तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 615, कुल 914 में से
संदर्भ में पढ़ेंHere is the Devanagari text transcribed line by line from the image:
६१० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०८अनु०१]
त्वात्सुलभैव । तस्माद्देवादीनां विद्याधिकारो न निवारयितुं शक्यः । यद्यप्यादित्यादीनां
देवानामादित्यादिध्यानमिश्रासु सगुणब्रह्मविद्यासु ध्येयानामन्येषामदित्यादीनामसंभवा-
दादित्यत्वादिप्राप्तिलक्षणविद्याफलस्य सिद्धत्वाच्च माऽस्त्वधिकारः । तथाऽपि निर्गुण-
विद्यायामधिकारे को दोषः । तस्मादस्त्येवाधिकारः ।
शूद्राधिकारोऽपि तत्रैव* चिन्तितः—
"शूद्रोऽधिक्रियते वेदविद्यायामथवा नहि ।
अत्रैवर्णिकदेवाद्या इव शूद्रोऽधिकारवान् ॥
देवाः स्वयंभातवेदाः शूद्रोऽध्ययनवर्जनात् ।
नाधिकारी श्रुतौ स्मार्ते त्वाधिकारो न वार्यते ॥
छान्दोग्यस्य चतुर्थाध्याये संवर्गविद्यायामाम्नायते—‘‘आजहारेमाः शूद्रानेनैव
मुखेनाऽऽलापयिष्यथाः ’’ इति । अयमर्थः । जानश्रुतिर्नाम कश्चिच्छिष्यो गोसहस्रं
दुहितरं मुक्ताहारं रथं कांश्चिद्ग्रामांश्चोपायनत्वेनाऽऽनीय रैक्वनामकं गुरुमुपससाद ।
तस्य रैक्वस्य वचनमेतत् । हे शूद्र जानश्रुत इमा गोसहस्राद्या आजहार।ऽऽहृतवानसि।
अनेनैव दुहित्राद्युपायनमुखेन मच्चित्तं प्रसाद्योपदेर्शायष्यसीति । तत्र शूद्रोऽपि वेदवि-
द्यायामधिकारवानिति प्राप्तम् । कुतः । अत्रैवर्णिकदेवदृष्टान्तेन शूद्रस्याप्यत्रैवर्णिकस्य
तत्संभवादिति प्राप्ते ब्रूमः—अस्ति देवशूद्रयोर्वैषम्यम् । उपनयनाध्ययनाभावेऽपि स्वयं-
प्रतिभातवेदा देवास्तादृशस्य सुकृतस्य पूर्वमुपार्जितत्वात् । शूद्रस्तु तादृशसुकृतरहितत्वान्न
स्वयं प्रतिभातवेदः । नापि तस्य वेदाध्ययनमस्त्युपनयनाभावात् । अतो विद्वत्तारूपस्या-
धिकारहेतोरभावान्न श्रौतविद्यायां शूद्रोऽधिकारी । कथं तर्ह्युदाहृतवाक्ये जानश्रुति-
विषयः शूद्रशब्दो यौगिकोऽयं न रूढ इति ब्रूमः । विद्याराहित्यजनितया शुचा गुरुं
दुद्रावेति शूद्रः । न च रूढ्या योगस्यापहारो रूढेरत्रासंभवात् । अस्मिन्नुपाख्याने क्षत्तृ
प्रेरणाद्यैश्वर्योपन्यासेन जानश्रुतेः क्षत्रियत्वावगमात् । ननु शूद्रस्य वेदविद्यानधिकारे सति
मुमुक्षायां सत्यामपि मुक्तिर्न स्यादिति चेन्मैवम् । स्मृतिपुराणादिमुखेन ब्रह्मविद्योदये
सति मुक्तिसिद्धेः । तस्मान्न शूद्रो वेदविद्यायामधिक्रियते ” ।
सगुणब्रह्मविदो देहपातात्प्रागेव पुण्यपापत्यागस्तृतीयाध्यायस्य तृतीयपादे+
चिन्तितः—
‘‘कर्मत्यागो मार्गमध्ये यदि वा मरणात्पुरा ।
उत्तीर्य विरजां त्यागस्तथा कौषीतकिश्रुतेः ॥
* शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि—ब्र० सू० अ० १ पा० ३ अ० १० सू०
३४ । + सांपराये तर्तव्याभावात्तथा ह्यन्ये—ब्र० सू० अ० ३ पा० ३ अ० १६ सू० २७।
१ °शमिच्छसी° ।