सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 628, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 628

[प्रपा०८ अनु०२] कृष्णयजुर्वेदाय तैत्तिरीयारण्यकम् । ६२३
तर्हि प्रतिज्ञातं गुहानिहितत्वं पञ्चकोशोपन्यासद्वारेण ब्रह्म पुच्छमित्युपपाद्य पुनरपि तदेव
दृढीकर्तुं भ्रान्तिसिद्धः प्रवेशोऽनूद्यताम् । यथा कश्चित्पुमान्गृहं निर्माय तत्र प्रविश्या-
भ्यन्तरे स्थित उपलभ्यते, एवं ब्रह्माप्याकाशादिकार्यं सृष्ट्वा तस्यान्तः प्रविष्टमिव हृदय-
पुण्डरीकेऽवस्थितायां बुद्धौ द्रष्टृ श्रोतृ विज्ञात्रित्येवं विशेषवदुपलभ्यते । सोऽयमस्य प्रवेश
त्युपचर्यते । वाजसनेयिभिरप्ययं प्रवेश आम्नायते— “ स एष इह प्रविष्ट आनखा-
ग्येभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वंभरो वा विश्वंभरकुलायः ” इति ।
एतस्य वाक्यार्थो वार्तिकसारे विस्पष्टमाख्यातः—
“ तच्छब्देन परामृष्टः साक्ष्यव्याकृतभासकः ।
एतच्छब्देन कार्यस्थः प्रत्यक्ष उपदिश्यते ॥
अद्वितीयमधिष्ठानं कार्यस्थः सद्वयस्तयोः ।
स एष इत्यभेदोक्तिर्दुष्करेति न चोद्यताम् ॥
अज्ञातवस्तुतत्त्वस्य दुष्करं नास्ति किंचन ।
नीलीकृतं नभः पश्येच्चक्षुषा नीलवस्त्रवत् ॥
योग्यायोग्यव्यपेक्षेयं मानव्यवहृतौ भवेत् ।
कल्पनामात्रनिष्पत्तेर्नापेक्षाऽज्ञानभूमिषु ॥
इहेत्यनेन सूत्रादिस्थाणुपर्यन्तविग्रहाः ।
उच्यन्ते तेषु जीवोऽयं विस्पष्टमुपलभ्यते ॥
प्रविष्ट इति शब्देन चिदाभासस्तमोन्विता ।
जीवत्वेनोपलब्धिर्या चितः सैषाऽभिधीयते ॥
चिदाभासप्रवेशस्तु प्रत्यङ्मोहे स्वतो भवेत् ।
तत्कार्येष्वनुवृत्तः सन्नुपाधिश्रितप्रवेशने ॥
जपाकुसुमरक्तत्वं स्फटिके कल्पितं यथा ।
चिदाभासप्रवेशोऽयं चित्यध्यारोप्यते तथा ॥
सूत्रादिस्थाणुपर्यन्तं जगत्सृष्ट्वाऽऽत्ममायया ।
स्वाभासैकस्वभावेन स एवं प्राविशत्परः ॥
आनखाग्रेभ्य इत्युक्ता मर्यादाऽस्य प्रवेशने ।
उष्णस्पर्शेन चैतन्यं नखाग्रावधि लक्ष्यते ॥

१ क. ख. ङ. °लक्ष्यते । २ घ. पश्येद्यक्षु° । ३ ख. 'तयोन्विता । ४ ग. 'र्याऽन्विता
ख. एव । ६ क. ख. ङ. °त्युक्त्या म° । ७ क. ख. ङ. उष्णं स्प° । ८ घ. लभ्यते ।