तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 617, कुल 914 में से
संदर्भ में पढ़ेंपूर्णत्वम् । सुखवद्दुःखमपि हस्तादिषूपलभ्यत इति चेदुपलभ्यतां नाम । दुःखात्मकवृ-
त्तिहेतुना मनोमयेन देहस्य पूर्णतया तदुपपत्तेः । दुःखस्य मनोमयधर्मत्वं सुखस्याऽऽनन्द-
मयधर्मत्वं चोपरिष्टाद्विस्पष्टी करिष्यते । अत्रेदं चिन्तनीयम् । कोऽयमानन्दो नाम किं
दुःखनिवृत्तिराहोस्विद्भावरूप इति । तत्र दुःखाभाव इति तावत्प्राप्तम् । लोके
क्षुत्पिपासारोगादिजनितस्य दुःखस्य निवृत्तौ सुखबुद्धिदर्शनात् । ननु विरोधिनि दुःखे
वर्तमाने भावरूपं सुखं तिरोधीयते । अतः सुखाविर्भावकाले दुःखनिवृत्तिरपेक्षितेत्येक-
कालीनतया दुःखनिवृत्तौ सुखत्वभ्रम इति चेन्न । दुःखनिवृत्तिव्यतिरेकेण ज्वरमोचन-
काले कस्यचिद्भावरूपस्यानुभवाभावात् । तस्माद्दुःखनिवृत्तिरेवाऽऽनन्द इति प्राप्ते
ब्रूमः—अकस्मादुत्पन्नविपञ्चीस्वरश्रवणादन्तरेणापि दुःखपरामर्शमानन्दावभासेन भावरू-
पत्वं सिध्यति । अभावत्वे तु प्रतियोगिनिरूप्यत्वेन । दुःखस्मृतिपुरःसरमेव प्रतीयेत ।
घटाभावः पटाभाव इत्यादौ प्रतियोगिपूर्वकप्रतीतिनियमात् । एतच्च पूर्वाचार्यैरेव साधि-
तम् । आनन्दो दुःखाभावो न भवति तदनिरूप्यत्वात् । यद्दुःखेन न निरूप्यते तद्दुः-
खाभावो न भवति यथा घटः । यद्वा । आनन्दोऽयं भावरूपः प्रतियोग्यनिरूप्यत्वाद्-
घटवत् । यद्वा । आनन्दोऽयं भावरूपः सातिशयत्वाद्दुःखवदिति । सातिशयत्वं
चोपरिष्टात्सार्वभौमाद्यानन्देषु स्पष्टी भविष्यति । सिद्धे भावरूपत्वे पुनरप्येतच्चिन्तनी-
यम् । किमसावानन्दः क्रियारूपः किंवा गुणरूप उत कस्यचित्प्रतिबिम्ब आहोस्विद-
वच्छिन्नः पदार्थोऽथवाऽनवच्छिन्नः स्वतन्त्रो वेति । तत्र तावत्क्रियारूप इति प्राप्नोति ।
कुतः । तुनदि समृद्ध्वावित्यस्माद्धातोरानन्दशब्दनिष्पत्तेः । कौषीतकिनश्च कर्मेन्द्रि-
याणां मध्ये गुह्येन्द्रियस्याऽऽनन्दक्रियोपेतं विषयमामनन्ति— “प्रज्ञयोपस्थं समारुह्यो-
पस्थेनाऽऽनन्दं रतिं प्रजातिं चाऽऽप्नोति” इति । उपस्थजन्ययाऽऽनन्दक्रियया व्याप्य-
मानः शरीरावयवसंयोगोऽत्राऽऽनन्दशब्देनोच्यते । संयोगकालीना क्रीडा रतिः ।
संयोगफलभूतप्रजोत्पत्तिः प्रजातिः । यथा वागादीन्द्रियजन्या अभिवदनादयः क्रिया-
विशेषाः । तथोपस्थजन्य आनन्दोऽपि क्रियाविशेषः । तथा च सांख्या आहुः—
“वचनादानविहरणोत्सर्गानन्दास्तु पञ्चानाम्” इति । आर्थवणिकाश्च यथोक्तक्रिया-
विशिष्टान्कर्मेन्द्रियविषयानामनन्ति— “वाक्च वक्तव्यं च हस्तौ चाऽऽदातव्यं चोप-
स्थश्चाऽऽनन्दयितव्यं च वायुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च” इति ।
तस्याश्चोपस्थजन्याया आनन्दक्रियाया मनोमयान्तःपातित्वादानन्दमयस्य विज्ञानमया-
दभ्यन्तरत्वमयुक्तमिति चेन्मैवम् । त्वदुक्तक्रियाया अतिरिक्तस्याऽऽनन्दस्यात्र विवक्षित-
त्वात् । स चाऽऽनन्दः कर्तृत्वभोक्तृत्वोपेतस्याऽऽत्मनो मनःसंयोगजन्यः क्षणिको गुण
इति वैशेषिकाणां मतम् । बुद्धिसुखदुःखेच्छादीनां नवानां तैश्चाऽऽत्मविशेषगुणत्वा-
१ घ. °ते । ततः । २ क. ग. छ. °नुभावा । ३ घ. प्रतीयते । ४ घ. तैरात्म° ।