तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 614, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०८ अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६०९
यदि न कुर्यात्तदानीमयं शरीरे वर्तमान एव सम्भाविजन्मरूपदुःखहेतून्सर्वान्पाप्मनः
परित्यज्य ब्रह्मलोके संकल्पमात्रसंपादितान्सर्वान्भोगान्भुक्त्वा तत्त्वज्ञानोदये सति विमु-
च्यते । इन्द्रादिदेवानां स्त्रीशूद्रवद्वेदाध्ययनाभावेऽप्यस्ति वैदिकब्रह्मविद्यायामधिकारः ।
शूद्रादेस्तु वेदमुखेनाधिकाराभावेऽपि स्मृतिपुराणादावस्त्यधिकारः प्रथमाध्यायस्य
तृतीयपादे + चिन्तितः—
“नाधिक्रियन्ते विद्यायां देवाः किंवाऽधिकारिणः ।
विदेहत्वेन सामर्थ्यहानेर्नैषामधिक्रिया ॥
अविरुद्धज्ञानवादिमन्त्रादेर्देहसत्त्वतः ।
अर्थित्वादेश्च सौलभ्याद्देवाद्या अधिकारिणः” ॥ इति ।
बृहदारण्यके तृतीयाध्याये श्रूयते—“तद्यो यो देवानां प्रत्यबुध्यत स एव तद-
भवत्तथ