तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 621, कुल 914 में से
संदर्भ में पढ़ेंस एवैषोऽहं सुखी भोक्तेत्येवमनुभूयमानो विज्ञानमयस्य शिरःपक्षादिपुरुषाकारमनु
स्वयमपि पुरुषाकार एव प्रियमोदप्रमोदाः सात्त्विकवृत्तिप्रतिबिम्बिता आनन्दाः ।
तत्राभीष्टपुत्रादिदर्शनजन्यं प्रियम् । तल्लाभजन्यो मोदः । तत्कृतोपकारजन्यः
प्रमोदः । यथोक्तवृत्त्युपादानभूताज्ञाने प्रतिबिम्बित आनन्दः । यद्वा वृत्तिप्रति-
बिम्बानां प्रतियोगिजीवात्मस्वरूपभूतोऽवच्छिन्नो बिम्बस्थानीयः स आनन्दः । अनव-
च्छिन्नो मुख्य आनन्दो ब्रह्म तदेवेतरेषां प्रतिष्ठाऽऽधारः । अवच्छिन्नस्य प्रतिबि-
म्बानां च तदधीनत्वात् । यद्यपि प्रियमोदप्रमोदा मनसः करणरूपस्य वृत्तिविशेष-
तया कर्तृरूपाद्विज्ञानमयाद्बहिर्भूतास्तथाऽप्यन्तरस्यावच्छिन्नजीवानन्दस्यानवच्छिन्नब्रह्मा-
नन्दस्य वा प्रतिबिम्बं धारयन्तीत्यान्तरत्वमभिप्रेत्य विज्ञानमयादभ्यन्तर आत्माऽऽ-
नन्दमय इत्युक्तम् । तमेतमानन्दमयमात्मानमुपासीनो यदा भावनया साक्षात्करोति
तदा पुच्छत्वेनोपचरिते ब्रह्मण्यप्यैकाग्र्यं प्रतिपन्ना मनोवृत्तिः प्रतिबिम्बाभावाद्ब्रह्मतत्त्वं
साक्षात्करोत्येव “ दृश्यते त्वग्र्यया बुद्ध्या ” इति श्रुतेः । यथा मणिप्रभायां मणित्व-
भ्रान्त्या प्रवर्तमानस्यार्थान्मणितत्त्वसाक्षात्कारस्तद्वत् ।
अयमेवार्थीत्सिद्धो ब्रह्मतत्त्वसाक्षात्कार उपास्तिफलमित्यभिप्रेत्य श्रुतिः फलान्तरमन-
भिधाय केवलं ब्रह्म पुच्छं प्रतिष्ठेत्येवं सर्वजगदाधारभूतब्रह्मतत्त्वोपदेशे पर्यवसिता
ततोऽस्मिन्नानन्दमयकोशे प्रधानभूतस्य ब्रह्मणः प्रतिपादकं श्लोकमुदाहरति—
तदप्येष॒ श्लोको॑ भवति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके
पञ्चमोऽनुवाकः ॥ ५ ॥
अथाष्टमे षष्ठोऽनुवाकः ।
अस॑न्नेव॒ स भ॑वति । अस॒द्ब्रह्मेति॒ वेद॒ चेत् । अस्ति॒
ब्रह्मेति॑ चेद्वे॒द । सन्त॑मेनं ततो विदु॒रिति॑, इति ।
लोके हि जलाहरणचाक्षुषदर्शनादिव्यवहारविषयं घटमुद्दिश्य प्राणिनः सर्वेऽप्ययं
घटोऽस्तीति ब्रुवते । तद्विपर्यये तु घटो नास्तीति च वदन्ति । अतो व्यवहारवासना-
युक्तः पुमानन्वयव्यवहार्यस्य ब्रह्मणोऽसत्त्वं मन्यते । अन्यस्तु विवेकी व्यवहाराणां
भूतानां भौतिकानां च श्रुतियुक्त्यनुभूतिभिर्मायामयत्वनिश्चयादसत्त्वं प्रतिपद्यते
व्यवहारातीतस्य ब्रह्मणः श्रुत्यादिभिः सत्यत्वनिश्चयात्सत्त्वमेव प्रत्येति । तत्र ब्रह्म-
णोऽसत्त्वं यो वेद स पुमानसन्नेव स्यात् । अन्नमयादिकोशानामात्मत्वस्य प्रति-
पादितत्वात्तदतिरिक्तस्य ब्रह्मणः स्वयमनङ्गीकृतत्वाच्च । यस्तु पञ्चकोशातीतं ब्रह्म
१ घ. ०भूतस्य । २ ख. ग. ०सत्त्वं सा° । ३ घ. ०न्प्यव्यव° ।