सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 626, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 626

[प्रपा०८/अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६२१
ब्रह्म पुच्छं प्रतिष्ठेति निर्दिष्टो योऽयं ब्रह्मपदार्थोऽन्नमयादीनामानन्दमायान्तानां
पञ्चानां कोशानां शारीर आत्मेत्युक्तः सोऽयमात्मा सृष्टेः पूर्वमेक एवाद्वितीयः सन्स्व-
शक्तिसंयोगात्कामितवान् । आत्मन्याश्रिता मायाशक्तिः कामनाकारेण विक्रियामा-
पद्यत इत्यर्थः । न ह्यविक्रियस्य चिदेकरसस्य मायामन्तरेण कामः संभवति । *यद्य-
प्यस्तीश्वरस्य मायाकल्पितः कामस्त+थाऽपि कामित्वेन जीववन्नित्यतृप्तो न स्यादिति
चेन्न । लीलाश्वासादिदृष्टान्तेन मीमांसायां परिहृतत्वात् । कामितार्थस्य काचिदपि
विघाताभावादपि जीववैषम्यम् । अत एव—"सत्यकामः सत्यसंकल्पः” इत्यन्यत्राऽऽ-
म्नातम् । कामनाप्रकार एव निर्दिश्यते—बहु स्यां प्रभूतं भवेयम् । नन्वाकाशस्य
घटादिपदार्थान्तरोपाधिकृतं बहुवचनं दृष्टमद्वितीयस्य तु कथं बहुतेत्याशङ्क्योच्यते—
प्रजायेय प्रकर्षेण पूर्वावस्थितात्स्वरूपादाधिक्येनोत्पद्येय । ननु विद्यमानः पिता
पुत्रमुत्पादयति न तु स्वयमुत्पद्यते । तथा सत्यत्रापि जगदुत्पादकस्य ब्रह्मणः
स्वोत्पत्त्यभावात्प्रजायेयेत्युक्तिरनुपपन्नेति चेन्न । उत्पद्यमानयोर्नामरूपयोर्ब्रह्मणोऽत्य-
न्तभेदाभावात् । यथा समुद्रादाविर्भवन्तस्तरङ्गादयो नात्यन्तं भिन्नास्तथा ब्रह्मशक्तौ
मायायामवस्थिते पूर्वमनभिव्यक्ते नामरूपे पश्चादभिव्यज्यमाने सती ब्रह्मणः सद्रू-
पामपरित्यज्यैव स्वयमपि सद्रूपत्वेन भासेते । एतदेवाभिप्रेत्य वाजसनेयिन
आमनन्ति—"तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत ” इति । तस्मा-
द्ब्रह्मण एव मायया जगद्रूपेण प्रतिभासात्प्रजायेयेत्युक्तिरुपपद्यते । स परमात्मोक्तप्रकारेण
कामयमानस्तपोऽतप्यत । तपःशब्देन ज्ञानमुच्यते । “यस्य ज्ञानमयं तपः ”
इति श्रुत्यन्तरात् । सृज्यमानजगद्रचनालोचनमकरोदित्यर्थः । न खलु परमेश्वरस्य
कृच्छ्रचान्द्रायणादिरूपेण तपसा किंचित्प्रयोजनमस्ति । स परमेश्वरः स्रष्टव्यवस्तुपर्या-
लोचनं कृत्वा प्राणिकर्मनिमित्तानुरूपमिदं सर्वं जगद्देशतः कालतो नाम्ना रूपेण
च सर्वप्राणिभिः सर्वावस्थैरनुभूयमानं सृष्टवान् । अत्र कामयितृत्वपर्यालोचक-
त्वजगत्स्रष्टृत्वरूपैर्हेतुभिः परमात्मनः सद्भावः प्रतिपाद्यते । असद्वादी तावदेवं
मन्यते—यद्यदस्ति तत्सर्वं नामरूपात्मकमित्याकाशादिभूतेषु देवतिर्यगादिभौतिकदेहा-
दिषु चेत्यादिव्याप्तिर्दृष्टा । परमात्मा तु नामरूपाभ्यामन्यः “आकाशो वै नाम
नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म ” इति श्रुत्यन्तरात् । यस्तु परमात्मा ब्रह्मे-
त्यादिव्यवहारः सोऽपि तत्सद्भावं साधयितुं न प्रभवति । नरविषाणादिवत्तस्य विकल्प-
मात्रत्वात् । “ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ” इति हि पातञ्जलं सूत्रम् ।
ततो नामरूपे ब्रह्मणो व्यावर्तमाने स्वव्याप्यं सद्भावमपि व्यावर्तयतः । एवं च सति

  • यदीत्यर्थः । + तर्हीत्यर्थः ।
    १ ग. ॰त्यन्तभिं॰ । २ घ. ॰ष्टत्वादिरू॰ । ३ ग. ॰व्यातं सं॰ ।