तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 151, कुल 345 में से
संदर्भ में पढ़ें१२२ (१.३.५) तैत्तिरीयब्राह्मणम्
पठितान्वाजपेयमन्त्रान्स्वदाति स्वदयतु यथावत्सादयतु । अनेन मन्त्रेण
होमं विधत्ते-
सा॒वि॒त्रं जु॑होति॒ कर्म॑णः कर्मण पुर॒स्ता॑त्, इति ।
तदेतद्बौधायनेनैवोदाहृतम् ।
तत्तत्कर्मादौ होममुपपादयति-
कस्तद्द्वे॒देत्या॑हुः । यद्वा॑ज॒पेय॑स्य॒ पूर्वं॒ यदप॑र॒मिति॑ ।
स॒वि॒तृप्र॑सूत एव यथापूर्वं॒ कर्मा॑णि॒ करोति॑, इति ।
बद्धक्रमैश्चौदकप्राप्तैः प्रत्यक्षविहितैश्चोदकस्य वाजपेयस्य यदङ्गं
पूर्वभावि यच्च पश्चाद्भावि तन्मनुष्यः को वेदेति बुद्धिमन्त आहुः ।
सावित्रहोमे तु कृते सविता प्रेरित एव सन्क्रममनुल्लङ्घ्य कृतवान्भवति
प्रतिकर्म ।
तमेतं होमं कर्तुमशक्तं प्रति पक्षान्तरं विधत्ते-
सव॑ने सवने जुहोति । आ॒क्रम॑णमे॒व तत्सेतुं यज॑मानः
कुरुते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै, इति ।
उक्तेन त्रयाणां सवनानामादौ होमेन स्वर्गं प्राप्तुं सेतुस्थानीयमाक्रमणं
कृतवान्भवति ।
अस्य मन्त्रस्यचतुर्थपादे स्वदनस्यान्नविषयस्य
वाग्विषयत्वमुपयुक्तमिति शङ्कां निराकर्तुं व्याचष्टे-
वा॒चस्पति॒र्वाचं॑म॒द्य स्व॑दाति न् इत्या॑ह । वाग्वै दे॒वानां॑
पुरा॒ऽन्न॑मासीत् । वाच॑मे॒ वास्मा॒ अन्नँ॑ स्वदयति (१),
इति ।
स्तुत्या देवैस्तू (वानां तृ)प्तत्वाद्वाचौ देवान्नत्वम् ।
कल्पः-"रथ एव दक्षिणे श्रोण्यन्ते रथवाहन आहितो भवति
तमुपसादयति-
इन्द्र॑स्य वज्रो॑ऽसि॒ वार्त्र॑घ्न॒स्त्वया॒ऽयं वृ॒त्रं व॑ध्यात् " इति ।
वार्त्रघ्नो वैरिघाती योऽमिन्द्रस्य वज्रः, हे रथैवं त्वमसि । त्वया.
सहकारिणा सहितोरथं यजमानो वृत्रं वैरिणं वध्यात् । रथवाहने