सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 157, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 157

१२८ (१.३.५) तैत्तिरीयब्राह्मणम्
सति फलतत्साधनयोः स्वाराज्ययागयोः स्वभावपर्यालोचनायां
फलस्योद्देश्यत्वादित्रिकं यागस्योपादेयत्वादित्रिकं व्यवतिष्ठते । तथा
यागस्य वाजपेयद्रव्यस्य च साध्यसाधनभाव- पर्यालोचनायां
यागस्योद्देश्यत्वादित्रिकं द्रव्यस्योपादेयत्वादित्रिकं पर्यवस्यति । ततो
यागस्य फलद्रव्याभ्यामुभाभ्यां प्रतियोगिभ्यां युगपत्संबन्धे सति
विरुद्धत्रिकद्वयमापद्येत् । ननु तर्हि माभूत्तन्त्रेणोभयसंबन्धः । पृथक्संबन्धाय
यजिरावर्त्यतामिति चेन्न । वाक्यभेदप्रसङ्गात् । द्रव्येण यागं कुर्यादित्येकं
वाक्यम् । यागेन फलं कुर्यादित्यपरम् । तस्माद्वाजपेयशब्दो न
गुणविधायकः किंतु यथोक्तं द्रव्यं
निमित्तीकृत्याग्निहोत्र-शब्दवत्कर्मनामधेयम् । द्वितीयाध्यायस्य
द्वितीयपादे चिन्तितम्-
आहुतीस्तिस्र इत्यत्र कर्मैक्यमुत भिन्नता ।
एकत्वं सकृदाख्यानात्संख्यावृत्त्या प्रयाजवत् ॥
आख्यातमात्रं नो मानं संख्यया बहुकर्मता ।
आवृत्त्यैकादशत्वं तु प्रयाजे गत्यभावतः ॥
पशून्सप्तदश प्राजापत्यानित्यत्र भाष्यकृत् ।
विचारमाह पूर्वत्र क्रियात्रित्वस्फुटत्वतः ॥
बहुत्वोपेतपशुभिर्देवयोगादभिन्नता ।
रूपस्य तेन कर्मैक्यं संख्या नात्र क्रियागता ॥
देवतासंगतस्यैव तद्धितार्थस्य पश्चिमः ।
बहुत्वसंगमो रूपसंख्ययाऽतः क्रियाभिदा ॥ (इति) ।
तिस्र आहुतीर्जुहोतीति श्रूयते । तत्र जुहोतीत्येतदाख्यातं समिधो
यजतीत्यादिवन्नाभ्यस्तं किंतु सकृदेवाऽऽम्नातम् । तत एकमिदं कर्म ।
त्रित्वसंख्या तु तस्यैव कर्मण आवृत्त्या नेतव्या । यथा
प्रयाजेष्वेकादशत्वसंख्या पञ्चानामेव प्रयाजानामावृत्त्या नीता तद्वदिति
प्राप्ते ब्रूमः । किमिदमाख्यातं पदान्तरनिरपेक्षमेव कर्मैक्ये प्रमाणम्, उत
पदान्तरान्वितम् । नाऽऽद्यः । वाक्यांशस्य पदमात्रस्य
प्रमितिजन्रकत्वाभावात् । द्वितीये त्रित्वसंख्यया विशेषितेनाऽऽख्यातेन
कर्मबहुत्वं गम्यते । प्रयाजानां तु पूर्वमेव संख्या
वरुद्धत्वादावृत्तिमन्तरेणैकादशत्वं दुःसंपादम् । इह त्वतद्धितः
पूर्वकर्मण एकत्वसंख्यावरोधो नास्तीति वैषम्यम् ।
तदेतद्वृत्तिकारोदाहरणं भाष्यकारो नानुमन्यते । कर्मवाचिन
आहुतिशब्दस्य विशेषणेन त्रिशब्देन कर्मबहुत्वस्य स्फुटतया
पूर्वपक्षानुत्थानात् इदं त्वत्रोदाजहार । सप्तदश प्राजापत्यान्पशूनालभत