत्योत्तमादनूयाजादुच्चैः स्विष्टकृतम् ” इति ।
ये पूर्वपक्षवादिनः सर्वाग्नेयत्वसिद्धान्तपक्षं दूषयन्तः स्वमतं
पूर्वपक्षत्वेनोपन्यस्य परैर्निराकृतास्त एव वादिनः पुनरपि स्वकीयं मतं
दृढीकृत्य सर्वाग्नेयत्वपक्षं दूषयन्ति तेषां मतमाह-
ए॒कधा तैज॑स्विनीं दे॒वता॒मुपैतीत्या॑हुः । सैन॑मीश्व॒रा प्रद॑ह॒
इति॑ । तत्तथा॒ नोपै॑ति । प्र॒या॒जा॒नू॒या॒जेष्वे॑व विभ॑क्तीः
कुर्यात् । यथा॑पू॒र्वमाज्य॑भागौ स्याता॑म् । ए॒वं
पत्नीसंया॒जाः । तद्वै॑ श्वानरव॑त्प्र॒जनन॑वत्त॒रमुपैतीति॑, इति ।
अग्नेर्दाहकत्वात्सर्वमाग्नेयं कर्म प्रदाहायैव स्यात् । तत्पुनराधेयं
तथा नोपेति । सर्वमाग्नेयं न कुर्यात् । किं तु प्रयाजानूयाजेष्वेवाग्निविषयां
विभक्तीःकुर्यात् । तत्र प्रयाजविभक्तय आपस्तम्बोक्ताः पूर्वं दर्शिताः
अनूयाजविभक्तिद्वयं त्वाश्वलायनेनोक्तम्--“देवं बर्हिरग्ने वसुवने
वसुधेयस्य वेतु देवो नराशंसोऽग्नौ वसुधेयस्य वेतु” इति ।
एवमुभयत्रैवाग्निविभक्तीः कृत्वा यावाज्यभागौ ये च पत्नीसंयाजस्ते सर्वे
प्रकृतिवदेवानुष्ठेया न स्वाग्नेयत्वाय तत्र प्रयतितव्यम् । एवं सति
तत्पुनराधेयकर्माग्निविषयविभक्ति सद्भावा द्वैश्वानरवदग्नियुक्तगत
एवातिशयेन प्रजननवच्च कृतं भवतीत्येवं स्वमतदार्ढ्यं संपादितम् ।
अत्र सर्वाग्नेयत्वादिनां चोद्यमुद्भावयति-
तदा॑हुः । व्यृ॑द्धं वा ए॒तत् । अना॑ग्नेयं॒ वा ए॒तत्क्रिय॑त इति॑,
इति ।
द्वितीयाज्यभागस्याऽऽग्नेयत्वं पत्नीसंयाजानां चाग्निव्यक्तत्वं यदि न
क्रियते तदानीमेतत्पुनराधेयमनाग्नेयं स्यात् ।
एतच्च समृद्धिहीनमिति वादिनां चोद्यं तस्योत्तरमाह-
नेति॑ ब्रूयात् । अग्निं प्रथ॒मं विभ॑क्तीनां यजति । अ॒ग्निमु॑त्त॒मं
पत्नी॑संया॒जानाम्॑ । तेना॑ऽऽग्ने॒यम् । तेन॒ समृ॑द्धं क्रियत॒ इति॑
(६), इति ।

१०८ (१.३.१) तैत्तिरीयब्राह्मणम्
अरु॑न्धतै॒व तद्दे॒वति॑ संभृतसंभा॒र इत्या॑हु॒र्ऋच्छ॑ति पत्नीसंया॒जा नव॑
च ।
इति कृष्णयजुर्वेदीयतैत्तिरीब्राह्मणे प्रथमाष्टके
तृतीयाध्याये प्रथमोऽनुवाकः ॥ १ ॥
एतत्पुनराधेयमस्मदुक्तप्रकारेणाऽऽज्यभागयोः पत्नीसंयाजानां च
यथा पूर्वत्वेऽपि समृद्धिहीनं न भवतीत्युत्तरं ब्रूयात् । कथमिति तदुच्यते ।
प्रथमं यागादौ प्रयाजगतविभक्तीनां संबन्धित्वादग्निर्यष्टव्यः । अवसाने
च पत्नी संयोजेषूत्तममग्निं यजेत् । तत्र च-“अग्निर्होता गृहपतिः”
इत्याग्नेयो मन्त्र आम्नातः . अत्र आद्यन्तयोराग्नेयत्वेन तन्मध्यपतितं
सर्वमाग्नेयं संपद्यते । तेन पुनराधेयं समृद्धं कुरुते ।
अत्र मीमांसा । दशमाध्यायस्य चतुर्थपादे चिन्तितम्-
बुधन्वत्तादिगुणको देवो वाच्योऽथ केवलः ।
आद्यो देवगुणत्वेन मैवं मन्त्रगुणत्वतः ॥ (इति) ।
आधाने पवमानेष्टिष्वाज्यभागौ प्रकृत्य श्रूयते-“ बुधन्वानाग्नेयः
कार्यः पाक्वान्सौम्यः” इति । तथा पुनराधेयेऽपि श्रूयत-
“बुधन्वत्याग्नेयस्याऽऽ ज्यभागस्य पुरोनुवाक्या भवति” इति । अत्र
निगमेषु “ बुधन्वन्तमग्निमावह पावकवन्तं सोममावह” इत्येवं सगुणो
देवो वक्तव्यः । कुतः । बुधन्वत्तादेर्देवगणत्वात् । तथा हि ।
बुधशब्दोऽस्यास्तीति बुधन्वान् । न खल्वाज्यभागस्य देवताद्वारेण विना
साक्षाद् बुधशब्दत्वं संभवति । तस्मादेव गुणत्वात्सगुणो देवो वक्तव्यः ।
मैवम् । बुधन्वत्तादेर्मन्त्रगुणत्वात् । न ह्यत्राऽऽ ग्नेयशब्दो यागपरः । किं
तु मन्त्रपरः । संभवति हि मन्त्रस्य साक्षादेव बुधशब्दप्रयोगः “अग्नि ँ
स्तोमेन बोधय” इत्यस्मिन्मन्त्रे बुधिधातोः प्रयुक्तत्वात् । बुधन्वता विधिना
चाऽऽग्नेयं मन्त्रान्तरं निवर्त्यते । न च तद्धितान्त आग्नेयपद उपसर्जनभूतो
देवतावाचकोऽग्निशब्दो बुधन्वच्छब्देन विशेष्टुमर्हति ।
तस्मात्केवलोऽग्निशब्दो निगमे पठितव्यः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
तृतीयप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥

तैत्तिरीयब्राह्मणम् (१.३.२) १०९
अथ तृतीयप्रपाठके द्वितीयोऽनुवाकः ।
प्रथमेऽनुवाके पुनराधेयशेषोऽभिहितः । द्वितीयमारभ्य नवमान्ते
षट्‍स्वनुवाकेषु यद्वाजपेयब्राह्मणमाम्नातं तस्य संहितायां प्रथमकाण्डे
सप्तमे प्रपाठके समाम्नातैर्मन्त्रैः सहास्माभिर्व्याख्यातत्वात्तत्रैवाक्षरार्थो
द्रष्टव्यः । तात्पर्यं त्वनुवाकानामिहैवादौ संगृहीतम् ।
(इत्थं षट्‍स्वनुवाकेषु दार्शिकयाजमानब्राह्मणशेषो वर्णितः। अथ
देव सवितः प्रसुवेत्यादिषु षट्सु वाजपेयविषया आध्वर्यवमन्त्रा
उच्यन्ते । तत्रास्मिन्सप्तमेऽनुवाके रथविषया मन्त्राः कथ्यन्ते । तेषां
वाजपेयमन्त्राणां व्याख्यानं ब्राह्मणग्रन्थप्रथमकाण्डे तृतीयप्रपाठके
द्वितीयमारभ्य नवमान्तेषट्स्वनुवाकेष्वाम्नातम् । तत्र
वाजपेयविधिर्ग्रहविधिः पञ्चविधिश्चाऽऽद्येषु त्रिष्वनुवाकेषु
क्रमेणाऽऽम्नातः । अनयोर्वाजपेयविषययोर्मन्त्रब्राह्मणयोरत्यन्तविप्रकृष्ट-
देशवर्तित्वेन बुद्धिसंनिध्याभावाच्छ्रोतॄणां प्रतिपत्तिसौकर्याय
पूर्वोक्तदार्शिक सौमिककाण्डवद्ब्राह्मणेन सहैव मन्त्रा व्याख्यायन्ते । तत्र
च ब्राह्मणप्रथमानुवाके वाजपेयं विधातुं प्रस्तौति-
दे॒वा वै यथा॑दर्शं य॒ज्ञानाह॑रन्त । यो॑ऽग्नि॒ष्टोम॑म् । य
उ॒क्थ्य॑म् । यो॑ऽति॑रा॒त्रम् । ते स॒हैव सर्वे॑ वाज॑पेय॒मप॑श्यन् ।
ते । अ॒न्यो॒न्यस्मै॒ नाति॑ष्ठन्त । अ॒हम॒नेन॑ यजा॒ इति॑ ।
तेऽब्रुवन् । आ॒जिम॒स्य धा॑वा॒मेति॑ (१) । तस्मि॒न्नाजिं॒
म॑धावन् । तं बृह॒स्पति॒रुद॑जयत् । तेना॑यजत । स
स्वा॒रा॒ज्यम॑गच्छत् । तमिन्द्रोऽब्रवीत् । माम॒नेन॑ याज॒येति॑ ।
तेनेन्द्र॑मयाजयत् । सोऽग्रं॑ दे॒वता॑नां॒ पर्यै॑त् ।
अग॑च्छत्स्वा॒रा॒ज्य॑म् । अति॑ष्ठन्तास्मै॒ ज्यैष्ठ्या॑य (२), इति॑ ।
देवानां मध्ये कश्चिदग्निष्टोमं ददर्श । अन्य उक्थमपरोऽतिरात्रम् ।
ते च स्वस्वदर्शनमनतिक्रम्य तान्यज्ञानाहरन्तानुष्ठितवन्तः । ते देवाः सर्वे
सहैव वाजपेयं दृष्ट्वाऽहमेव प्रथमेन वाजपेयेन यथा इत्येवं विवदमानाः
परस्परं प्रथमानुष्ठातृत्वलक्षणाय ज्यैष्ठ्याय नातिष्ठन्त ज्यैष्ठ्यं नाङ्गी
चक्रुः । ततः एव समयं चक्रुरस्माकं मध्य आजिं धावनेन यः कश्चिज्जयति
स इति ज्येष्ठोऽस्त्विति । आजिर्धावनप्रदेशस्यावधिर्भूतविशेषः । एवं समर्थ
कृत्वा तस्मिन्वाजपेये विषये विजयायाऽऽ जिमधावन् । तत्र तं वाजपेयं
प्रति धावन्वृहस्पतिरुत्कर्षेणाजयत् । इतरेभ्यः प्रतमयंवधिं पस्पर्ध । ततः

११० (१.३.२) तैत्तिरीयब्राह्मणम्
प्रथमं स एव तेन वाजपेयेनेष्ट्वा स्वाराज्यमपारतन्त्र्यरूपं माहाराज्यमगच्छत्
तत इन्द्रस्तं बृहस्पतिं संप्राप्य तेन वाजपेयेनेष्ट्वा देवानां मध्ये ज्येष्ठत्वं
पारतन्त्र्येण स्वर्गाधिपत्यलक्षणस्वाराज्यं चागच्छत् । अस्येन्द्रस्य
ज्यैष्ठ्यमितरे सर्वे देवा मात्सर्यं परित्यज्याङ्गीचक्रुः ।
य ए॒वं वि॒द्वान्वा॑जपे॒येन॒ यज॑ते । गच्छ॑ति॒ स्वारा॑ज्यम् ।
अग्रँ॑ समा॒नानां॒ पर्ये॑ति । तिष्ठ॑न्तेऽस्मै॒ ज्यैष्ठ्या॑य, इति ।
अधिकारविशेषविधिमुन्नयति-
स वा ए॒ष ब्रा॑ह्म॒णस्य॑ चैव राज॒न्य॑स्य च य॒ज्ञः, इति ।
स बृहस्पतिनाऽनुष्ठितः । एष इन्द्रेणानुष्ठितः देवानां मध्ये बृहस्पतिर्ब्रा
ह्मणजात्यभिमानी, इन्द्रः क्षत्रियजात्याभिमानी, ताभ्यामेवानुष्ठितत्वा-
न्मनुष्येष्वपि ब्राह्मणराजन्ययोरेवात्राधिकारो नतु वैश्यस्य । अत वाऽ
ऽपस्तम्ब आह-"शरदि वाजपेयेन यजेत् ब्राह्मणो राजन्यो वर्द्धिकामः"
इति ।
नामनिर्वचनं दर्शयति-
तं वा ए॒तं वाज॑पेय॒ इत्या॑हुः । वा॒जाप्यो॒ वा ए॒षः । वाजँ॒
ह्ये॑तेन॑ दे॒वा ऐप्सन्॑, इति ।
वाजो देवान्नस्वरूपः सोमः पेयो यस्मिन्यागे स वाजपेय इत्येकं
निर्वचनम् । यस्मादेतेन यज्ञेन देवा वाजं फलरूपमन्नप्राप्तु-
मैच्छंस्तस्मादन्नरूपो वाजः पेयः प्राप्यो येन स वाजपेय
इत्यपरनिर्वचनम् ।
सोमस्यैतद्यागसाधनत्वातदभेदेन यागं तद्धेनं च स्तौति-
सोमो॒ वै वाज॑पेयः । यो वै सोमं॒ वाज॑पेयं॒ वेद॑ (३)।
वाज्ये॑वै॒नं पी॒त्वा भव॑ति । आऽस्य॑ वा॒जी जा॑यते, इति ।
एनं वाजपेयगतं सोमं फलभूतान्नाभेदोपचारेण स्तौति-
अन्नं॒ वै वाज॑पेयः । य ए॒वं वेद॑ । अत्यन्न॑म् । आऽ
स्यान्ना॒दो जा॑यते, इति ।
यागप्रतिपादकवेदाभेदोपचारेण स्तौति-

तैत्तिरीयब्राह्मणम् (१.३.२) १११
ब्रह्म॒ वै वाज॑पेयः । य ए॒वं वेद॑ । अति॑ ब्रह्म॒णाऽन्न॑म् ।
आ॒ऽस्य॑ ब्रह्म॒ जाय॑ते (४), इति ।
ब्रह्मणा वेदाध्ययनसंपादितया गुरुदक्षिणयेत्यर्थः । ब्रह्मा
वेदाध्यापकः । मन्त्रोच्चारणसाधनभूतवाग्भेदोपचारेण स्तौति-
वाग्वै वाज॑स्य प्र॒सव॑: । य ए॒वं वेद॑ । क॒रोति॑ वा॒चा
वी॒र्य॑म् । एनं॑ वा॒चा ग॑च्छति । अपि॑वतीं॒ वाचं॑ वदति,
इति ।
देव सवितः प्रसुवेत्यादिमन्त्ररूपा वागेव वाजस्य वाजपेयस्य प्रसव
उत्पत्तिहेतुः । य एतद्वेदिता स तया सभायां पाण्डित्यरूपतया वाचा
वीर्यमतिशयं करोति । सभागताश्च विद्वत्संघः स्तुतिरूपया वाचा
युक्तमेममागच्छति । बहुधा प्रशंसतीत्यर्थः । पुनरपि वाजपेयवाक्यं
श्रोष्यामि तदर्थं ज्ञास्याम्यनुतिष्ठामीत्येतादृशीं पुनरपीत्यपिशब्दोपेतां वाचं
सर्वदा वदति । श्रद्धालुर्भवतीत्यर्थः ।
एकादशानुवाकगतानामुज्जितिमन्त्राणां पाठं विधातुं प्रस्तौति ।
प्र॒जाप॑तिर्दे॒वेभ्यो॑ य॒ज्ञान्व्यादि॑शत् । स
आ॒त्मन्वाज॑पेय॒मध॑त्त । तं दे॒वा अ॑ब्रुवन् । ए॒ष वाव य॒ज्ञः ।
यद्वाज॑पेयः (५) । अप्ये॑व नो॒ऽत्रा॑स्त्विति॑ । तेभ्य॑
ए॒तानुज्जि॑तीः प्राय॑च्छत्, इति ।
प्रजापतिरितरेभ्यो देवेभ्योऽग्निष्टोमादीन्यज्ञान्विभज्य दत्वा
वाजपेयं स्वस्मिन्नेव स्थापितवान् । देवाश्च वाजपेय एव मुख्यो
यज्ञोऽतोऽस्माकमप्यत्र भागोऽस्त्वित्यब्रुवन्, स च तेभ्य
उज्जितिमन्त्रान्प्रायच्छत् । विधत्ते-
ता वा ए॒ता उज्जि॑तयो॒ व्याख्या॑प्यन्ते । य॒ज्ञस्य॒ सर्व॑त्वाय॑ ।
दे॒वता॑ना॒मनिर्भागाय, इति ।
व्याख्यायन्ते व्याख्यापयेरन्पठनीया इत्यर्थः । तत्पाठेन यज्ञस्य
सर्वत्वमवैकल्यं भवति । देवताश्च भगयुक्ता भवन्ति । तेषु
मन्त्रेष्वग्निरश्विनौ । विष्णु सोम इत्येवं तद्भागभाजो देवता आम्नाताः ।
अयं विधिरापस्तम्बेन स्पष्टं दर्शितः-“अग्निरेकाक्षरेणेति

११२ (१.३.२) तैत्तिरीयब्राह्मणम्
धावत्सूर्जिनीर्यज वाचयति” इति । उज्जतिमन्त्राणां रथधावनकाले
पठनीयत्वाद्धावन-विधिसमीप एवायं विधिरुत्क्रष्टव्यः ।
अस्य च विध्युत्कर्षस्य प्रसङ्गेन बुद्धिस्थं पुरुषार्थत्वेन
क्रतुप्रकरणादुत्क्रष्टव्यं कंचित्प्रतिग्रहनिषेधं विधित्सुः प्रस्तौति-
दे॒वा वै ब्रह्म॑णश्चान्न॑स्य च॒ शम॑लमपा॑घ्नन् । यद्ब्रह्म॑णः
शम॑लमासी॑त् । सा गाथा॑ नाराश॒ꣳस्य॑भवत् । यदन्न॑स्य ।
सा सुरा॑ (६) , इति ।
ब्रह्मणो वेदस्य, शमलं मलिनभागम्, अपाघ्नन्नपनीतवन्तः । नराणां
राजामात्यादीनामासमन्तात्प्रशंसनं नाराशंसस्तद्विषया गीर्नाराशंसी ।
प्रतिग्रहनिषेधं विधत्ते-
तस्मा॑द्रा॒र्यत॑श्च म॒त्तस्य॑ च॒ न प्रति॑गृह्णीयात् । यत्प्रति॑गृह्णी॒यात् ।
शम॑लं॒ प्रति॑गृह्णीयात्, इति ।
यस्माल्लौकिकमनुष्यविषयगानसुरे मलरूपे तस्मात्तादृशगानपरस्य
सुरापानमत्तस्य च धनं न प्रतिगृह्णीयात् ।
प्रकारान्तरेण वाजपेयं प्रशंसति-
सर्वा॒ वा ए॒तस्य॒ वाचोऽव॑रुद्धाः। यो वा॑जपेय॒याजी॑ । या
पृ॑थि॒व्यां याऽग्नौ॒ या र॑थंतरे । या॒ऽन्तरि॑क्षे या वा॒यो या
वा॑मदे॒व्ये॑ । या दि॒वि याऽऽदि॒त्ये या बृ॑ह॒ति । याऽप्सु
यौष॑धीषु या वन॒स्पति॑षु, इति ।
पृथिव्यन्तरिक्षद्युरूपं यल्लोकत्रयं तदभिमानिदेवतात्रयं
रथंतरवामदेव्यबृहद्रूपमुक्तलोकाभिमानिदेवताप्रियं यत्सामत्रयमबोषधि-
वनस्पतिरूपं यद्यागोपयुक्तद्रव्यत्रयं तस्य सर्वस्य संबन्धिन्यो वा वाचस्ताः
सर्वा एतस्य वाजपेययाजिनोऽवरुद्धाः संपन्नाः । तत्र सामसंबन्धिन्यो
वाचस्तदाश्रयभूता ऋच एव । पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वत्येते
यूपोक्षणमन्त्राः पृथिव्यादिविषया वाचः । अग्न आयूंषीत्यादिराग्ने
यातिग्राह्यमन्त्राऽग्निविषया वाक् । आ वायो भूषेति ग्रहान्तरमन्त्रो
वायुविषया वाक् । तुरीयादित्यसवनं त इन्द्रियमित्याग्रहान्तरमन्त्र
आदित्यविषया वाक् । आप उन्दन्वित्यादिरब्बिषया वाक् । ओषधे

तैत्तिरीयब्राह्मणम् (१.३.३) ११३
त्रायस्वैनमित्योषधिविषया वाक् । सूपस्था देवो
वनस्पतिरित्यादिवनस्पतिविषया वाक् । एवं पृथिवी दीक्षेत्यादयो बहव
उदाहार्याः । तदेवं सर्ववागवरोधाद्वाजपेयः प्रशस्तः ।
तामिमा प्रशंसामुपसंहरति-
तस्मा॑द्वाजपेयया॒ज्या॒र्त्विजी॑नः । सर्वा॒ ह्य॑स्य॒ वाचोऽ-
व॑रुद्धाः (७), इति ।
ऋत्विजीनो वाजपेयं यष्टुं प्रशस्तान्ऋत्विजोऽर्हति वाजपेयेनेष्ट्वा
परार्थमार्त्विज्यं चार्हति ।
धावामेति॒ ज्यैष्ठ्या॑य॒ वेद॒ ब्र॒ह्मा जा॑यते वाज॒पेयः॑ सुराऽऽ र्त्विजीन
एकं॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
तृतीयाध्याये द्वितीयोऽनुवाकः ॥ २ ॥
अथ तृतीयाध्याये तृतीयोऽनुवाकः ।
इत्थमेकेनानुवाकेन वाजपेय· विहितः । अथान्येनानुवाकेन
ग्रहविशेषा विधीयन्ते, तत्रातिग्राह्यान्विधातुं प्रस्तौति -
दे॒वा वै यद॒न्यैर्ग्रहै॑र्य॒ज्ञस्य॒ नावा॑रुन्धत । तद॑तिग्रा॒ह्यैर॑ति
ग्रा॒ह्यावा॑रुन्धत । तद॑तिग्रा॒ह्या॑णामतिग्राह्य॒त्वम्, इति ।
अन्यैरैन्द्रवायवादिग्रहैर्यत्फलं न . प्राप्नुवंस्तदपि
फलमतिग्राह्यसंज्ञकैर्ग्रहैरतिशयेन गृहीत्वा स्वाधीनं कृतवन्तः ।
इतरग्रहानतिक्रम्य दुष्प्रापं फलं गृह्णत एभिरित्यतिग्राह्याः ।
विधत्ते-
यद॑तिग्रा॒ह्या॑ गृह्यन्ते॑ । यदे॒वान्यैर्ग्रहै॑र्य॒ज्ञस्य॒ नार्वा॑रुन्धे । तदे॒व
तैर॑ति॒गृह्याव॑रुन्धे, इति ।
प्रकृतिगतानामग्न्यैन्द्रसौर्याणामतिग्राह्याणां चोदकादेव प्राप्तत्वात्त-
द्विधित्व भ्रान्तिव्युदासाय संख्याविशेषं विधत्ते-
पञ्च॑ गृह्णन्ते । पा॒ङ्क्तो य॒ज्ञः । यावा॑ने॒व य॒ज्ञः ।
तमा॒प्तवाऽव॑रुन्धे (१), इति ।

११४ (१.३.३) तैत्तिरीयब्राह्मणम्
धानाः करमित्यादिब्राह्मणोदाहरणेन यज्ञस्य पाङ्क्तत्वमसकृद्दर्शितम् ।
वक्ष्यमाणैरिन्द्राय जुष्टं गृहामीत्येतादृशैरैन्द्रलिङ्गकैर्मन्त्रैरेव तद्ग्रहणं
विधत्ते-
स॒र्वे॑ ऐन्द्रा॒ भव॑न्ति । एक॑धैव॒ यज॑मान इन्द्रि॒यं द॑धति,
इति ।
सर्वेषामेकदेवताकत्वेनैकविधेन्द्रियधारकत्वम् ।
ग्रहान्तराणि विधत्ते-
स॒प्तद॑श प्राजाप॒त्या ग्रहा॑ गृह्यन्ते । स॒प्त॒द॒शः प्र॒जाप॑तिः ।
प्र॒जाप॑तेरा॒प्त्यै, इति ।
प्रजापतेः सप्तदशत्वं यो वै सप्तदशमित्यत्रोपपादितम् ।
वक्ष्यमाणमयाविष्ठा इत्यादिकामृचं कुविदङ्गेत्यदिकां च
विषयविशेषेण व्यवस्थितां विधत्ते-
एक॑य॒र्चा गृ॑ह्णाति । एक॑धैव यज॑माने वी॒र्य॑ दधाति, इति ।
तेषु ग्रहेषु द्रव्यद्वयं विधत्ते-
सो॒म॒ग्र॒हा ँश्च॑ सुराग्रहा ँश्च॑ गृह्णाति । ए॒तद्वै दे॒वानां॑
पर॒ममन्न॑म् । यत्सोमः॑ (२) । ए॒तन्मनु॑ष्याणाम् । यत्सुरा॑ ।
प॒र॒मेणै॒वास्मा॒ अन्नाद्ये॒नाव॑र॒मन्नाद्य॒मव॑रुन्धे, इति ।
मनुष्याणामधमजातीनामिति शेषः । शालिमुद्गादिकं परमान्नं
यावानन्नलप्रियंग्वादिकमवरम् । यदा
परमान्नसंपत्तिस्तदानीमवरान्नसंपत्तिः किमु वक्तव्या ।
उक्तग्रहप्रकारश्चाऽऽपस्तम्बेन स्पष्टीकृतः" ऐन्द्रमतिग्राह्यं
गृहीत्वोपचयमिगृह्णीतोऽसि नृषदं त्वेति पञ्चैन्द्रनतिग्राह्यान्गृह्णाति तेषां
पूर्ववत्कल्पः, षोडशिनं गृहीत्वाऽयाविष्ठा जनयन्कर्वगणीति सप्तदश
प्राजापत्यान्गृह्णाति तेषां षोडशिवत्कल्पः, कुविदङ्गेत्यपरस्मिन्खरं
प्रतिप्रस्थाता सप्तदशभिरुपयामैः सुराग्रहान्गृह्णति" इति ।
द्विविधग्रहविधिमनूद्य प्रशंसति-
सो॒म॒ग्र॒हान्गृ॑ह्णाति । ब्रह्म॑णा वा ए॒तत्तेजः॑ । यत्सोमः॑ ।