सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

६०८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०८अनु०२]
श्रद्धा शिर इत्युच्यते । गुरुशास्त्राभ्यामभिहिते तत्त्वे तदवबोधोपाययोश्च परमो
विश्वासः श्रद्धा । ऋतसत्यशब्दाभ्यामप्यत्र तत्तत्कर्तृत्वाभिमानरूपं वृत्तिद्वयं विवक्षि-
तम् । योगः संप्रज्ञातासंप्रज्ञातसमाधिद्वयम् । “योगश्चित्तवृत्तिनिरोधः” इति
योगशास्त्रे सूत्रितत्वात् । महःशब्देनं महतः परमितिश्रुत्यन्तरोक्तमव्याकृतस्य प्रथम-
कार्यरूपं हिरण्यगर्भाख्यं महत्तत्त्वं विवक्षितम् । तच्च सर्वेषामहंप्रत्ययगम्यानां कर्त्री-
त्मनां समष्टिरूपत्वेन प्रतिष्ठा । एतदेवाभिप्रेत्योत्तरतापनीये समाम्नायते—“सर्वा-
हंमानी हिरण्यगर्भः” इति ।
अस्मिन्विज्ञानमयेऽपि पूर्ववच्छ्लोकमुदाहरति—
तदप्येष श्लोको भवति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके
चतुर्थोऽनुवाकः ॥ ४ ॥
अथ पञ्चमोऽनुवाकः ।
वि॒ज्ञानं॑ य॒ज्ञं त॑नुते । कर्मा॑णि तनु॒तेऽपि॑ च ।
वि॒ज्ञानं॑ दे॒वाः सर्वे॑ । ब्रह्म॒ ज्येष्ठ॒मुपा॑सते । वि॒ज्ञानं॑
ब्रह्म॒ चेद्वेद॑ । तस्मा॒च्चेन्न प्रमाद्य॑ति । *शरीरे पाप्म॑नो
हि॒त्वा । सर्वा॒न्कामा॒न्त्सम॑श्नुत॒ इति॑, इति ।
यदेतत्कर्तृत्वशक्तियुक्तं विज्ञानं तदेव ज्योतिष्टोमादीन्यज्ञाननुतिष्ठति । एतदीय-
मनुष्ठानं तत्साक्षिणि चिदात्मनि भ्रान्त्या परिकल्प्यते । तथा कृषिवणिज्यादिलौकिक-
कर्माण्यापि विज्ञानेनैव क्रियन्ते । तदेतल्लौकिकवैदिकसर्वक्रियाकर्तृरूपमाध्यात्मिकं
विज्ञानमिन्द्रादयः सर्वे देवा ज्येष्ठब्रह्मरूपेणोपासते । महत्तत्त्वरूपं हिरण्यगर्भाख्यं
प्रथमोत्पन्नज्येष्ठशरीरम् । “स यो हैतन्महः प्रथमजं यक्षम्” इति श्रुतेः । यक्षं
पूज्यम् । तथा—“हिरण्यगर्भः समवर्तताग्रे” इति श्रुत्यन्तरम् ।
स्मृतिश्च—“स वै शरीरी प्रथमः स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रह्माऽग्रे सैमवर्तत” ॥ इति ।
इन्द्रादिवद्यः पुमान्विज्ञानोपाधिकं ब्रह्म यद्युपासीत तदुपासीनँश्च यावज्जीवं तस्मा-
द्विज्ञानोपाधिकाद्ब्रह्मणो यदि नै प्रमाद्येत्, उक्तविधं ब्रह्माहमस्मीत्येवं प्रत्ययप्रवाहं
परित्यज्य मनुष्योऽहं कर्ता भोक्ता सुखी दुःखीत्येवं प्राकृतजनवद्व्यवहारः प्रमादः

  • अत्र शकाराकारस्य सानुदात्तः पाठोऽपि वैदिकेषु प्रसिद्धः ।
    १ ग. °रूपत्वं° । २ ख. °रूपा हिं° । ३ ग. स व्य° । ४ ङ. °नस्य यां° । ५ ङ. नो
    ६ ग. °ह्येव प्र° ।

[प्रपा०८ अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६०९
यदि न कुर्यात्तदानीमयं शरीरे वर्तमान एव सम्भाविजन्मरूपदुःखहेतून्सर्वान्पाप्मनः
परित्यज्य ब्रह्मलोके संकल्पमात्रसंपादितान्सर्वान्भोगान्भुक्त्वा तत्त्वज्ञानोदये सति विमु-
च्यते । इन्द्रादिदेवानां स्त्रीशूद्रवद्वेदाध्ययनाभावेऽप्यस्ति वैदिकब्रह्मविद्यायामधिकारः ।
शूद्रादेस्तु वेदमुखेनाधिकाराभावेऽपि स्मृतिपुराणादावस्त्यधिकारः प्रथमाध्यायस्य
तृतीयपादे + चिन्तितः—
“नाधिक्रियन्ते विद्यायां देवाः किंवाऽधिकारिणः ।
विदेहत्वेन सामर्थ्यहानेर्नैषामधिक्रिया ॥
अविरुद्धज्ञानवादिमन्त्रादेर्देहसत्त्वतः ।
अर्थित्वादेश्च सौलभ्याद्देवाद्या अधिकारिणः” ॥ इति ।
बृहदारण्यके तृतीयाध्याये श्रूयते—“तद्यो यो देवानां प्रत्यबुध्यत स एव तद-
भवत्तथ

Here is the Devanagari text transcribed line by line from the image:

६१० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०८अनु०१]
त्वात्सुलभैव । तस्माद्देवादीनां विद्याधिकारो न निवारयितुं शक्यः । यद्यप्यादित्यादीनां
देवानामादित्यादिध्यानमिश्रासु सगुणब्रह्मविद्यासु ध्येयानामन्येषामदित्यादीनामसंभवा-
दादित्यत्वादिप्राप्तिलक्षणविद्याफलस्य सिद्धत्वाच्च माऽस्त्वधिकारः । तथाऽपि निर्गुण-
विद्यायामधिकारे को दोषः । तस्मादस्त्येवाधिकारः ।
शूद्राधिकारोऽपि तत्रैव* चिन्तितः—
"शूद्रोऽधिक्रियते वेदविद्यायामथवा नहि ।
अत्रैवर्णिकदेवाद्या इव शूद्रोऽधिकारवान् ॥
देवाः स्वयंभातवेदाः शूद्रोऽध्ययनवर्जनात् ।
नाधिकारी श्रुतौ स्मार्ते त्वाधिकारो न वार्यते ॥
छान्दोग्यस्य चतुर्थाध्याये संवर्गविद्यायामाम्नायते—‘‘आजहारेमाः शूद्रानेनैव
मुखेनाऽऽलापयिष्यथाः ’’ इति । अयमर्थः । जानश्रुतिर्नाम कश्चिच्छिष्यो गोसहस्रं
दुहितरं मुक्ताहारं रथं कांश्चिद्ग्रामांश्चोपायनत्वेनाऽऽनीय रैक्वनामकं गुरुमुपससाद ।
तस्य रैक्वस्य वचनमेतत् । हे शूद्र जानश्रुत इमा गोसहस्राद्या आजहार।ऽऽहृतवानसि।
अनेनैव दुहित्राद्युपायनमुखेन मच्चित्तं प्रसाद्योपदेर्शायष्यसीति । तत्र शूद्रोऽपि वेदवि-
द्यायामधिकारवानिति प्राप्तम् । कुतः । अत्रैवर्णिकदेवदृष्टान्तेन शूद्रस्याप्यत्रैवर्णिकस्य
तत्संभवादिति प्राप्ते ब्रूमः—अस्ति देवशूद्रयोर्वैषम्यम् । उपनयनाध्ययनाभावेऽपि स्वयं-
प्रतिभातवेदा देवास्तादृशस्य सुकृतस्य पूर्वमुपार्जितत्वात् । शूद्रस्तु तादृशसुकृतरहितत्वान्न
स्वयं प्रतिभातवेदः । नापि तस्य वेदाध्ययनमस्त्युपनयनाभावात् । अतो विद्वत्तारूपस्या-
धिकारहेतोरभावान्न श्रौतविद्यायां शूद्रोऽधिकारी । कथं तर्ह्युदाहृतवाक्ये जानश्रुति-
विषयः शूद्रशब्दो यौगिकोऽयं न रूढ इति ब्रूमः । विद्याराहित्यजनितया शुचा गुरुं
दुद्रावेति शूद्रः । न च रूढ्या योगस्यापहारो रूढेरत्रासंभवात् । अस्मिन्नुपाख्याने क्षत्तृ
प्रेरणाद्यैश्वर्योपन्यासेन जानश्रुतेः क्षत्रियत्वावगमात् । ननु शूद्रस्य वेदविद्यानधिकारे सति
मुमुक्षायां सत्यामपि मुक्तिर्न स्यादिति चेन्मैवम् । स्मृतिपुराणादिमुखेन ब्रह्मविद्योदये
सति मुक्तिसिद्धेः । तस्मान्न शूद्रो वेदविद्यायामधिक्रियते ” ।
सगुणब्रह्मविदो देहपातात्प्रागेव पुण्यपापत्यागस्तृतीयाध्यायस्य तृतीयपादे+
चिन्तितः—
‘‘कर्मत्यागो मार्गमध्ये यदि वा मरणात्पुरा ।
उत्तीर्य विरजां त्यागस्तथा कौषीतकिश्रुतेः ॥
* शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि—ब्र० सू० अ० १ पा० ३ अ० १० सू०
३४ । + सांपराये तर्तव्याभावात्तथा ह्यन्ये—ब्र० सू० अ० ३ पा० ३ अ० १६ सू० २७।
१ °शमिच्छसी° ।

[प्रपा०८अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६११
कर्मप्राप्यफलाभावान्मध्ये साधनवर्जनात् ।
ताण्डिश्रुतेः पुरा त्यागो बाध्यः कौषीतकिक्रमः ॥
पूर्वाधिकरणोक्तसुकृतदुष्कृतपरित्यागो ब्रह्मलोकमार्गस्य मध्ये भवितुमर्हति । तल्लो-
कसमीपमार्गवर्तिनद्युत्तरणानन्तरं तच्छ्रवणात् “ स आगच्छति विरजांनदीं तां मनसै-
वात्येति तत्सुकृतदुष्कृते विधूनुते” इति । तस्मान्मार्गमध्ये परित्याग इति प्राप्तो
ब्रूमः—ब्रह्मलोकमार्गमध्ये ब्रह्मप्राप्तिव्यतिरिक्तस्य सुकृतदुष्कृताभ्यां प्राप्यस्य फलस्या-
भावात्तयोर्नदीपर्यन्तनयनं निरर्थकम् । किंच मरणात्प्रागपरित्यक्तयोः सुकृतदुष्कृतयो-
र्मार्गमध्ये परित्यागस्य साधनं न संभवति । देहरहितेन साधनमनुष्ठातुमशक्यत्वात् ।
न च मरणात्पुरा तत्त्यागे प्रमाणाभावः । “ अश्व इव रोमाणि ” इति ताण्डिश्रुतौ
तदवगमात् । तथा च सति श्रुत्या नदीमुत्तीर्य परित्याग इत्ययं कौषीतकि-
प्रोक्तः क्रमो बाधनीयः । तस्मान्मरणात्प्रागेवोपासकस्य सुकृतदुष्कृतयोः परित्यागः ” ।
अथ विज्ञानमयं बुद्धवतस्तदुपासकस्य मनोमये शरीरत्वंबुद्धिदार्ढ्यं पर्यवस्यतीति
दर्शयति—
त॒स्यैष एव शारी॑र आ॒त्मा । यः पूर्व॑स्य, इति ।
पूर्ववद्योजनीयम् । लोके करणस्य कुठारादेरात्मत्वं नास्ति । तथा मनोमयस्यापि
करणस्याऽऽत्मत्वाभावाच्छरीरकोटावन्तर्भावः परिशिष्यते ।
तस्माद्वा एतस्माद्विज्ञा॒नमयात् । अन्यो -
न्तर आत्माऽऽनन्द॒मयः । तेनैष पू॒र्णः ।
अथ विज्ञानमयकोशेऽप्यात्मत्वबुद्धिं वारयितुमानन्दमयमुपदिशति-तस्माद्वा इत्या-
दिना । आनन्दः परस्य ब्रह्मणः स्वरूपम् “आनन्दो ब्रह्मेति व्यजानात् ” “विज्ञान-
मानन्दं ब्रह्म” इत्यादिश्रुतिभ्यः । तस्याऽऽनन्दस्य विकारो वक्ष्यमाणप्रियमोदादिस-
ह आनन्दमयः । यद्यप्यानन्दो निर्विकारस्तथाऽपि घटाद्युपाधिभिराकाश इव
सात्त्विकान्तःकरणवृत्त्युपाधिभिः परिच्छेदे कल्पिते सति प्रियादिरूपतया विक्रियते ।
सोऽयमानन्दमयः कर्तृत्वाभिमानयुक्ताद्विज्ञानमयादभ्यन्तरः पृथगेवाऽऽत्मा । तेनाऽऽ-
नन्दमयेनैष पूर्वोक्तो विज्ञानमयः पूर्णः । यथा प्राणमयेन व्याप्ते देहे कृत्स्नेऽपि प्राण-
स्यैव चलनमुपलभ्यते । यथा च मनोमयेन व्याप्ते प्राणविशिष्टे देहे सर्वस्मिन्नपि मनः-
कार्यभूता चेतनत्वलक्षणा ज्ञानशक्तिरुपलभ्यते । यथा च विज्ञानमयेन व्याप्ते मनःप्रा-
णमयविशिष्टे देहे कृत्स्नेऽप्यहं कर्तेति कर्तृत्वमुपलभ्यते । एवमानन्दमयेन व्याप्ते
ज्ञानमनःप्राणविशिष्टे देहे हस्तपादादिषु सुखविशेषा उपलभ्यन्ते । तदेतदानन्दमय-
१ ग. घ. ॰रजां न॰ । २ ख. ॰था स॰ । ३ ख. ॰त्वदा॰ ।

पूर्णत्वम् । सुखवद्दुःखमपि हस्तादिषूपलभ्यत इति चेदुपलभ्यतां नाम । दुःखात्मकवृ-
त्तिहेतुना मनोमयेन देहस्य पूर्णतया तदुपपत्तेः । दुःखस्य मनोमयधर्मत्वं सुखस्याऽऽनन्द-
मयधर्मत्वं चोपरिष्टाद्विस्पष्टी करिष्यते । अत्रेदं चिन्तनीयम् । कोऽयमानन्दो नाम किं
दुःखनिवृत्तिराहोस्विद्भावरूप इति । तत्र दुःखाभाव इति तावत्प्राप्तम् । लोके
क्षुत्पिपासारोगादिजनितस्य दुःखस्य निवृत्तौ सुखबुद्धिदर्शनात् । ननु विरोधिनि दुःखे
वर्तमाने भावरूपं सुखं तिरोधीयते । अतः सुखाविर्भावकाले दुःखनिवृत्तिरपेक्षितेत्येक-
कालीनतया दुःखनिवृत्तौ सुखत्वभ्रम इति चेन्न । दुःखनिवृत्तिव्यतिरेकेण ज्वरमोचन-
काले कस्यचिद्भावरूपस्यानुभवाभावात् । तस्माद्दुःखनिवृत्तिरेवाऽऽनन्द इति प्राप्ते
ब्रूमः—अकस्मादुत्पन्नविपञ्चीस्वरश्रवणादन्तरेणापि दुःखपरामर्शमानन्दावभासेन भावरू-
पत्वं सिध्यति । अभावत्वे तु प्रतियोगिनिरूप्यत्वेन । दुःखस्मृतिपुरःसरमेव प्रतीयेत ।
घटाभावः पटाभाव इत्यादौ प्रतियोगिपूर्वकप्रतीतिनियमात् । एतच्च पूर्वाचार्यैरेव साधि-
तम् । आनन्दो दुःखाभावो न भवति तदनिरूप्यत्वात् । यद्दुःखेन न निरूप्यते तद्दुः-
खाभावो न भवति यथा घटः । यद्वा । आनन्दोऽयं भावरूपः प्रतियोग्यनिरूप्यत्वाद्-
घटवत् । यद्वा । आनन्दोऽयं भावरूपः सातिशयत्वाद्दुःखवदिति । सातिशयत्वं
चोपरिष्टात्सार्वभौमाद्यानन्देषु स्पष्टी भविष्यति । सिद्धे भावरूपत्वे पुनरप्येतच्चिन्तनी-
यम् । किमसावानन्दः क्रियारूपः किंवा गुणरूप उत कस्यचित्प्रतिबिम्ब आहोस्विद-
वच्छिन्नः पदार्थोऽथवाऽनवच्छिन्नः स्वतन्त्रो वेति । तत्र तावत्क्रियारूप इति प्राप्नोति ।
कुतः । तुनदि समृद्ध्वावित्यस्माद्धातोरानन्दशब्दनिष्पत्तेः । कौषीतकिनश्च कर्मेन्द्रि-
याणां मध्ये गुह्येन्द्रियस्याऽऽनन्दक्रियोपेतं विषयमामनन्ति— “प्रज्ञयोपस्थं समारुह्यो-
पस्थेनाऽऽनन्दं रतिं प्रजातिं चाऽऽप्नोति” इति । उपस्थजन्ययाऽऽनन्दक्रियया व्याप्य-
मानः शरीरावयवसंयोगोऽत्राऽऽनन्दशब्देनोच्यते । संयोगकालीना क्रीडा रतिः ।
संयोगफलभूतप्रजोत्पत्तिः प्रजातिः । यथा वागादीन्द्रियजन्या अभिवदनादयः क्रिया-
विशेषाः । तथोपस्थजन्य आनन्दोऽपि क्रियाविशेषः । तथा च सांख्या आहुः—
“वचनादानविहरणोत्सर्गानन्दास्तु पञ्चानाम्” इति । आर्थवणिकाश्च यथोक्तक्रिया-
विशिष्टान्कर्मेन्द्रियविषयानामनन्ति— “वाक्च वक्तव्यं च हस्तौ चाऽऽदातव्यं चोप-
स्थश्चाऽऽनन्दयितव्यं च वायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च” इति ।
तस्याश्चोपस्थजन्याया आनन्दक्रियाया मनोमयान्तःपातित्वादानन्दमयस्य विज्ञानमया-
दभ्यन्तरत्वमयुक्तमिति चेन्मैवम् । त्वदुक्तक्रियाया अतिरिक्तस्याऽऽनन्दस्यात्र विवक्षित-
त्वात् । स चाऽऽनन्दः कर्तृत्वभोक्तृत्वोपेतस्याऽऽत्मनो मनःसंयोगजन्यः क्षणिको गुण
इति वैशेषिकाणां मतम् । बुद्धिसुखदुःखेच्छादीनां नवानां तैश्चाऽऽत्मविशेषगुणत्वा-


१ घ. °ते । ततः । २ क. ग. छ. °नुभावा । ३ घ. प्रतीयते । ४ घ. तैरात्म° ।

...
Wait! What root or word starts with 'इ'?
इच्छा (icchā)!
त्वात् + इच्छायाः = त्वादिच्छायाः!
Why would it be "इच्छायाः प्रकृतेर्गुणत्रयपरिणामाः"?
Wait! Is it "इच्छायाः"?
Wait! In Sankhya, does Prakriti have "इच्छा"? No!
Wait, could it be:
"आत्मनोऽसङ्गत्वानिच्छायाः"?
Wait, what if it is:
"आत्मनोऽसङ्गत्वान्न चेच्छायाः प्रकृतेर्गुणत्रयपरिणामाः"?
No, look at the text:
' आत्मनोऽसङ्गत्वादिच्छायाः प्रकृतेर्गुणत्रयपरि-
Wait, is that a 'द' or 'च'?
Look at 'च' in "सांख्यास्तु" (line 1), "सुखं" (line 2).
Look at 'चिच्छाया':
"आत्मनोऽसङ्गत्वाच्चिच्छायाः प्रकृतेर्गुणत्रयपरिणामाः"
Wait! Look at 'च्चि':
In "त्वाच्चिच्छायाः":
If the word is "चिच्छाया" (cit-chāyā, reflection of consciousness):
Does Sankhya talk about "चिच्छाया"?
YES! "चिच्छायापत्ति", "चिच्छाया" is the MOST FAMOUS Sankhya concept in Vedanta and Sankhya texts

६१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०८अनु०२]
एक एव तु भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥
जलप्रविष्टश्चन्द्रोऽयमस्पष्टः कलुषे जले ।
विस्पष्टो निर्मले तद्वद्द्वेधा ब्रह्मापि वृत्तिषु ॥
घोरमूढासु मालिन्यात्सुखांशोऽत्र तिरोहितः ।
ईषन्नैर्मल्यतस्तत्र चिदंशः प्रतिबिम्बति ॥
यथाऽतिनिर्मले नीरे वह्नेरौष्ण्यस्य संक्रमः ।
न प्रकाशस्य तद्वत्स्याच्चिन्मात्रोद्भूतिरत्र हि ॥
काष्ठे त्वौष्ण्यप्रकाशौ द्वावुद्भवं गच्छतो यथा ।
शान्तासु सुखचैतन्ये तथैवोद्भूतिमाप्नुते ” ॥ इति ।
प्रतिबिम्बपक्ष इत्थमुदीरितः । अथावच्छिन्नपक्ष उच्यते । देहेन्द्रियाद्युपाधौ स्वय-
मेव भासमानस्य जीवात्मनः स्वरूपभूतो य आनन्दः सोऽयमवच्छिन्नोऽतिशयेन प्रीति-
विषयत्वात् । आत्मन आनन्दरूपत्वं तद्विषयत्वं च वाजसनेयिन आमनन्ति—“तदे-
तत्प्रेयः पुत्रात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा” इति । अहमहंप्रत्ययेनानुभूय-
मानो देहेन्द्रियादिसाक्ष्यात्मेति यदस्ति तदेतदतिशयेनाभ्यन्तरं स्वरूपं तँदेव वित्तपुत्रादि-
भ्यस्तारतम्येन प्रत्यासन्नेभ्योऽतिशयेन प्रियम् ।
तच्च तारतम्यं वार्तिककारो दर्शयति—
“ वित्तात्पुत्रः प्रियः पुत्रात्पिण्डः पिण्डात्तथेन्द्रियम् ।
इन्द्रियाच्च प्रियः प्राणः प्राणादात्मा परः प्रियः ” ॥ इति ।
आत्मव्यतिरिक्तेषु वित्तादिष्वात्मशेषत्वोपाधिना प्रीतिः । आत्मनि तु निरुपाधि-
कप्रीतित्वेन तस्याः प्रीतेः परत्वम् । एतच्च सर्वं मैत्रेयीब्राह्मणे—“ न वा अरे पत्युः
कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ” इत्यादिभिर्बहुभिरु-
दाहरणैः प्रपञ्चितम् ।
तानि चोदाहरणानि कैश्चिदेवं संगृहीतानि—
“ पतिँर्जायापुत्रवित्तपशुब्राह्मणभूमयः ।
लोका देवा वेदभूते सर्वं चाऽऽत्मार्थतः प्रियम् ” ॥ इति ।
मुख्यप्रीतिविषयत्वादात्मा मुख्यानन्दस्वरूपभूतः । एकैकदेहमात्रवर्तित्वादवच्छिन्नः ।
स च स्वाभाविकानन्दत्वाद्विम्बँरूपः । तदीयः प्रतिबिम्बोऽनुकूलवित्तपुत्रादिगोचरासु
१ ख. जलं प्र० । व. जले प्र० । २ ख. ॰मः । प्रकाशयति त० । ३ व. ॰रं रू० ।
४ क. ख. ङ. तत एव । ५ क. ङ. ॰देव सं० । ६ क. ख. ग. ङ. ॰तिर्जाया० । ७ व.
॰णबाहुजाः । लो० । ८ व. ॰का वेशा देवभू० । ९ क. ङ. ॰र्वं वाऽऽत्मा० । १० ग. व.
॰म्बभूतः । त० ।

[प्रपा० ८/अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६१५

शान्तवृत्तिष्ववभासते । तस्य प्रतिबिम्बस्य 'जलदर्पणादिप्रतिबिम्बवन्मिथ्यात्वादवच्छि-
न्नस्य वस्तुत्वेऽप्यवच्छेददोषोपेतत्वान्न तयोर्मुख्यानन्दत्वम् । यस्त्ववच्छेदराहितो ब्रह्म-
स्वरूपभूत आनन्दः स मुख्यः । तथा च च्छन्दोगा नारदसनत्कुमारसंवादे समा-
मनन्ति—“ सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति । यो वै भूमा
तत्सुखं नाल्पे सुखमस्ति । भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो
विजिज्ञास इति । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा । अथ
यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् । यो वै भूमा तदमृतमथ यदल्पं
तन्मर्त्यम् ” इति । अस्यायमर्थः । शोकस्य पारं तारयेत्येवं नारदेन प्रार्थितः सन-
त्कुमारः शोकतरणाय सुखरूपमेव त्वया विचारयितव्यमित्युवाच । तद्विचारमङ्गीकृ-
तवते नारदाय भूमपदार्थं सुखत्वेनोपदिदेश । बहोर्भावो भूमा । यथा प्रकरणोपपदयोः
संकोचहेत्वोरसत्त्वेन निरतिशयबृहत्त्ववाची ब्रह्मशब्द इति पूर्वत्रोक्तम्, एवमत्रापि
निरतिशयबाहुल्यवाची भूमशब्दः । लोके हि धनाल्पत्वे सुखं न दृष्टम् । किंतु धन-
बाहुल्य एव सुखं दृष्टम् । तस्मात्सुखात्मको भूमैव विचारणीय इत्युक्त्वा तद्विचाराभि-
मुखाय भूमलक्षणं यत्र नान्यदित्यादिनोपादिदेश । लोकव्यवहारे हि कश्चिद्द्रष्टा स्वस्मा-
दन्यद्रूपं चक्षुषा पश्यति । सेयं द्रष्टृदृश्यदर्शनरूपा काचिन्त्रिपुटी । तथा श्रोतृश्रोतव्य-
श्रवणविज्ञातृविज्ञातव्यविज्ञानाद्यस्त्रिपुट्यो यस्मिन्पदार्थे न सन्ति स पदार्थो भूमा ।
यंस्मिंस्तु मायारूपे त्रिपुट्यो विद्यन्ते तन्मायारूपमल्पम् । तयोर्मध्ये भूमा नाशरहितः ।
अल्पं तु विनश्वरम् । तस्मिन्नल्पे द्वैतरूपे दुःखनिमित्तानां संभवात्तदल्पं दुःखात्मकम् ।
भूम्नि त्वद्वैते तदभावात्सुखात्मको भूमेति । सोऽयं भूमा त्रिपुटीरहितयोः सुषुप्तिसमाध्योः
सुखात्मकोऽनुभूयते । जागरणव्युत्थानयोस्तु त्रिपुटीयुक्तयोर्लोकव्यवहाररूपोऽल्पारख्यः
पदार्थो मूर्खण तत्त्वविदो च दुःखात्मकोऽनुभूयते । अतो दुःखमिश्रत्वादवच्छिन्नो जीवा-
त्मस्वरूपभूत आनन्दस्तत्प्रतिबिम्बरूपो वृत्त्यानन्दश्च न मुख्यः । किंतु भूमैव मुख्या-
नन्द इति सिद्धम् ।
स वा ए॒ष पु॑रुषवि॑ध ए॒व । तस्य॑ पुरु॑षविध-
ताम् । अन्व॒यं पुरु॑षवि॒धः । तस्य॑ प्रि॒यमे॒व शिर॑ः ।
मोदो॒ दक्षि॑णः प॒क्षः । प्र॒मोद॒ उत्त॑रः प॒क्षः ।
आ॒नन्द॑ आ॒त्मा । ब्रह्म॒ पुच्छं॒ प्रति॑ष्ठा ।
एतस्याऽऽनन्दस्य विकारे प्रियमोदादिरूप आनन्दमये स्वात्मत्वबुद्धिदार्ढ्यार्थमुपा-
सनीयं स्वरूपं दर्शयति—स वा इत्यादिना । य आनन्दमयो विज्ञानमयादभ्यन्तरः

१ घ. यस्मिन्माया° । २ घ. °दा चानुभू° ।

स एवैषोऽहं सुखी भोक्तेत्येवमनुभूयमानो विज्ञानमयस्य शिरःपक्षादिपुरुषाकारमनु
स्वयमपि पुरुषाकार एव प्रियमोदप्रमोदाः सात्त्विकवृत्तिप्रतिबिम्बिता आनन्दाः ।
तत्राभीष्टपुत्रादिदर्शनजन्यं प्रियम् । तल्लाभजन्यो मोदः । तत्कृतोपकारजन्यः
प्रमोदः । यथोक्तवृत्त्युपादानभूताज्ञाने प्रतिबिम्बित आनन्दः । यद्वा वृत्तिप्रति-
बिम्बानां प्रतियोगिजीवात्मस्वरूपभूतोऽवच्छिन्नो बिम्बस्थानीयः स आनन्दः । अनव-
च्छिन्नो मुख्य आनन्दो ब्रह्म तदेवेतरेषां प्रतिष्ठाऽऽधारः । अवच्छिन्नस्य प्रतिबि-
म्बानां च तदधीनत्वात् । यद्यपि प्रियमोदप्रमोदा मनसः करणरूपस्य वृत्तिविशेष-
तया कर्तृरूपाद्विज्ञानमयाद्बहिर्भूतास्तथाऽप्यन्तरस्यावच्छिन्नजीवानन्दस्यानवच्छिन्नब्रह्मा-
नन्दस्य वा प्रतिबिम्बं धारयन्तीत्यान्तरत्वमभिप्रेत्य विज्ञानमयादभ्यन्तर आत्माऽऽ-
नन्दमय इत्युक्तम् । तमेतमानन्दमयमात्मानमुपासीनो यदा भावनया साक्षात्करोति
तदा पुच्छत्वेनोपचरिते ब्रह्मण्यप्यैकाग्र्यं प्रतिपन्ना मनोवृत्तिः प्रतिबिम्बाभावाद्ब्रह्मतत्त्वं
साक्षात्करोत्येव “ दृश्यते त्वग्र्यया बुद्ध्या ” इति श्रुतेः । यथा मणिप्रभायां मणित्व-
भ्रान्त्या प्रवर्तमानस्यार्थान्मणितत्त्वसाक्षात्कारस्तद्वत् ।
अयमेवार्थीत्सिद्धो ब्रह्मतत्त्वसाक्षात्कार उपास्तिफलमित्यभिप्रेत्य श्रुतिः फलान्तरमन-
भिधाय केवलं ब्रह्म पुच्छं प्रतिष्ठेत्येवं सर्वजगदाधारभूतब्रह्मतत्त्वोपदेशे पर्यवसिता
ततोऽस्मिन्नानन्दमयकोशे प्रधानभूतस्य ब्रह्मणः प्रतिपादकं श्लोकमुदाहरति—
तदप्येष॒ श्लोको॑ भवति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
अथाष्टमे षष्ठोऽनुवाकः ।
अस॑न्नेव॒ स भ॑वति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् । अस्ति॒
ब्रह्मेति॑ चेद्वे॒द । सन्त॑मेनं ततो विदु॒रिति॑, इति ।
लोके हि जलाहरणचाक्षुषदर्शनादिव्यवहारविषयं घटमुद्दिश्य प्राणिनः सर्वेऽप्ययं
घटोऽस्तीति ब्रुवते । तद्विपर्यये तु घटो नास्तीति च वदन्ति । अतो व्यवहारवासना-
युक्तः पुमानन्वयव्यवहार्यस्य ब्रह्मणोऽसत्त्वं मन्यते । अन्यस्तु विवेकी व्यवहाराणां
भूतानां भौतिकानां च श्रुतियुक्त्यनुभूतिभिर्मायामयत्वनिश्चयादसत्त्वं प्रतिपद्यते
व्यवहारातीतस्य ब्रह्मणः श्रुत्यादिभिः सत्यत्वनिश्चयात्सत्त्वमेव प्रत्येति । तत्र ब्रह्म-
णोऽसत्त्वं यो वेद स पुमानसन्नेव स्यात् । अन्नमयादिकोशानामात्मत्वस्य प्रति-
पादितत्वात्तदतिरिक्तस्य ब्रह्मणः स्वयमनङ्गीकृतत्वाच्च । यस्तु पञ्चकोशातीतं ब्रह्म


१ घ. ०भूतस्य । २ ख. ग. ०सत्त्वं सा° । ३ घ. ०न्प्यव्यव° ।

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६१७

स्तीति वेद तस्य पुंसस्तदेव ब्रह्म स्वरूपम् । ततो ब्रह्मास्तित्ववेदनादेनं विवेकिनं सन्तं
विद्यमानं सात्मकं जानन्ति शास्त्रपारं गताः । अथवा योऽसद्ब्रह्मेति वेद सोऽसन्नसाधुरेव
भवति । वर्णाश्रमादिव्यवस्थालक्षणस्य सर्वस्य सन्मार्गस्य ब्रह्मप्रतिपत्त्यर्थतया ब्रह्मापला-
पेन सर्वसन्मार्गदूषको नास्तिको भवति । अस्तित्त्ववादिनमुक्तविपर्ययेण सन्तं सर्वसन्मार्ग-
स्थापकमाहुः । एतदेवाभिप्रेत्य कठा आमनन्ति—" अस्तित्येवोपलब्धव्यः ” इति ।
अथोपासकस्याऽऽनन्दमये बुभुत्सोश्च ब्रह्मतत्त्वे¹ त्वात्मबुद्धिं द्रढयितुमाह—
तस्यैष एव शारीर आ॒त्मा । यः पूर्व॑स्य, इति ।
य आनन्दमयोऽस्ति स एष एव तस्य पूर्वस्य विज्ञानमयस्य शारीरः स्वामी ।
विज्ञानमयः शरीरम् । आनन्दमय आत्मेत्युपासकं प्रति योजनीयम् । बुभुत्सुं प्रति त्वेवं
योजयेत् । यो ब्रह्म पुच्छमित्युक्तः पदार्थ एष एव तस्य पूर्वस्य प्रियमोदादिचतुष्टयस्य
शारीर आत्मा । प्रियादिकं शरीरं तस्मिञ्शरीरेऽवस्थितं ब्रह्मैवाऽऽत्मेति ।
एतदेवाभिप्रेत्य वार्तिककारा आहुः—
मिथ्यात्मनां हि सर्वेषां सत्यादिगुणलक्षणम् ।
व्याविद्धाशेषसंसारमात्मानं तं प्रचक्षते ॥
न ह्यात्मवान्भवेत्सर्पो दण्डाद्यध्यासरूपिणा ।
आत्मना ह्येष सत्येन सर्पो रज्ज्वात्मनाऽऽत्मवान् ” ॥ इति ।
अथ मीमांसा । तत्रैकदेशिनां विचारः प्रथमाध्यायस्य प्रथमपादे* दर्शितः—
“संसारी ब्रह्म वाऽऽनन्दमयः संसार्थयं भवेत् ।
विकारार्थमयट्शब्दात्प्रियाद्यवयवोक्तितः ॥
अभ्यासोपक्रमादिभ्यो ब्रह्माऽऽनन्दमयो भवेत् ।
प्राचुर्यार्थो मयट्शब्दः प्रियाद्याः स्युरुपाधयः ” ॥ इति ।
तैत्तिरीयके देहप्राणमनोबुद्ध्यानन्दरूपा अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमय-
संज्ञकाः पञ्च पदार्थाः क्रमेणैकैकस्मादान्तराः पठिताः । तत्र सर्वान्तर आनन्दमयः
संसारी परमात्मा वेति संदेहः । संसारीति³ तावत्प्राप्तम् । कुतः । आनन्दस्य विकार
आनन्दमय इति व्युत्पत्तेः संसारिणि संभवात् । अविक्रिये परमात्मन्यसौ न संभवति ।
किंच—“ तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः ।

  • आनन्दमयोऽभ्यासात्—ब्र० सू० अ० १ पा० १ अ० ६ । सू० १२ ।
    १. ॰त्सोर्वाऽऽत्मतत्त्वे त्वात्मत्वम् । २ ख. ॰हः। आनन्दमय. सं° । ३ क. ख. ग. ङ.
    ॰ति प्राप्तं ।
    ७८

आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठा " इत्यानन्दमयस्य पञ्चावयवा उच्यन्ते । अपेक्षि-
तविषयदर्शनजन्यं सुखं प्रियम् । तल्लाभजन्यो मोदः । तद्भोगजन्यः प्रमोदः । सुषु-
पत्यादौ भासमानमज्ञानोपहितं सुखसामान्यमानन्दः । निरुपाधिकं सुखं ब्रह्म । प्रियादीनां
पञ्चावयवानां शिरआदिरूपत्वमुपास्तिप्रतिपत्तिसौकर्याय कल्प्यते । कल्पितस्याऽऽन-
न्दमयस्य शिरः पक्षौ चेत्यवयवत्रयम् । आत्मशब्देन मध्यशरीरं चतुर्थावयवत्वेनोच्यते ।
पुच्छमपरभागः । प्रतिष्ठाऽऽधारः पञ्चमोऽवयवः । न च निरंशस्य परमात्मनोऽवयवा
युक्ताः । तस्मात्संसार्येवाऽऽनन्दमय इत्येवं प्राप्ते ब्रूमः—आनन्दमयः परमात्मा । कुतः।
अभ्यासात् । " सैषाऽऽनन्दस्य मीमाᳪसा भवति । एतमानन्दमयमात्मानमुपसंक्रामति "
इत्यादिनाऽऽनन्दमयोऽभ्यस्यते । अभ्यासश्च तात्पर्यलिङ्गम् । तात्पर्यं च वेदान्तानां
ब्रह्मण्येवेत्यवोचाम । किंच—"सत्यं ज्ञानमनन्तं ब्रह्म " इति ब्रह्मोपक्रमात् " इदं
सर्वमसृजत " इति सर्वजगत्स्रष्टृत्वादिभ्यश्चाऽऽनन्दमयो ब्रह्म । न च ब्रह्मणि मयट्श-
ब्दानुपपत्तिः । प्राचुर्यार्थसंभवात् । प्रियाद्यवयवा अपि विषयदर्शनाद्युपाधिकृता भविष्यन्ति।
तस्मात्परमात्माऽऽनन्दमय इत्येकदेशिनां मतम् ।
इदानीं स्वमतानुसारेणाधिकरणमुच्यते -
"अन्याङ्गं स्वप्रधानं वा ब्रह्म पुच्छमिति श्रुतम् ।
स्यादानन्दमयस्याङ्गं पुच्छेऽङ्गत्त्वप्रसिद्धितः ॥
लाङ्गूलासंभवादत्र पुच्छेनाऽऽधारलक्षणा ।
आनन्दमयजीवोऽस्मिन्नाश्रितोऽतः प्रधानता" ॥ इति ।
" ब्रह्म पुच्छं प्रतिष्ठा " इति यच्छ्रुतं ब्रह्म तत्किमानन्दमयस्याङ्गत्वेन निर्दिश्यत
उत स्वयं प्राधान्येन प्रतिपाद्यत इति संशयः । आनन्दमयस्यावयवत्वेनेति तावत्प्राप्तम् ।
लोके पुच्छशब्दस्यावयववाचित्वेन प्रसिद्धत्वादिति प्राप्त उच्यते-- न पुच्छशब्दोऽव-
यववाची । किंतु लाङ्गूलवाची । न चाऽऽनन्दमयस्य लाङ्गूलं संभवति । लाङ्गूलस्य गवा-
दिलक्षणान्न मयावयवत्वात् । अतः पुच्छशब्दस्य मुख्यार्थासंभवे सति योग्यतावशाद-
त्राऽऽधारो लक्ष्यते । ब्रह्माऽऽनन्दमयस्य जीवस्याऽऽधारस्तत्कल्पनाधिष्ठानत्वात् । न
चाऽऽनन्दमयः परमात्मा । प्राचुर्यार्थस्वीकारेऽप्यल्पदुःखसद्भावप्रतीतेः । तस्माज्जीवा-
धारत्वाद्ब्रह्म प्राधान्येन प्रतिपाद्यते । तथा—" असन्नेव स भवति । असद्ब्रह्मेति वेद
चेत् " इत्यादिब्रह्माभ्यासः " ब्रह्मविदाप्नोति " इति ब्रह्मोपक्रमश्चानुकूलो भवति ।
अतः कठवल्ल्युक्तपुरुषन्यायेन ब्रह्मैव ज्ञेयम् । न त्वाकाशादिसृष्टिरन्नमयादिकोशाश्च ।
१ क. ख. ङ. °क्षणम् । आ° । २ घ. स्वप्रा° । ३ घ. °शादाधा° । ४ ख. °था चास° ।

स च न्यायस्तृतीयाध्यायस्य *तृतीयपादेऽभिहितः—
“सर्वा परम्पराऽक्षादेर्ज्ञेया पुरुष एव वा ।
ज्ञेया सर्वा श्रुतत्वेन वाक्यानि स्युर्बहूनि हि ॥
पुमर्थः पुरुषज्ञानं तत्र यत्नः श्रुतेर्महान् ।
तद्बोधाय श्रुतोऽक्षादिर्वेद्य एकः पुमानतः ॥
कठवल्लीषु पठ्यते—“इन्द्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः । मनसस्तु
परा बुद्धिर्बुद्धेरात्मा महान्परः । महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं
किंचित्सा काष्ठा सा परा गतिः” इति । अस्यायमर्थः—मनसा विषयानाभिलैप्य पश्चा-
दिन्द्रियैर्बाह्यान्विषयानाप्नोति । तत्र बाह्यविषयेभ्य इन्द्रियाणामान्तरत्वात्परत्वं प्रसिद्धम् ।
इन्द्रियेभ्यश्चाभिलप्यमानत्वदशापन्ना अर्था आन्तरास्तेभ्योऽप्यभिलाषात्मिका मनोवृत्ति-
रन्तरा । वृत्तेरपि वृत्तिमती बुद्धिरभ्यन्तरा । बुद्धेरपि बुद्धयुपादानभूतो महच्छब्द-
वाच्यो हिरण्यगर्भरूप आत्माऽऽन्तरः । महतोऽपि तदुपादानभूतमव्यक्ताख्यं मूलाज्ञान-
मान्तरम् । अव्यक्तादपि तदधिष्ठानभूताश्चिद्रूपः पुरुषोऽभ्यन्तरः । पुरुषादभ्यन्तरं न
किंचिदस्ति । पुरुष एवाभ्यन्तरतारतम्यस्य विश्रान्तिभूमिः । पुरुषार्थकामैः परमो गन्तव्यः
प्रदेशश्चेति । तत्र यथा पुरुषः श्रुत्या तात्पर्यण प्रतिपाद्य एवमिन्द्रियादिपरम्पराऽपि
प्रतिपाद्यैव । अन्यथा तदुपन्यासवैयर्थ्यात् । बहूनां प्रतिपादने वाक्यभेदः स्यादिति
चेद्बाढम् । सन्त्येव तानि बहूनि वाक्यानि । एकवाक्यत्वस्यासंभवादिति प्राप्ते ब्रूमः—
पुरुषज्ञानस्याशेषसंसारनिदानभूताज्ञाननिवर्तकत्वात्पुरुष एव ज्ञेयतया प्रतिपाद्यः । अत
एव वाक्यशेषे पुरुषज्ञानायैव महता प्रयत्नेन योग उपदिष्टः ।
“एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते ।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः” ॥ इति ।
अयमर्थः—सर्वाभ्यन्तरत्वेन गूढ आत्मा बहिर्मुखानां( णां ) न प्रकाशते । अन्तर्मु-
खानां( णां ) तु प्रकाशते । अन्तर्मुखा ये सूक्ष्मतत्त्वदर्शनशीलास्तैर्योगाभ्यासेनेकाग्र्य-
मापन्नया बुद्ध्या सूक्ष्मवस्तुविषयया द्रष्टुं शक्यत इति । न च पुरुषस्यैव प्रतिपाद्यत्वे
परम्परोपदेशवैयर्थ्यम् । बहिर्मुखस्य चित्तस्य क्रमेण पुरुषप्रवेशे परम्परायाः साधनत्वात् ।
तस्मात्पुरुष एव ज्ञातव्यः” ।
अनेन न्यायेन ब्रह्मण आनन्त्यमुपपादयितुमाकाशादिसृष्टिरुक्ता । गुहाहितत्वमुप-
पादयितुं पञ्चान्न मयादिकोशा उपन्यस्ताः । ज्ञातव्यं तु ब्रह्मैव । तच्च सत्यज्ञानादिलक्षणं
गुहाहितत्वेन प्रत्यगात्मस्वरूपं चेति स्थितम् ।

  • आध्यानाय प्रयोजनाभावात्—ब्र० सू० अ० ३ पा० ३ अ० ७ सू० १४ ।
    १ क. ख ढ. ॰लक्ष्य प० । २ क. ङ. उपादिष्टः ।

इत्थं ब्रह्मोपदेशरूपं श्रवणप्रकरणं परिसमाप्य बहिर्मुखाना( णा )मुपपादनरूपा-
मननप्रकरणस्याऽऽरम्भे शिष्यप्रश्नान्प्रतिजानीते—
अथातो॑ऽनुप्र॒श्नाः, इति ।
उपदेशानन्तरमुपदिष्टेऽर्थे यस्मात्कारणाच्छिष्यस्य बुद्धिदोषेण बहवः संदेहाः प्रादुर्-
भवन्त्यतः कारणादुपदिष्टानुरूपाः प्रश्नाः क्रियन्ते । अत्राथशब्देन विवक्षितं श्रवणम-
ननयोः पूर्वापरभावमन्वत्र विस्पष्टमेव श्रुतिराह—“ श्रोतव्यो मन्तव्यः ” इति । तयोः
स्वरूपमेवं स्मर्यते—“ श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः ” इति ।
तयोः प्रयोजनं विभज्याऽऽम्नायते—“ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः १
इत्युपदेशेन ब्रह्मतत्त्वे ज्ञाते सति प्रत्यगात्मनोऽन्तःकरणेन सह तादात्म्यभ्रमस्वरूपो
ग्रन्थिर्निवर्तते । उपपत्तिपर्यालोचनरूपेण मननेन संशयाश्छिद्यन्ते । तस्मादत्र च्छेत्तव्य-
संशयोपन्यासरूपाः प्रश्नाः क्रियन्त इत्यर्थः ।
प्रतिज्ञातान्प्रश्नानुपन्यस्यति —
उ॒तावि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्च॒न ग॑च्छती ३ । आहो॑
वि॒द्वान॒मुं लो॒कं प्रेत्य॑ । कश्चि॒त्सम॑श्नुता ३ उ॑, इति ।
यदुक्तम्—“ब्रह्मविदाप्नोति परम्” इति तेन बुद्धिस्थेन तत्प्रतियोगिन्यविदुषि द्वौ
प्रश्नौ क्रियेते । उतशब्दः प्रश्नद्योतकः किमित्येतस्मिन्नर्थे वर्तते । चनशब्दोऽपिश-
ब्दार्थवाची । अमुं लोकमिति पुरोवर्ती परमात्मोच्यते । किमविद्वान्यः कोऽपि देहा-
त्प्रेत्य परमात्मानं गच्छतीति श्रौत आद्यः । अथवा न गच्छतीत्यर्थसिद्धो द्वितीयः
प्रश्नः । तथा विद्वद्विषयावपि द्वौ प्रश्नावित्येवं चत्वारः प्रश्नाः । सर्वजगत्कारणस्य
जीवरूपेण देहेषु प्रविष्टस्य ब्रह्मणो विद्वदविद्वत्साधारणत्वेन विदुषस्तत्प्राप्तावविद्वानपि
प्राप्नुयात् । अविदुषोऽप्राप्तौ विद्वानपि न प्राप्नुयादिति चतुर्णां प्रश्नानामभिप्रायः ।
यद्वा श्रूयमाणौ विद्वदविद्वद्विषयौ द्वावेव प्रश्नौ । पूर्ववाक्यसूचितेन प्रश्नेन सह समुच्चि-
तत्वाद्बहुवचननिर्देशः ।
पूर्ववाक्ये हि—“असद्ब्रह्मेति वेद चेदस्ति ब्रह्मेति चेद्वेद ” इतिकोटिद्वयोपन्यासेन
सूचितो ब्रह्मसद्भावविषयः प्रथमः प्रश्नः । एतस्य प्रश्नस्योत्तरत्वेन गुरुर्ब्रह्मणः सद्भावं
साधयितुं सृष्टिमुपन्यस्यति --
सो॑ऽकामयत । ब॒हु स्यां॒ प्रजा॑ये॒येति॑ । स तपो॑ऽ-
तप्यत । स तप॑स्त॒प्त्वा । इ॒दꣳ सर्व॑मसृजत, इति ।
१ घ. 'विद्यते । २ क. घ. ङ. °षयेऽपि । ख. °षये द्वौ ।

[प्रपा०८/अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६२१
ब्रह्म पुच्छं प्रतिष्ठेति निर्दिष्टो योऽयं ब्रह्मपदार्थोऽन्नमयादीनामानन्दमायान्तानां
पञ्चानां कोशानां शारीर आत्मेत्युक्तः सोऽयमात्मा सृष्टेः पूर्वमेक एवाद्वितीयः सन्स्व-
शक्तिसंयोगात्कामितवान् । आत्मन्याश्रिता मायाशक्तिः कामनाकारेण विक्रियामा-
पद्यत इत्यर्थः । न ह्यविक्रियस्य चिदेकरसस्य मायामन्तरेण कामः संभवति । *यद्य-
प्यस्तीश्वरस्य मायाकल्पितः कामस्त+थाऽपि कामित्वेन जीववन्नित्यतृप्तो न स्यादिति
चेन्न । लीलाश्वासादिदृष्टान्तेन मीमांसायां परिहृतत्वात् । कामितार्थस्य काचिदपि
विघाताभावादपि जीववैषम्यम् । अत एव—"सत्यकामः सत्यसंकल्पः” इत्यन्यत्राऽऽ-
म्नातम् । कामनाप्रकार एव निर्दिश्यते—बहु स्यां प्रभूतं भवेयम् । नन्वाकाशस्य
घटादिपदार्थान्तरोपाधिकृतं बहुवचनं दृष्टमद्वितीयस्य तु कथं बहुतेत्याशङ्क्योच्यते—
प्रजायेय प्रकर्षेण पूर्वावस्थितात्स्वरूपादाधिक्येनोत्पद्येय । ननु विद्यमानः पिता
पुत्रमुत्पादयति न तु स्वयमुत्पद्यते । तथा सत्यत्रापि जगदुत्पादकस्य ब्रह्मणः
स्वोत्पत्त्यभावात्प्रजायेयेत्युक्तिरनुपपन्नेति चेन्न । उत्पद्यमानयोर्नामरूपयोर्ब्रह्मणोऽत्य-
न्तभेदाभावात् । यथा समुद्रादाविर्भवन्तस्तरङ्गादयो नात्यन्तं भिन्नास्तथा ब्रह्मशक्तौ
मायायामवस्थिते पूर्वमनभिव्यक्ते नामरूपे पश्चादभिव्यज्यमाने सती ब्रह्मणः सद्रू-
पामपरित्यज्यैव स्वयमपि सद्रूपत्वेन भासेते । एतदेवाभिप्रेत्य वाजसनेयिन
आमनन्ति—"तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत ” इति । तस्मा-
द्ब्रह्मण एव मायया जगद्रूपेण प्रतिभासात्प्रजायेयेत्युक्तिरुपपद्यते । स परमात्मोक्तप्रकारेण
कामयमानस्तपोऽतप्यत । तपःशब्देन ज्ञानमुच्यते । “यस्य ज्ञानमयं तपः ”
इति श्रुत्यन्तरात् । सृज्यमानजगद्रचनालोचनमकरोदित्यर्थः । न खलु परमेश्वरस्य
कृच्छ्रचान्द्रायणादिरूपेण तपसा किंचित्प्रयोजनमस्ति । स परमेश्वरः स्रष्टव्यवस्तुपर्या-
लोचनं कृत्वा प्राणिकर्मनिमित्तानुरूपमिदं सर्वं जगद्देशतः कालतो नाम्ना रूपेण
च सर्वप्राणिभिः सर्वावस्थैरनुभूयमानं सृष्टवान् । अत्र कामयितृत्वपर्यालोचक-
त्वजगत्स्रष्टृत्वरूपैर्हेतुभिः परमात्मनः सद्भावः प्रतिपाद्यते । असद्वादी तावदेवं
मन्यते—यद्यदस्ति तत्सर्वं नामरूपात्मकमित्याकाशादिभूतेषु देवतिर्यगादिभौतिकदेहा-
दिषु चेत्यादिव्याप्तिर्दृष्टा । परमात्मा तु नामरूपाभ्यामन्यः “आकाशो वै नाम
नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म ” इति श्रुत्यन्तरात् । यस्तु परमात्मा ब्रह्मे-
त्यादिव्यवहारः सोऽपि तत्सद्भावं साधयितुं न प्रभवति । नरविषाणादिवत्तस्य विकल्प-
मात्रत्वात् । “ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ” इति हि पातञ्जलं सूत्रम् ।
ततो नामरूपे ब्रह्मणो व्यावर्तमाने स्वव्याप्यं सद्भावमपि व्यावर्तयतः । एवं च सति

  • यदीत्यर्थः । + तर्हीत्यर्थः ।
    १ ग. ॰त्यन्तभिं॰ । २ घ. ॰ष्टत्वादिरू॰ । ३ ग. ॰व्यातं सं॰ ।

६२२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०८ अनु०२]
“ असद्वा इदमग्र आसीत् ” “ यतो वाचो निवर्तन्ते ” “ अथात आदेशो नेति
नेति ” “ अस्थूलमनण्वह्रस्वम् ” इत्याद्याः श्रुतयोऽनुगृहीता भविष्यन्ति । तस्मान्नास्ति
ब्रह्मेति । तमेतमसद्वादिनं प्रति सद्भावः साध्यते । परमात्मा सद्रूपः कामयितृ-
त्वात्स्वर्गादिकामयितृवत् । पर्यालोचकत्वाद्राजमन्त्रिवत् । स्रष्टृत्वात्कुम्भकारादिवत् ।
यत्तु नामरूपयोः सत्त्वं भवतोदाहृतं तदेवास्मदभिप्रेतं ब्रह्म । सद्रूपे ब्रह्मण्यधिष्ठाने
मायया नामरूपयोः कल्पितत्वात् । असद्वा इत्यादेस्त्वर्थो वक्ष्यते ।
किंच ब्रह्म सद्रूपं प्रवेष्टृत्वाद्यथा गृहादौ प्रवेष्टा पुरुष इत्यभिप्रेत्य प्रवेशं दर्शयति—
यदि॒दं किंच॑ । तत्सृ॒ष्ट्वा॑ । तदे॒वानु॒प्रावि॑शत्, इति ।
हिरण्यगर्भादिस्थावरान्तं शरीरजातं यत्किंचिदस्ति तत्सर्वं सृष्ट्वा तदेव सृष्टं शरीर-
जातं परमात्मा प्राविशदित्यर्थः । अत्रेदं चिन्तनीयम् । यः परमात्मा स्रष्टाऽस्ति
स किं तेनैव रूपेण प्राविशत्किंवा रूपान्तरेणेति । तत्र सृष्ट्वेति क्त्वाप्रत्ययेन
सृष्टिप्रवेशयोः समानकर्तृकत्वावगमात्स्वस्रष्टृरूपेणैव प्रवेश इति चेन्न । मृत्पिण्डवदु-
पादानस्य प्रवेशानुपपत्तेः । न खलु यो मृत्पिण्डो घटाकारेण परिणतः स एव
घटमनुप्रविशति । तथा शरीराकारेण परिणतस्य स्रष्टुस्तेष्वेव शरीरेषु कथं प्रवेशो
घटेत । ननु तर्हि रूपान्तरेण प्रवेशोऽस्तु । यथा मृत्पिण्डविकारे घटे पुनरन्या चूर्ण-
रूपा मृत्प्रविशति । तथेश्वररूपेण प्रवेशाभावे जीवरूपेण प्रवेशः स्यात् । मैवम् ।
अद्वयस्य रूपद्वयाभावात् । तदङ्गीकारेऽपि प्रवेष्टव्यप्रदेशाभावात् । उपादानत्वेन
सर्वकार्येषु पूर्वमेवानुगतोऽवतिष्ठते । तथासति परमात्मशून्यप्रदेशाभावेन कुत्रायं
प्रविशेत् । अवस्थिते परमात्मन्येव प्रविशेदिति चेन्न । तदेवानुप्राविशदिति सृष्टे
कार्ये प्रवेशश्रवणात् । सृष्टं शरीररूपं कार्यं पुनर्जीवलक्षणकार्यान्तराकारेण परिणमते ।
सोऽयं परिणामः प्रवेश इति चेन्न । कुम्भकारपरिणामस्य पुनः शरीराकारपरिणा-
मादर्शनात् । जलसूर्यकादिप्रतिबिम्बवत्प्रवेशः स्यादिति चेन्मैवम् । अपरिच्छिन्न-
त्वादमूर्तत्वाद्विप्रकृष्टदेशावस्थितस्य प्रतिबिम्बाधारस्याभावाच्च । परिच्छिन्नो मूर्त्तश्च
सूर्यबिम्बो विप्रकृष्टदेशस्थे जलादौ प्रतिबिम्बितो भवति । ब्रह्म तु न परिच्छिन्नम्
नापि मूर्तम् । न च ब्रह्मणो विप्रकृष्टदेशवर्ती कश्चिदुपाधिरस्ति । तस्मान्न केनापि
प्रकारेण प्रवेश उपपादयितुं शक्यते । अत्रोच्यते । जगत्सृष्टिवदयं प्रवेश उपपाद-
नीयः । अचिन्त्यरचन,रूपं जगद्यथा परमेश्वरो मायाबलेन ससर्ज तथा मायाबले-
नैव प्रविशतु । अथोच्येत । येयमाकाशादिका मायामयी सृष्टिर्न तां वस्तुत्वबुद्ध्या
श्रुतिः प्रतिपादयति । किं तर्हि मृद्धटन्यायेन कार्यस्य कारणव्यतिरेकेणाभावं विव-
क्षित्वा ब्रह्मण आनन्त्यं पूर्वत्र प्रतिज्ञातमुपपादयितुं भ्रान्तिसिद्धा सृष्टिरनूद्यत १ इति
१ घ. ˚वेशानु˚ ।

[प्रपा०८ अनु०२] कृष्णयजुर्वेदाय तैत्तिरीयारण्यकम् । ६२३
तर्हि प्रतिज्ञातं गुहानिहितत्वं पञ्चकोशोपन्यासद्वारेण ब्रह्म पुच्छमित्युपपाद्य पुनरपि तदेव
दृढीकर्तुं भ्रान्तिसिद्धः प्रवेशोऽनूद्यताम् । यथा कश्चित्पुमान्गृहं निर्माय तत्र प्रविश्या-
भ्यन्तरे स्थित उपलभ्यते, एवं ब्रह्माप्याकाशादिकार्यं सृष्ट्वा तस्यान्तः प्रविष्टमिव हृदय-
पुण्डरीकेऽवस्थितायां बुद्धौ द्रष्टृ श्रोतृ विज्ञात्रित्येवं विशेषवदुपलभ्यते । सोऽयमस्य प्रवेश
त्युपचर्यते । वाजसनेयिभिरप्ययं प्रवेश आम्नायते— “ स एष इह प्रविष्ट आनखा-
ग्येभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलायः ” इति ।
एतस्य वाक्यार्थो वार्तिकसारे विस्पष्टमाख्यातः—
“ तच्छब्देन परामृष्टः साक्ष्यव्याकृतभासकः ।
एतच्छब्देन कार्यस्थः प्रत्यक्ष उपदिश्यते ॥
अद्वितीयमधिष्ठानं कार्यस्थः सद्वयस्तयोः ।
स एष इत्यभेदोक्तिर्दुष्करेति न चोद्यताम् ॥
अज्ञातवस्तुतत्त्वस्य दुष्करं नास्ति किंचन ।
नीलीकृतं नभः पश्येच्चक्षुषा नीलवस्त्रवत् ॥
योग्यायोग्यव्यपेक्षेयं मानव्यवहृतौ भवेत् ।
कल्पनामात्रनिष्पत्तेर्नापेक्षाऽज्ञानभूमिषु ॥
इहेत्यनेन सूत्रादिस्थाणुपर्यन्तविग्रहाः ।
उच्यन्ते तेषु जीवोऽयं विस्पष्टमुपलभ्यते ॥
प्रविष्ट इति शब्देन चिदाभासस्तमोन्विता ।
जीवत्वेनोपलब्धिर्या चितः सैषाऽभिधीयते ॥
चिदाभासप्रवेशस्तु प्रत्यङ्मोहे स्वतो भवेत् ।
तत्कार्येष्वनुवृत्तः सन्नुपाधिश्रितप्रवेशने ॥
जपाकुसुमरक्तत्वं स्फटिके कल्पितं यथा ।
चिदाभासप्रवेशोऽयं चित्यध्यारोप्यते तथा ॥
सूत्रादिस्थाणुपर्यन्तं जगत्सृष्ट्वाऽऽत्ममायया ।
स्वाभासैकस्वभावेन स एवं प्राविशत्परः ॥
आनखाग्रेभ्य इत्युक्ता मर्यादाऽस्य प्रवेशने ।
उष्णस्पर्शेन चैतन्यं नखाग्रावधि लक्ष्यते ॥

१ क. ख. ङ. °लक्ष्यते । २ घ. पश्येद्यक्षु° । ३ ख. 'तयोन्विता । ४ ग. 'र्याऽन्विता
ख. एव । ६ क. ख. ङ. °त्युक्त्या म° । ७ क. ख. ङ. उष्णं स्प° । ८ घ. लभ्यते ।

सामान्येन विशेषाच्च चिद्देहं व्याप्य वर्तते ।
दृष्टान्ताभ्यां द्वयी वृत्तिर्द्विविधाऽऽस्यामिहोच्यते ॥
दारु कृत्स्नमभिव्याप्य यथाऽग्निर्दारुणि स्थितः ।
संव्याप्य देहमखिलं तद्वदात्मा व्यवस्थितः ॥
तस्थावसंव्याप्य यथा क्षुरपौत्रं क्षुरस्तथा ।
श्रोत्रादिनाडीमध्यस्थस्तनुमव्याप्य संस्थितः ॥
क्षुरपात्रे स्थानभेदाद्भिद्यन्ते यथा क्षुराः ।
चैतन्यानि विभिद्यन्ते तथा नाडीविभेदतः ॥
प्राप्नोति वृत्तौ द्वे जीवः स्वप्नजाग्रदवस्थयोः ।
सामान्यवृत्तिमेवैकां सुषुप्ते प्रतिपद्यते ॥
सामान्यवृत्तिर्या साऽत्र जीवनायोपयुज्यते ।
विशेषवृत्तयो देहे शब्दाद्यालोचनोद्यताः ॥
प्रवेशवाक्यं पदशस्तात्पर्याच्च स्फुटीकृतम् ।
तदनुग्राहको न्याय इदानीं प्रविचार्यते ॥
किं देवदत्तगृहवत्प्र

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६२५
आधाराधेयता सर्पशिलयोः फलबीजयोः ।
अंशांशितेति वैषम्यन्न तत्र पुनरुक्तता ॥
परिच्छिन्नो जीव एव देहेषु प्रविशत्यतः ।
न दोष इति चेन्नैवं स्रष्टुरेव प्रवेशनात् ॥
तत्सृष्ट्वाऽथ तदेवानुप्राविशत्स इति श्रुतेः ।
स्रष्टृप्रवेष्टोरेकत्वं स्याद्भुक्त्वा व्रजतीतिवत् ।
अतः केनाप्युपायेन प्रवेशो घटते न हि ॥
इति प्राप्ते पूर्वपक्षे प्रवेश उपपाद्यते ।
अप्रविष्टस्वभावोऽयं दिग्देशाद्यनभिप्लुतेः ॥
कल्पितोऽस्य प्रवेशः स्याज्जलपात्रार्कबिम्बवत् ।
विभागाद्यंशवैषम्येऽप्यस्ति साम्यं विवक्षितम् ॥
उपाधिस्थोपलब्ध्यादिसाम्यं केन निवार्यते ।
उपाधावुपलब्धत्वमन्यथात्वेन भासनम् ॥
बहुत्वमानमित्येतद्दृष्टदार्ष्टान्तयोः समम् ।
तेजोधिकं रवेर्बिम्बमशक्यं द्रष्टुमञ्जसा ॥
तथाऽपि जलमध्ये तद्बिम्बं सम्यगवेक्ष्यते ।
स्वयंप्रकाश आत्मैवं नोपलभ्योऽनुपाधिकः ॥
जडदेहाद्युपाधौ तु विस्पष्टमुपलभ्यते ।
दर्पणाभिहता दृष्टिः पर्यावृत्य स्वमाननम् ॥
व्याप्नुवत्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम् ।
देहाद्युपप्लुतेयं धीरात्मानं व्याप्नुवत्यसौ ॥
अविक्रियं विक्रियाभिर्युक्त इत्यवभासयेत् ।
एकोऽप्यनेकधा भाति तरणिः पात्रभेदतः ॥
एवं नानादेहभेदाद्भात्यात्मैकोऽप्यनेकधा ।
निर्धूताशेषनानात्वं तद्धेतुरविभागवान् ॥
अनन्यसाक्षिकोऽपीदृक्कस्यात्प्रवेशभ्रमादयम् ।
दृशादिरूपरहितः प्रत्यगात्माऽभवत्पुरा ॥
नामरूपजनौ सत्यां द्रष्टृत्वादियुतो भवेत् ।
द्रष्टृश्रोत्रादिरूपो यो यश्च द्रष्ट्रादिवर्जितः ॥
१ क. ख. ङ. °शस्यतः । २ घ. °भिमुखा दृ° । ३ क. ङ. °वेशाद्भ्रमा° ।
७९

६२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा.८ अनु.१]
बुद्धितत्कारणोपाधी क्षेत्रज्ञेश्वरसंज्ञकौ ।
जिघ्राणीममहं गन्धमिति यो वेत्त्यविक्रियः ॥
स सर्वसाक्षी पूर्वाभ्यामुपलक्षणमर्हति ।
अप्पात्रोत्थापिताद्भानोर्दिवि भानुर्यथेक्ष्यते ॥
सर्वसाक्षी तथा धीस्यात्कर्तृभोक्त्रादिलक्षणात् ।
प्रकाशात्मा यथा चन्द्रः शाखाग्रादतथाविधात् ॥
लक्ष्यस्तथा चिदात्माऽपि कारणोपाधितो जडात् ।
जीवत्वभ्रान्तिरेवैषा प्रत्यग्बोधोपयोगतः ॥
जलपात्रार्कसाम्येन प्रवेश इति कल्प्यते ।
दिग्देशकालशून्यस्य प्रवेशो बिलसर्पवत् ॥
न त्वञ्जसा परस्यास्ति तेनाविद्याप्रकल्पितः ।
अविद्यया तु साक्ष्यैव केवलॊऽप्यविवेकतः ॥
बुद्ध्यादिकार्यगैर्धर्मैः प्रतिबिम्बवदीक्ष्यते ।
अग्निः सूर्यो मरुच्चेति दृष्टान्ताः श्रुत्युदीरिताः ॥
अप्रविष्टस्वभावोऽतः कार्यमात्माऽविशज्जगत् ।
अग्निर्यथैको भुवनं काष्ठेकोष्ठादिरूपकम् ॥
प्रविष्टः प्रतिरूपोऽभूदप्रविष्टोऽपि सँस्स्वतः ।
वायुर्यथैको भुवनं नानाव्यञ्जनरूपकम् ॥
प्रविष्टो बहुरूपोऽभूदप्रविष्टोऽपि संस्स्वतः ।
सूर्यो यथोदपात्रेषु प्रविष्टो बहिरेव सन् ॥
तथाऽऽत्माऽप्यप्रविष्टः सँन्प्रविष्ट इव लक्ष्यते ।
यथा सृष्ट्यादयः कॢप्ताः प्रवेशोऽपि तथेष्यताम् ॥
युक्त्या नैवोपपद्यन्ते सृष्ट्याद्याः कल्पितास्ततः ।
नासतो जन्मना योगः सतः सत्त्वान्न चेष्यते ॥
कूटस्थे विक्रिया नास्ति तस्मादज्ञानतो जनिः ।
रूपं रूपमितीयं तु स्पष्टमृक्प्रत्यगात्मनः ॥
याथात्म्यदर्शनायैव सृष्ट्यादीन्यभ्यभाषत ।
क्षुरपात्राख्यदृष्टान्ताद्विशेषेण प्रवेशनम् ॥
इन्द्रियेष्वपि विस्पष्टमुपलभ्यत्वमात्मनः ।
यदग्निकाष्ठदृष्टान्तात्सामान्येन प्रवेशनम् ॥
१ ग. ॰क्ष्येतं के॰ । २ क. ख. ङ. 'ष्टलोष्टादि' । ३ ग. स स्वतः । ४ ग. स प्रवि'
५ ग. ॰नाप्त्येव ।

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६२७

तदधिष्ठानरूपेण कार्यव्यापित्वमुच्यते ।
अधिष्ठानारोप्यभावमन्तरेण न कुत्रचित् ॥
व्याप्यव्यापकयोः कृत्स्नस्वरूपव्याप्तिरिष्यते ।
अत्यन्तभिन्नयोर्व्याप्तिर्नहि दृष्टा गवाद्वयोः ॥
नाप्यत्यन्तमभिन्नस्य व्याप्यव्यापकवर्जनात् ।
भेदाभेदौ वास्तवौ तु दुर्लभौ तेन शिष्यते ॥
अधिष्ठानारोपितयोरेवं व्याप्तिर्बलादियम् ।
तमस्यैव यथा सर्वं स्रक्प्रविष्टा न तु स्वतः ॥
प्रत्यग्ज्ञानकार्याणि स्वात्मैवं मायया बलात् ।
व्यापित्वमुपलभ्यत्वमिति द्वेधा प्रवेशनम् ॥
सिद्धं प्रवेशाद्ये दोषास्तान्निराचक्ष्महेऽधुना ।
पर एव प्रविष्टश्चेत्प्रविष्टानामेकतः ॥
तदनन्यत्वतः प्राप्ता महेशस्याप्यनेकता ।
नैष दोषोऽस्य चोद्यस्य विपरीतत्वसंभवात् ॥
बहूनामेकतादात्म्यादेकत्वं किं न चोद्यते ।
नियामकश्चाऽऽसंगमोऽत्र स च भेदं निवारयेत् ॥
कल्प्यैः सर्पादिभिर्भेदैर्न च रज्जुर्विभिद्यते ।
एको देवो निविष्टोऽत्र बहुधेति श्रुतीरणात् ॥
वियद्वदेक एवैष ईश्वरोऽभ्युपगम्यताम् ।
संसारित्वात्प्रविष्टानां परस्य तदभेदतः ॥
संसारित्वं प्रसक्तं चेन्न क्षुधाद्यत्ययश्रुतेः ।
सुखदुःखविमोहादिदर्शनान्नेति चेन्न तत् ॥
न लिप्यते लोकदुःखैर्लोकबाह्य इति श्रुतेः ।
उपाधिजनितो योऽयं चिदाभासोऽवभासते ॥
दुःखानुभवस्तत्र सावकाशो भविष्यति ।
दुःखी यदि भवेदात्मा कः साक्षी दुःखिनो भवेत् ॥
दुःखिनः साक्षिता नैव साक्षिणो दुःखिता तथा ।
नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः ॥
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः ।
शरीरेन्द्रियसंघात आत्मत्वेनाभिमानिनीम् ॥


१ क. ख. ग. ङ. प्रविष्टा ये दो० ।