तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 622, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६१७
स्तीति वेद तस्य पुंसस्तदेव ब्रह्म स्वरूपम् । ततो ब्रह्मास्तित्ववेदनादेनं विवेकिनं सन्तं
विद्यमानं सात्मकं जानन्ति शास्त्रपारं गताः । अथवा योऽसद्ब्रह्मेति वेद सोऽसन्नसाधुरेव
भवति । वर्णाश्रमादिव्यवस्थालक्षणस्य सर्वस्य सन्मार्गस्य ब्रह्मप्रतिपत्त्यर्थतया ब्रह्मापला-
पेन सर्वसन्मार्गदूषको नास्तिको भवति । अस्तित्त्ववादिनमुक्तविपर्ययेण सन्तं सर्वसन्मार्ग-
स्थापकमाहुः । एतदेवाभिप्रेत्य कठा आमनन्ति—" अस्तित्येवोपलब्धव्यः ” इति ।
अथोपासकस्याऽऽनन्दमये बुभुत्सोश्च ब्रह्मतत्त्वे¹ त्वात्मबुद्धिं द्रढयितुमाह—
तस्यैष एव शारीर आ॒त्मा । यः पूर्व॑स्य, इति ।
य आनन्दमयोऽस्ति स एष एव तस्य पूर्वस्य विज्ञानमयस्य शारीरः स्वामी ।
विज्ञानमयः शरीरम् । आनन्दमय आत्मेत्युपासकं प्रति योजनीयम् । बुभुत्सुं प्रति त्वेवं
योजयेत् । यो ब्रह्म पुच्छमित्युक्तः पदार्थ एष एव तस्य पूर्वस्य प्रियमोदादिचतुष्टयस्य
शारीर आत्मा । प्रियादिकं शरीरं तस्मिञ्शरीरेऽवस्थितं ब्रह्मैवाऽऽत्मेति ।
एतदेवाभिप्रेत्य वार्तिककारा आहुः—
मिथ्यात्मनां हि सर्वेषां सत्यादिगुणलक्षणम् ।
व्याविद्धाशेषसंसारमात्मानं तं प्रचक्षते ॥
न ह्यात्मवान्भवेत्सर्पो दण्डाद्यध्यासरूपिणा ।
आत्मना ह्येष सत्येन सर्पो रज्ज्वात्मनाऽऽत्मवान् ” ॥ इति ।
अथ मीमांसा । तत्रैकदेशिनां विचारः प्रथमाध्यायस्य प्रथमपादे* दर्शितः—
“संसारी ब्रह्म वाऽऽनन्दमयः संसार्थयं भवेत् ।
विकारार्थमयट्शब्दात्प्रियाद्यवयवोक्तितः ॥
अभ्यासोपक्रमादिभ्यो ब्रह्माऽऽनन्दमयो भवेत् ।
प्राचुर्यार्थो मयट्शब्दः प्रियाद्याः स्युरुपाधयः ” ॥ इति ।
तैत्तिरीयके देहप्राणमनोबुद्ध्यानन्दरूपा अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमय-
संज्ञकाः पञ्च पदार्थाः क्रमेणैकैकस्मादान्तराः पठिताः । तत्र सर्वान्तर आनन्दमयः
संसारी परमात्मा वेति संदेहः । संसारीति³ तावत्प्राप्तम् । कुतः । आनन्दस्य विकार
आनन्दमय इति व्युत्पत्तेः संसारिणि संभवात् । अविक्रिये परमात्मन्यसौ न संभवति ।
किंच—“ तस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः ।
- आनन्दमयोऽभ्यासात्—ब्र० सू० अ० १ पा० १ अ० ६ । सू० १२ ।
१. ॰त्सोर्वाऽऽत्मतत्त्वे त्वात्मत्वम् । २ ख. ॰हः। आनन्दमय. सं° । ३ क. ख. ग. ङ.
॰ति प्राप्तं ।
७८