तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 630, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६२५
आधाराधेयता सर्पशिलयोः फलबीजयोः ।
अंशांशितेति वैषम्यन्न तत्र पुनरुक्तता ॥
परिच्छिन्नो जीव एव देहेषु प्रविशत्यतः ।
न दोष इति चेन्नैवं स्रष्टुरेव प्रवेशनात् ॥
तत्सृष्ट्वाऽथ तदेवानुप्राविशत्स इति श्रुतेः ।
स्रष्टृप्रवेष्टोरेकत्वं स्याद्भुक्त्वा व्रजतीतिवत् ।
अतः केनाप्युपायेन प्रवेशो घटते न हि ॥
इति प्राप्ते पूर्वपक्षे प्रवेश उपपाद्यते ।
अप्रविष्टस्वभावोऽयं दिग्देशाद्यनभिप्लुतेः ॥
कल्पितोऽस्य प्रवेशः स्याज्जलपात्रार्कबिम्बवत् ।
विभागाद्यंशवैषम्येऽप्यस्ति साम्यं विवक्षितम् ॥
उपाधिस्थोपलब्ध्यादिसाम्यं केन निवार्यते ।
उपाधावुपलब्धत्वमन्यथात्वेन भासनम् ॥
बहुत्वमानमित्येतद्दृष्टदार्ष्टान्तयोः समम् ।
तेजोधिकं रवेर्बिम्बमशक्यं द्रष्टुमञ्जसा ॥
तथाऽपि जलमध्ये तद्बिम्बं सम्यगवेक्ष्यते ।
स्वयंप्रकाश आत्मैवं नोपलभ्योऽनुपाधिकः ॥
जडदेहाद्युपाधौ तु विस्पष्टमुपलभ्यते ।
दर्पणाभिहता दृष्टिः पर्यावृत्य स्वमाननम् ॥
व्याप्नुवत्याभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम् ।
देहाद्युपप्लुतेयं धीरात्मानं व्याप्नुवत्यसौ ॥
अविक्रियं विक्रियाभिर्युक्त इत्यवभासयेत् ।
एकोऽप्यनेकधा भाति तरणिः पात्रभेदतः ॥
एवं नानादेहभेदाद्भात्यात्मैकोऽप्यनेकधा ।
निर्धूताशेषनानात्वं तद्धेतुरविभागवान् ॥
अनन्यसाक्षिकोऽपीदृक्कस्यात्प्रवेशभ्रमादयम् ।
दृशादिरूपरहितः प्रत्यगात्माऽभवत्पुरा ॥
नामरूपजनौ सत्यां द्रष्टृत्वादियुतो भवेत् ।
द्रष्टृश्रोत्रादिरूपो यो यश्च द्रष्ट्रादिवर्जितः ॥
१ क. ख. ङ. °शस्यतः । २ घ. °भिमुखा दृ° । ३ क. ङ. °वेशाद्भ्रमा° ।
७९