सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

चतुर्थोऽध्यायः ॥ ४ ॥

२१८ (१.४.१०) तैत्तिरीयब्राह्मणम्
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
चतुर्थाध्याये दशमोऽनुवाकः ॥ १० ॥
उ॒भये॑ यु॒वं सुरा॑मु॒र्दस्था॒न्निवै॑ य॒स्य॑ प्रातःसवन॒ एकैकोऽसु॑र्यं
पर्व॑मानः प्र॒जा वै स॒त्रमा॑स॒ता॒ग्निर्वाव सं॑वत्स॒ारो दर्श॑ । उ॒भये॑ वा
उर्द॑स्था॒त्सर्वा॑भि॒र्मध्य॑तो॒ऽत्र॑ वाव ब्रा॑ह्म॒णेभ्य॑श्च गृ॒हमे॑धिन् ँषट् षष्टिः ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
चतुर्थोऽध्यायः ॥ ४ ॥
दर्शपूर्णमासयाजिनस्तत्फलं प्राप्य तस्यानित्यत्वात्ततः प्रमीयन्ते
पुनरावर्तन्ते । तथा चातुर्मास्ययाजी फलावस्थातः प्रच्यवत न वेति
ब्रह्मवादिनां प्रश्नः । न प्रच्यवतं इत्यभिप्रेत्याभिज्ञस्योत्तरम् । अयमनुष्ठाताऽ
नुष्ठानानन्तरमेवर्तुदेवताः प्राप्नोति । यद्यपि देवताशरीरमन्यैर्न दृश्यते
तथाऽप्यन्तबीजरूपेणाङ्कुरितं वर्तते । अत एव देवतजन्मव्यतिरेकेण
जन्मान्तरं न भवति । सामान्येनोक्तामृतुप्राप्तिमेव वसन्तादिवाक्यानि
विस्पष्टी कुर्वन्ति । यस्मिन्नृतावस्य वर्तमानदेहपात-
स्तद्देवतादेहःपूर्वमङ्कुरितो विस्पष्टी भवति । एवमृतुदेहेन तद्भोगान्भुक्त्वा
च संवत्सरदेवं प्रविशति । स च संवत्सरः । प्रजापतिरूपः। स च
प्रजापतिरेष एव शास्त्रैरिदानीमपि सर्वत्र वर्ण्यते । तस्मादयं फलावस्थातो
न म्रियते ।
अस्य प्रपाठकस्थानुवाकार्थसंग्रह उच्यते-
दशानुवाका अत्र स्युराद्ये ग्रहविधिः स्मृतः ।
श्रुताः सौत्रामणीमन्त्रा द्वितीयेऽऽथतृतीयके ॥
दोहप्रायश्चित्तिरग्निप्रायश्चित्तश्चतुर्थके .
सोमाधिक्ये प्रतीकारः पञ्चमे संसवे पुनः ।
षष्ठे प्रायश्चित्तिरुक्ता यूपारोहादिकारिता ।
प्रायश्चित्तिः सप्तमे स्यात्यावमान्या जपोऽष्टमे ।
चातुर्मास्यान्युत्तर स्युर्दशमे तत्प्रशंसनम् ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये प्रथमकाण्डे
चतुर्थप्रपाठके दशमोऽनुवाकः ॥ १० ॥

तैत्तिरीयब्राह्मणम् (१.५.१) २१९
इति श्रीमद्वीरबुक्कणसाम्राज्यधुरंधर श्रीमत्सायणाचार्यविरचिते माधवीये
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये
प्रथमकाण्डेचतुर्थप्रपाठकः समाप्तः॥ ४ ॥
(मूलक्रमेण-अष्ट० १ अध्या. ४ अनु.१०(३१)। (भाष्यक्रमेण-कां. १
प्रपा० ४अनु.१०.(३६) ।
अथ प्रथमकाण्डे पञ्चमप्रपाठकारम्भः।
तत्र प्रथमोऽनुवाकः।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
सोमग्रहाद्या विहिताश्चतुर्थे हि प्रपाठके ।
नक्षत्राख्येष्टका मन्त्रप्रमुखाः पञ्चमे श्रुताः ।
अनारभ्योक्तितस्तेषां लिङ्गवाक्यानुसारतः।
योजनीयास्तत्र तत्र न्यायाद्भासंप्रदायतः ॥
तत्र तु प्रथमानुवाके प्रोक्ता नक्षत्रेष्टकामन्त्राः क्वचिद्विकृतिरूपे चयने
द्रष्टव्याः । यथाऽनारभ्याधीतं सामिधेनीसप्तदश्यं प्रकृतौ प्रत्यक्षश्रुतेन
पाञ्चदश्येनावरुद्धायामवकाशमलभमानं विकृतौ निविशत एवमेतेऽपि
मन्त्राःप्रत्यक्षश्रुतेः कृत्तिका नक्षत्रमग्निदेवता" इत्यादिमन्त्रैरवरुद्धायां
प्रकृताववकाशाभावाद्विकृतौ निविशन्ते.तत्र प्रथमं मन्त्रमाह-
अ॒ग्नेः कृत्तिकाः॑ । शु॒क्रं पु॒रस्ता॑ज्ज्योति॑र॒वस्ता॑त्, इति ।
अग्निनक्षत्रस्य स्वामी । तस्य स्वभूताः सप्त कृत्तिका
अम्बादुलादयः । ताश्च मध्ये वर्तन्ते शुक्लं तेजो दीप्तिसाधनं काष्ठं वा ।
तच्च परस्तात्परपार्श्वे वर्तते । ज्योतिर्ज्वाला सा चावस्तादपरपार्श्वे वर्तते।
तासामुभयपार्श्वयोः शुक्रज्योतिषोरभिमानिदेवते अत्यन्तदीप्तिमत्त्यौ परं
दीपयन्त्यौ वर्तेते । एवमुत्तरेष्वपि मन्त्रेषु योज्यम् ।
·द्वितीयं मन्त्रमाह-
प्र॒जाप॑ते रोहि॒णी । आपः॑ पु॒रस्ता॒दोष॑धयो॒ऽवस्ता॑त्, इति ।
प्रजापतिर्नक्षत्रस्वामी देवस्तस्य स्वभूता रोहिणी मध्ये वर्तते । आप
ओषधयश्च पार्श्वद्वये वर्तन्ते ।

२२० (१.५.१) तैत्तिरीयब्राह्मणम्
तृतीयं मन्त्रमाह-
सोम॑स्येन्व॒का । वित॑तानि पु॒रस्ता॒द्वय॑न्तो॒ऽवस्ता॑त्, इति ।
इन्वका मृगशीर्षसंघगतास्तारकाः। विततानि विस्तीर्णास्तन्तवः ।
वयन्तः पटस्य निर्मातारो देवताविशेषाः ।
चतुर्थं मन्त्रमाह-
रु॒द्रस्य॑ बा॒हू । मृ॒ग॒यव॑: पु॒रस्ता॑द्विक्षारो॒ऽवस्ता॑त् इति ।
बाहुशब्देन द्विवचनान्तेनाऽऽर्द्रानक्षत्रमुपलक्ष्यते
बाहुवत्प्रयलहेतुत्वात् मृगयवो व्याधविशेषा देवाः । विक्षारो विशिष्टो
लक्ष्यवेधः ।
पञ्चमं मन्त्रमाह-
अदि॑त्यै पुर्नव॑सू । वातः॑ पु॒रस्तादा॒र्द्रम॒वस्ता॑त् (१), इति ।
वातो वृष्टेःपूर्वभावी वायुः । आर्द्रं वृष्टिजन्यद्रवत्वम् ।
षष्ठं मन्त्रमाह-
बृहस्पते॑स्ति॒ष्य॑: . जुह्व॑तः पु॒रस्ता॒द्यज॑माना अव॒स्तात्, इति ।
जुह्वतो होमकर्तार ऋत्विजः । यजमानाः स्वामिनः।
सप्तमं मन्त्रमाह-
स॒र्पाणा॑माश्रे॒षाः । अ॒भ्याग॒च्छ॑न्तः पु॒रस्ता॑द॒भ्यानृ॒त्यन्तो॒ऽ
वस्ता॑त्, इति ।
अभ्यागच्छन्तः सर्पनृत्तदर्शनार्थमुत्सुका अभिमुखमागच्छन्तः
पुरुषाः। अभ्यानृत्यन्तःफणानां प्रसारणनाभिमुखं नृत्तं कुर्वन्तः सर्पाः।
अष्टमं मन्त्रमाह-
पि॒तॄणां म॒घाः। रु॒दन्तः॑ पु॒रस्ता॑दपभ्रं ঁ शौऽवस्ता॑त्, इति ।
रुदन्तो रोदनं कुर्वन्तो बन्धवः । अपभ्रंशो देहपातः । नवमं मन्त्रमाह-
अ॒र्य॒म्णः पूर्वे॑ फल्गु॑नी । जा॒या पु॒रस्ता॑दृ॒षभो॑ऽवस्ता॑त्,
इति ।

तैत्तिरीयब्राह्मणम् (१.५.१) २२१
जाया प्रसिद्धा । ऋषभो भर्ता सेक्ता पुरुषः ।
दशमं मन्त्रमाह-
भग॒स्योत्त॑रे । वह॑तवः पु॒रस्ताद्वह॑माना अ॒वस्ता॑त् (२),
इति ।
उत्तरे इत्यत्र फल्गुनी इत्यनुवर्तते पितृगृहात्कन्यया नीयमाना धन
विशेषा वहतवः तेषां वोढारो वहमानाः ।
एकादशं मन्त्रमाह-
दे॒वस्य॑ सवि॒तुर्हस्त॑ः । प्र॒सवः॑ पु॒रस्ता॑त्स॒निर॒वस्ता॑त्, इति ।
प्रसवः कार्येषु प्रेरणम् । सनिर्धनदानम्।
द्वादशं मन्त्रमाह-
इन्द्र॑स्य चि॒त्रा । ऋ॒तं पु॒रस्ता॑त्स॒त्यम॒वस्ता॑त्, इति ।
चिन्त्यमानं वस्तुतत्वमृतमुच्यते । वाच्यमानं वस्तुतत्त्वं सत्यम् ।
त्रयोदशं मन्त्रमाह-
वा॒योर्निष्ट्या॑ । व्र॒तति॑: पु॒रस्ता॑दसि॑द्धि॒रवस्ता॑त्, इति ।
निष्ट्या स्वातिः । व्रततिर्वायुना चालयितुं शक्या वल्ली ।
असिद्धिर्वल्ल्या अधःपातः।
चतुर्दशं मन्त्रमाह-
इन्द्रा॑ग्नि॒योर्विशा॑खे । यु॒गानि॑ पु॒रस्ता॑त्कृ॒षमा॑णा अ॒वस्ता॑त्,
इति ।
कर्षणेन बलीवर्दगलयोः स्थप्यमानं काष्ठं युगम् । कृषमाणाः
कृषिकर्तारः ।
पञ्चदशं मन्त्रमाह-
मि॒त्रस्यानू॑रा॒धाः । अ॒भ्यारोह॑त्पु॒रस्ता॑द॒भ्यरूं॑ढम॒वस्ता॑त्
(३), इति ।

२२२ (१.५.१) तैत्तिरीयब्राह्मणम्
संमुखत्वेनावस्थितमुन्नतं देशमारोढुमुद्यतं पदमभ्यारोहत् ।
पूर्ववत्कृतारोहणं पदमभ्यारूढम् ।
षोडशं मन्त्रमाह-
इन्द्र॑स्य रो॒हिणी॑ । शृ॒णत्पु॒रस्ता॑त्प्रतिशृण॒द्वस्ता॑त्, इति ।
रोहिणीशब्देन ज्येष्ठोच्यते । संग्रामारोहणहेतुत्वात् ।
शृणुद्धिसनोद्युक्तं स्वकीयं बलम् । प्रतिशृणत्प्रतिकूलत्वेन हिंसोद्युक्तं
परकीयं बलम् ।
सप्तदशं मन्त्रमाह-
निर्ऋ॑त्यै मू॒लव॑र्हणी । प्र॒ति॒भ॒ञ्जन्तः॑
पु॒रस्ता॑त्प्रतिशृणन्तो॒ऽवस्ता॑त्, इति ।
यन्मूलनक्षत्रं तदेव विरोधिपदार्थनिवर्हणशक्तित्वाद्वर्हणीत्युच्यते ।
प्रतिकूलां सेनां भग्नां कुर्वन्तः पुरुषाः प्रतिभञ्जन्तः । स्वात्मानं प्रातिकूल्येन
हिंसन्तः पुरुषाः प्रतिशृणन्तः ।
अष्टादशं मन्त्रमाह-
अ॒पां पूर्वा अषा॑ढाः। वर्च॑: पु॒रस्ता॑त्स॒मिति॑र॒वस्ता॑त्, इति ।
परसैन्याभिभवक्षमं बलं वर्चः । समितियुद्धम् ॥
एकोनविंशं मन्त्रमाह-
विश्वे॑षां दे॒वाना॒मुत्त॑राः । अ॒भि॒जय॑त्पु॒रस्ता॑द॒भिज॑-
तम॒वस्ता॑त्, इति ।
जयाभिमुखं सैन्यमभिजयत् । लब्धजयमभिजितम् । अस्मिन्मन्त्र
उत्तरा इत्यत्राषाढा इत्यनुवर्तते ।
विंशं मन्त्रमाह-
विष्णो॑: श्रो॒णा । पृ॒च्छमा॑ना: पु॒रस्ता॒त्पन्था॑ अ॒वस्ता॑त् (४),
इति ।
श्रवणनक्षत्रं श्रोणा । तल्लोकजिज्ञासवः पुरुषाः पृच्छमानाः ।
तल्लोकप्राप्त्युपायः पन्थाः ।

तैत्तिरीयब्राह्मणम् (१.५.१) २२३
एकविंशं मन्त्रमाह-
वसू॑ना॒ ॅश्रवि॑ष्ठाः । भू॒तं पु॒रस्ता॒द् भूति॑र॒वस्ता॑त्, इति ।
धनिष्ठानक्षत्रं श्रविष्ठाः । पूर्वमनुभूतमैश्वर्यं भूतम् ।
अनुभूयमानमनुभविष्यमाणं च भूतिः।
द्वाविंशं मन्त्रमाह-
इन्द्र॑स्य श॒तभि॑षक् । वि॒श्वव्य॑चाः
पु॒रस्ता॑द्विश्वक्षि॑तिर॒वस्ता॑त्, इति ।
पूर्वं चित्रानक्षत्रस्वामी योऽयमिन्द्र उक्तः सोऽयं त्वष्टा
परमैश्वर्ययोगादिन्द्र उच्यते । अन्यत्र “त्वष्टा नक्षत्रमभ्येति चित्राम्” इति
मन्त्राम्नानात् । यत्विन्द्रस्य रोहिणीत्युक्तं तत्र ज्येष्ठानक्षत्राधिपतिः प्रसिद्ध
एवेन्द्रः “इन्द्रो ज्येष्ठामनुक्षत्रमेति” इत्यवाम्नानात् । अत्र त्विन्द्रशब्देन
परमैश्वर्ययोगाद्वरुणो गृह्यते । “क्षत्रस्य राजा वरुणोऽधिराजो नक्षत्राणा ॅ
शतभिषग्वसिष्ठः” इति मन्त्राम्नानात् । विश्वं व्यचति व्याप्नोतीति
विश्वव्यचा वृष्टिः । विश्वेषां सस्यानामाधारभूतः क्षेत्रविशेषो
विश्वक्षितिः।
त्रयोविंशं मन्त्रमाह-
अ॒जस्यैक॑पाद्ः पूर्वे॑ प्रोष्ठप॒दाः । वै॒श्वा॒न॒रं
पु॒रस्ता॑द्वैश्वाव॒सव॑म॒वस्ता॑त्, इति ।
अजशब्देनैकपाच्छब्देन च सूर्योऽभिधीयते । “तं ॅ सूर्य
देवमजमेकपादम्” इति मन्त्राम्नानात् । जगदनुग्रहाय स्वेच्छागृहीतं शरीरं
मुक्त्वा मनुष्यवत्कर्म पारतन्त्र्येण जन्माभावादस्याजत्वम् । एक एव पद्यते
संचरतीत्येकपात् । “सूर्य एकाकी चरति” इति मन्त्रान्तरविशेषात् ।
विश्वेषां नराणां हितं जगत्प्रकाशनं वैश्वानरम् “आदित्याज्जायते वृष्टिः”
इति स्मृत्यभिहितम् वृष्टिद्वारा विश्वेषां निवासहेतुत्वं वैश्वावसवम् ।
चतुर्विंशं मन्त्रमाह-
अहे॑र्बुध्निय॒स्योत्त॑रे । अ॒भि॒षि॒ञ्चन्तः॑ । पु॒रस्ता॑दभि षण्वन्तो॑
ऽवस्ता॑त्, इति ।
अहिशब्देन बुध्नियशब्देन चाऽऽवसथ्याख्यः पञ्चमोऽग्निरुच्यते ।