तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 620, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० ८/अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६१५
शान्तवृत्तिष्ववभासते । तस्य प्रतिबिम्बस्य 'जलदर्पणादिप्रतिबिम्बवन्मिथ्यात्वादवच्छि-
न्नस्य वस्तुत्वेऽप्यवच्छेददोषोपेतत्वान्न तयोर्मुख्यानन्दत्वम् । यस्त्ववच्छेदराहितो ब्रह्म-
स्वरूपभूत आनन्दः स मुख्यः । तथा च च्छन्दोगा नारदसनत्कुमारसंवादे समा-
मनन्ति—“ सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति । यो वै भूमा
तत्सुखं नाल्पे सुखमस्ति । भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो
विजिज्ञास इति । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा । अथ
यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् । यो वै भूमा तदमृतमथ यदल्पं
तन्मर्त्यम् ” इति । अस्यायमर्थः । शोकस्य पारं तारयेत्येवं नारदेन प्रार्थितः सन-
त्कुमारः शोकतरणाय सुखरूपमेव त्वया विचारयितव्यमित्युवाच । तद्विचारमङ्गीकृ-
तवते नारदाय भूमपदार्थं सुखत्वेनोपदिदेश । बहोर्भावो भूमा । यथा प्रकरणोपपदयोः
संकोचहेत्वोरसत्त्वेन निरतिशयबृहत्त्ववाची ब्रह्मशब्द इति पूर्वत्रोक्तम्, एवमत्रापि
निरतिशयबाहुल्यवाची भूमशब्दः । लोके हि धनाल्पत्वे सुखं न दृष्टम् । किंतु धन-
बाहुल्य एव सुखं दृष्टम् । तस्मात्सुखात्मको भूमैव विचारणीय इत्युक्त्वा तद्विचाराभि-
मुखाय भूमलक्षणं यत्र नान्यदित्यादिनोपादिदेश । लोकव्यवहारे हि कश्चिद्द्रष्टा स्वस्मा-
दन्यद्रूपं चक्षुषा पश्यति । सेयं द्रष्टृदृश्यदर्शनरूपा काचिन्त्रिपुटी । तथा श्रोतृश्रोतव्य-
श्रवणविज्ञातृविज्ञातव्यविज्ञानाद्यस्त्रिपुट्यो यस्मिन्पदार्थे न सन्ति स पदार्थो भूमा ।
यंस्मिंस्तु मायारूपे त्रिपुट्यो विद्यन्ते तन्मायारूपमल्पम् । तयोर्मध्ये भूमा नाशरहितः ।
अल्पं तु विनश्वरम् । तस्मिन्नल्पे द्वैतरूपे दुःखनिमित्तानां संभवात्तदल्पं दुःखात्मकम् ।
भूम्नि त्वद्वैते तदभावात्सुखात्मको भूमेति । सोऽयं भूमा त्रिपुटीरहितयोः सुषुप्तिसमाध्योः
सुखात्मकोऽनुभूयते । जागरणव्युत्थानयोस्तु त्रिपुटीयुक्तयोर्लोकव्यवहाररूपोऽल्पारख्यः
पदार्थो मूर्खण तत्त्वविदो च दुःखात्मकोऽनुभूयते । अतो दुःखमिश्रत्वादवच्छिन्नो जीवा-
त्मस्वरूपभूत आनन्दस्तत्प्रतिबिम्बरूपो वृत्त्यानन्दश्च न मुख्यः । किंतु भूमैव मुख्या-
नन्द इति सिद्धम् ।
स वा ए॒ष पु॑रुषवि॑ध ए॒व । तस्य॑ पुरु॑षविध-
ताम् । अन्व॒यं पुरु॑षवि॒धः । तस्य॑ प्रि॒यमे॒व शिर॑ः ।
मोदो॒ दक्षि॑णः प॒क्षः । प्र॒मोद॒ उत्त॑रः प॒क्षः ।
आ॒नन्द॑ आ॒त्मा । ब्रह्म॒ पुच्छं॒ प्रति॑ष्ठा ।
एतस्याऽऽनन्दस्य विकारे प्रियमोदादिरूप आनन्दमये स्वात्मत्वबुद्धिदार्ढ्यार्थमुपा-
सनीयं स्वरूपं दर्शयति—स वा इत्यादिना । य आनन्दमयो विज्ञानमयादभ्यन्तरः
१ घ. यस्मिन्माया° । २ घ. °दा चानुभू° ।