सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 616, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 616

[प्रपा०८अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६११
कर्मप्राप्यफलाभावान्मध्ये साधनवर्जनात् ।
ताण्डिश्रुतेः पुरा त्यागो बाध्यः कौषीतकिक्रमः ॥
पूर्वाधिकरणोक्तसुकृतदुष्कृतपरित्यागो ब्रह्मलोकमार्गस्य मध्ये भवितुमर्हति । तल्लो-
कसमीपमार्गवर्तिनद्युत्तरणानन्तरं तच्छ्रवणात् “ स आगच्छति विरजांनदीं तां मनसै-
वात्येति तत्सुकृतदुष्कृते विधूनुते” इति । तस्मान्मार्गमध्ये परित्याग इति प्राप्तो
ब्रूमः—ब्रह्मलोकमार्गमध्ये ब्रह्मप्राप्तिव्यतिरिक्तस्य सुकृतदुष्कृताभ्यां प्राप्यस्य फलस्या-
भावात्तयोर्नदीपर्यन्तनयनं निरर्थकम् । किंच मरणात्प्रागपरित्यक्तयोः सुकृतदुष्कृतयो-
र्मार्गमध्ये परित्यागस्य साधनं न संभवति । देहरहितेन साधनमनुष्ठातुमशक्यत्वात् ।
न च मरणात्पुरा तत्त्यागे प्रमाणाभावः । “ अश्व इव रोमाणि ” इति ताण्डिश्रुतौ
तदवगमात् । तथा च सति श्रुत्या नदीमुत्तीर्य परित्याग इत्ययं कौषीतकि-
प्रोक्तः क्रमो बाधनीयः । तस्मान्मरणात्प्रागेवोपासकस्य सुकृतदुष्कृतयोः परित्यागः ” ।
अथ विज्ञानमयं बुद्धवतस्तदुपासकस्य मनोमये शरीरत्वंबुद्धिदार्ढ्यं पर्यवस्यतीति
दर्शयति—
त॒स्यैष एव शारी॑र आ॒त्मा । यः पूर्व॑स्य, इति ।
पूर्ववद्योजनीयम् । लोके करणस्य कुठारादेरात्मत्वं नास्ति । तथा मनोमयस्यापि
करणस्याऽऽत्मत्वाभावाच्छरीरकोटावन्तर्भावः परिशिष्यते ।
तस्माद्वा एतस्माद्विज्ञा॒नमयात् । अन्यो -
न्तर आत्माऽऽनन्द॒मयः । तेनैष पू॒र्णः ।
अथ विज्ञानमयकोशेऽप्यात्मत्वबुद्धिं वारयितुमानन्दमयमुपदिशति-तस्माद्वा इत्या-
दिना । आनन्दः परस्य ब्रह्मणः स्वरूपम् “आनन्दो ब्रह्मेति व्यजानात् ” “विज्ञान-
मानन्दं ब्रह्म” इत्यादिश्रुतिभ्यः । तस्याऽऽनन्दस्य विकारो वक्ष्यमाणप्रियमोदादिस-
ह आनन्दमयः । यद्यप्यानन्दो निर्विकारस्तथाऽपि घटाद्युपाधिभिराकाश इव
सात्त्विकान्तःकरणवृत्त्युपाधिभिः परिच्छेदे कल्पिते सति प्रियादिरूपतया विक्रियते ।
सोऽयमानन्दमयः कर्तृत्वाभिमानयुक्ताद्विज्ञानमयादभ्यन्तरः पृथगेवाऽऽत्मा । तेनाऽऽ-
नन्दमयेनैष पूर्वोक्तो विज्ञानमयः पूर्णः । यथा प्राणमयेन व्याप्ते देहे कृत्स्नेऽपि प्राण-
स्यैव चलनमुपलभ्यते । यथा च मनोमयेन व्याप्ते प्राणविशिष्टे देहे सर्वस्मिन्नपि मनः-
कार्यभूता चेतनत्वलक्षणा ज्ञानशक्तिरुपलभ्यते । यथा च विज्ञानमयेन व्याप्ते मनःप्रा-
णमयविशिष्टे देहे कृत्स्नेऽप्यहं कर्तेति कर्तृत्वमुपलभ्यते । एवमानन्दमयेन व्याप्ते
ज्ञानमनःप्राणविशिष्टे देहे हस्तपादादिषु सुखविशेषा उपलभ्यन्ते । तदेतदानन्दमय-
१ ग. घ. ॰रजां न॰ । २ ख. ॰था स॰ । ३ ख. ॰त्वदा॰ ।