तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
दिकं च श्रुत्यविरोधादभ्युपगच्छामः । यत्तु जीव उत्पद्यत इत्युक्तं तदसत् । कृतनाशा-
कृताभ्यागमप्रसङ्गात् । पूर्वसृष्टौ यो जीवस्तस्मिन्नुत्पत्तिमत्त्वेन प्रलयदशायां विनष्टे सति
तत्कृतयोर्धर्माधर्मयोर्फलप्रदत्वेन विनाशः प्रसज्येत । अस्मिंश्च कल्प उत्पद्यमानस्य नूतन-
जीवस्य धर्माधर्मयोः पूर्वमननुष्ठितयोः सतोरिह सुखदुःखप्राप्तिर्भवतीत्यकृताभ्यागमः
प्रसज्येत । तस्माज्जीवोत्पत्त्यादिकं न युक्तम्” ।
तृतीयपादे नवभिरधिकरणैराकाशादिसृष्टिर्विचारिता । तत्र *प्रथमाधिकरणमा-
रचयति—
“व्योम नित्यं जायते वा हेतुत्रयविवर्जनात् ।
जनिश्रुतेश्च गौणत्वान्नित्यं व्योम न जायते ॥
एकज्ञानात्सर्वबुद्धेर्विभक्तत्वाजनिश्रुतेः ।
विवर्ते कारणैकत्वाद्व्रह्मणो व्योम जायते ॥
तैत्तिरीये—“तस्माद्वा एतस्मादात्मन आकाशः संभूतः” इति श्रूयते । तत्राऽऽ-
काशं नित्यं न तु जन्मवत् । कुतः । आकाशोत्पादकस्य समवाय्यसमवायिनिमित्तरूप-
कारणत्रितयस्य दुःसंपादत्वात् । संभूत इति जनिश्रुतिस्तु संप्रतिपन्नब्रह्मकार्यवद्वयोम्नि
सत्ताश्रयत्वगुणयोगात्प्रवृत्ता । तस्मादनाद्यनन्तं व्योम न जायत इति प्राप्ते ब्रूमः—
एकविज्ञानेन सर्वविज्ञानं तावदशेषेषु वेदान्तेषु डिण्डिमः । तच्च व्योम्नो ब्रह्म-
कार्यत्वे मृद्घटन्यायेन ब्रह्माव्यतिरेकादुपपादयितुं सुशकम् । नान्यथा । किंचाऽऽकाशं
जायते विभक्तत्वाद्वटवत् । न चायमसिद्धो हेतुः । वाय्वादिवैलक्षण्यस्याऽऽकाशे प्रति-
द्धत्वात् । नापि ब्रह्मण्यनैकान्तिकत्वम् । सर्वात्मकस्य ब्रह्मणः कस्माच्चिदपि विभक्त-
त्वस्य दुर्भणत्वात् । जनिश्रुतिश्चोत्पत्तिवादिनाऽनुगृहीता भवति । यत्तु कारणत्रितया-
संभव इत्युक्तम् । तदसत् । आरम्भवादे त्रितयापेक्षायामपि विवर्तवादे तदनपेक्षत्वात् ।
तस्मादेतेभ्यो हेतुभ्यो ब्रह्मणः कारणाद्व्योम जायते” ।
- द्वितीयाधिकरणमारचयति---
“ वायुर्नित्यो जायते वा छान्दोग्येऽजन्यकीर्तनात् ।
सैषाऽनस्तमिता देवतेत्युक्तेश्च न जायते ॥
श्रुत्यन्तरोपसंहाराद्गौण्यनस्तमयश्रुतिः ।
वियद्वज्जायते वायुः स्वरूपं ब्रह्म कारणम् ॥
- न वियदश्रुतेः—ब्र० सू० अ० २ पा० ३ अ० १ सू० १ । × एतेन मातरिश्वा व्याख्यातः-
ब्र० सू० अ० २ पा० ३ अ० २ सू० ८ ।
१ ग. घ. ॰मत्त्वे प्र॰ । २ ख. ॰सज्येतेति कृतविप्रणाशः । अ° । ३ ग. ॰सज्यते । त° ।
४ ख. ॰शेषवे° ।
[प्रपा०८ अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५८७
तैत्तिरीय एवाऽऽकाशाद्वायुरिति श्रूयते । सेयमुत्पत्तिर्गौणी छान्दोग्ये सृष्टिप्र-
करणे तेजोबन्नानामेवोत्पत्त्यभिधानाद्वायोरुत्पत्त्यनभिधानात् । ननु क्वचिदश्रवणमन्यत्र
श्रुतं न निवारयितुमुत्सह्त इति न्यायेन तैत्तिरीयश्रुतेः कुतो गौणत्वमितिचेच्छ्रुत्य-
न्तरविरोधादिति ब्रूमः— बृहदारण्यके “ सैषाऽनस्तमिता देवता यद्वायुः ” इति
वायोर्विनाशप्रतिषेधादुत्पत्तिमत्त्वे च तद्योगात्तस्मान्न जायते वायुरिति प्राप्ते ब्रूमः---
छान्दोग्ये जन्माश्रवणेऽपि गुणोपसंहारन्यायेन तैत्तिरीयवाक्यस्येतरत्रोपसंहारे सति
श्रुतमेव च्छान्दोग्ये वायुजन्म । अनस्तमयश्रुतिस्तु न मुख्या । उपासनप्रकरणपठित-
त्वेन स्तुत्यर्थत्वात् । आकाशोत्पत्तिहेतवश्चात्रानुसंधेयाः । न च वायोराकाशकार्यत्वेन
ब्रह्मण्यनन्तर्भावाद्ब्रह्मज्ञानेन वायुज्ञानं न सिध्येदिति शङ्कनीयम् । पूर्वपूर्वकार्यविशिष्टस्य
ब्रह्मण उत्तरोत्तरकार्यहेतुत्वस्य वक्ष्यमाणतया वियद्रूपापन्नस्य ब्रह्मण एव वायुकारण-
त्वात् । तस्माद्वायूर्जायते ” ।
*तृतीयाधिकरणमारचयति —
“ सद्ब्रह्म जायते नो वा कारणत्वेन जायते ।
यत्कारणं जायते तद्वियद्वाय्वादयो यथा ॥
असतोऽकारणत्वेन खादीनां सत उद्भवात् ।
व्याप्तेरजादिवाक्येन बाघात्सन्नैव जायते ॥
छान्दोग्ये—“ सदेवै सोम्येदमग्र आसीत् ” इति श्रूयते । तत्सद्रूपं ब्रह्म जन्म-
द्रवितुमर्हति कारणत्वाद्वियदादिवदिति प्राप्ते ब्रूमः--सद्रूपं ब्रह्म न जायते । कुतः ।
जनकस्य कारणस्य दुर्नीरूपत्वात् । तथा हि न तावदसत्कारणं कथमसतः सज्जाये-
तेति निषेधात् । नापि सदेव सतः कारणमात्माश्रयापत्तेः । नापि वियदादिकं सतः
रणं वियदादीनां सतो जायमानत्वात् । या तु व्याप्तिर्यत्कारणं तत्तज्जायत इति,
।—स वा एष महानज आत्मेत्यादिश्रुतिबाध्या । तस्मात्सद्ब्रह्म नैव जायते ” ।
+चतुर्थाधिकरणमारचयति—
“ ब्रह्मणो जायते वह्निर्वायोर्वा ब्रह्मसंयुतात् ।
तत्तेजोऽसृजतेत्युक्तेर्ब्रह्मणो जायतेऽनलः ॥
वायोरग्निरितिश्रुत्या पूर्वश्रुत्यैकवाक्यतः ।
ब्रह्मणो वायुरूपत्वमापन्नादग्निसंभवः ॥
- असंभवस्तु सतोऽनुपपत्तेः— ब्र० सू० अ० २ पा० ३ अ० ३ सू० ९ । + तेजोऽत.
था ह्याह—ब्र० सू० अ० २ पा० ३ अ० ४ सू० १० ।
१ ग. °व सौम्ये° ।
तथाऽद्भ्यः पृथिवीति तैत्तिरीयश्रुत्येकवाक्यताबलाच्चात्रान्नं पृथिवी" is the correct Sanskrit sentence. But here, the printer had a manuscript reading:
"बलाद्देत्रान्नं" or "बलार्देत्रान्नं" (corruption of "बलाच्चात्रान्नं" or "बलादत्रान्नं")!
Wait, look at footnote 4:
"४ घ. ०द्भूतं ।" or "४ घ. ०दन्नं ।"?
Look at the footnote 4 number: '४'.
Where is '४' in the page?
Look closely at line 25:
Is there a '४' right in front of "र्देत्रान्नं"?
YES! Look at the top left of 'र्दे': there is a small '४'!
Wait, look at: "बला" then a small '४' then 'र्देत्रान्नं'!
Yes, "४र्देत्रान्नं"!
And footnote 4 says:
"४ घ. ०द्भूतं ।" or wait, "०दन्नं"? Look at footnote 4:
"४ घ."
Then: "०"
Then: "द्"
Then: "भ" or "द"?
Wait, look at footnote 4's word:
It has 'द्' followed by a letter, then anusvara.
If it's "घ.
॥(Wait,पृथिव्यप्सिवतिorपृथिव्यप्स्विति? It is पृथिव्यप्स्विति! Look at प्स्विति-प, स, वcombined withि->प्स्विति!) Line 19: आकाशादिक्रमः सृष्टौ कॢप्तोऽतः प्रलयेऽपि स एव क्रम इति प्राप्ते ब्रूमः— प्रथमतःLine 20:खे लीने सति निरुपादानानां कार्याणां कंचित्कालमवस्थानं २प्रसज्येत ।Line 21:किंच—“ जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते ।Line 22:ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते ॥ ”Line 23:इति पुराणे विपरीतक्रमस्योक्तत्वात्कॢप्त एवायं क्रमः । तस्मात्सृष्टिविपरीतेन पृथि-Line 24:व्यादिक्रमेण ३प्रविलयः ” ।Line 25:× नवमाधिकरणमारचयति—Line 26:“ किमुक्तक्रमभङ्गोऽस्ति प्राणाद्यैर्नास्ति वाऽस्ति हि ।Line 27:प्राणाक्षममनां ब्रह्म वियतोर्मध्य ई
५९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०८अनु०२]
प्राणाद्या भौतिका भूतेष्वन्तर्भूताः पृथक्क्रमम् ।
नेच्छन्त्यतो न भङ्गोऽस्ति प्राणादौ न क्रमः श्रुतः ॥
मुण्डके श्रूयते—" एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योति-
रापः पृथिवी विश्वस्य धारिणी" इति । तत्र प्राणादीनां वियदादिभ्यः पूर्वं श्रूयमाण-
त्वादाकाशादिकः पूर्वोक्तसृष्टिकमो भज्येतेति प्राप्ते ब्रूमः—" अन्नमयं हि सोम्य ।
आपोमयः प्राणस्तेजोमयी वाक् " इति प्राणादीनां भौतिकत्वश्रवणाद्भूतेष्वेवान्तर्भावे
पृथक्क्रमो नापेक्षितः । न च मुण्डकश्रुतिः क्रमवाचिनी । आकाशाद्वायुर्वायोरग्निरित्य-
दाविव क्रमस्याप्रतीयमानत्वात् । तदुत्पत्तिमात्रं तु केवलं ब्रूते । तस्मान्नानया श्रुत्या
पूर्वोक्तक्रमभङ्गोऽस्ति " ।
तैरेतैरधिकरणैर्मायाविशिष्टाद्ब्रह्मण आकाशादिका पुरुषान्ता जगदुत्पत्तिः सुस्थिता
तस्यां च सुस्थितायां कारणव्यतिरेकेण कार्यस्याभावाद्ब्रह्मणो देशकालसर्ववस्तुस्वात्मक-
त्वेनानन्तत्वं सुस्थितम् । तस्य सत्यं ज्ञानमनन्तमिति प्रतिज्ञातमनन्तत्वं समर्थ्य यो वेद
निहितं गुहायामित्युक्तं गुहानिहितत्वं समर्थयितुमन्नमयादिभ्य आनन्दमयान्तेभ्यः
पञ्चभ्यः कोशेभ्यो ब्रह्मतत्त्वं विवेक्तुकाम आदावन्नमयकोशं दर्शयति—
स वा एष पुरुषोऽन्नरसमयः, इति ।
यः पुरुषः शिरःपाण्यादिमानाकृतिविशेषः सृष्ट्यादावाकाशादिक्रमेणोत्पन्नः स
एवैष इदानीमस्मद्देहत्वेनानुभूयते । यद्यप्ययं न सृष्ट्यादावुत्पन्नस्तथाऽप्याकाशादिपर-
म्पराप्राप्तान्नकार्यत्वेन सजातीयतया स एवोच्यते । तामेतां विवक्षां स्पष्टीकर्तुमन्नरसम-
यशब्दः । मधुराम्ललवणतिक्तकटुकषायात्मकः षड्विधोऽन्नस्य रसस्तस्य च विकारोऽ-
न्नरसमयः । मातापितृभ्यां भुक्तान्नरसस्तयोः शरीरे त्वगसृङ्मांसमेदोस्थिमज्जाशुक्रा-
ख्यसप्तधातुरूपेण क्रमात्परिणतः सन्गर्भाशये प्रविश्य पुनर्देहरूपेण विक्रियते । तथा
गर्भोपनिषद्याम्नायते— " षड्विधो रसो रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मे-
दसोऽस्थीन्यस्थिभ्यो मज्जा मज्जायाः शुक्लं शुक्रशोणितसंयोगादावर्तते गर्भः " इति
एतेनान्नरसमयेन स्थूलदेहेन तदन्तर्वर्ती सूक्ष्मदेहोऽप्युपलक्ष्यते । तस्यापञ्चीकृतभूतकार्या-
त्वादुक्तेनान्नादिना पोष्यमाणत्वाच्च । तत्र भूतकार्यत्वमाचार्यैरुदाहृतम्— " अपञ्ची-
कृतपञ्चमहाभूतानि तत्कार्यं च सप्तदशकं लिङ्गं भौतिकम् " इति । अन्नादिपोष्यत्वं
छन्दोगैराम्नायते— " अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् " इति
उपवासेन प्रक्षीणशक्तिकस्य मनसः पारणेनाऽऽप्यायनं जन्तूनामन्वयव्यतिरेकसिद्धम् ।
तथा मार्गश्रमेण प्रक्षीणशक्तेः प्राणो जलपानेनाऽऽप्यायमानो लोके दृश्यते । तथा
१ क. ॰तेष्वन्त० । २ ख. ॰था पू० । ३ घ. ॰शादिषु० । ४ क. ख. घ. ङ. ॰हार्हि० ।
५ ग. भुक्ताऽन्न० । ६ ख. ग. ॰शुक्राख्य० । ७ ख. ग. शुक्लं शुक्रशो० । ८ क. ॰था च मां० ।
[प्रपा० ८ अनु० १] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५९१
घृततैलादितैजसद्रव्यसेवया ˙कण्ठशुद्धिं कृत्वा , वाचं पोषयन्तो गायका उपलभ्यन्ते ।
ईदृशेन मनःप्राणवागादिना लिङ्गदेहेन संयुतो योऽन्नकार्यः स्थूलदेहोऽस्माभिरुपलभ्यते
सोऽयमाध्यात्मिकः । एतेनाधिदैविको वैराजदेहो ब्रह्माण्डरूप उन्नेयः ।
सोऽप्याचार्यैर्वार्तिके दर्शितः—
“ दिगादिकरणो देवः पञ्चभूतशरीरभृत् ।
सर्वोऽस्मीत्यभिमानेद्धो विराडेवमजायत ” ॥ इति ।
सोऽयमन्नमयः कोशः शाखाग्रचन्द्रदर्शनन्यायेन ब्रह्मतत्त्वं बोधयितुमुपन्यस्तः ।
अथास्य कोशस्य चित्याग्निवत्पक्ष्याकारेणोपासनार्थं पञ्चावयवानुपन्यस्यति—
“ तस्येद॑मेव॒ शिर॑ः । अयं दक्षि॑णः पक्ष॑ः । अयमु-
त्तर॑ः
"विद्वन्": look at 'द्व'.
Here, in line 24, it really looks like 'वि' or 'द्वि'?
Wait, if it's "य-" at the end of line 23, and line 24 starts with "द्वियदादि", that makes total sense: य-द्वियदादिपरम्परया!
Wait, but if line 23 is "य-", and line 24 is "द्वियदादि", together it is "यद्वियदादिपरम्परया"!
Wait, or is line 23 ending with: "प्राप्नुवन्ति । य-"?
Wait, look at the letter after "प्राप्नुवन्ति ।":
It is 'य'!
And then line 24: "द्वियदादिपरम्परया" or "वियदादिपरम्परया"?
Wait, if line 23 ends with "य-", could line 24 be "द्वियदादि"? Yes, hyphenated: य- / द्वियदादि... Wait, nobody hyphens between य and द्व! Unless it is यत्-वियदादि, hyphenated as य-द्वियदादि.
Wait, what if it's "यद्वियदादि"? Let's check how Anandashrama prints: they often break at syllable: य- / द्वियदादि or यद्- / वियदादि.
Wait, look at line 23: is that a hyphen after य
त्पत्त्यभिवृद्धिहेतुत्वादप्युपास्यमन्नं प्रशस्तम् । अन्नशब्दनिर्वचनपर्यालोचनेऽपि सर्व
देहकारणत्वेनान्नस्य प्रशस्तत्वमवगम्यते । अद्यते सर्वैः प्राणिभिर्जीवनार्थं भक्ष्यत
इत्यन्नम् । यद्वा सर्वान्प्राणिनोऽत्ति भक्षयति संहरतीत्यन्नम् । सर्वेऽपि देहा अन्नरस-
वैषम्योत्पादितरोगादिना म्रियन्त इति लोके प्रसिद्धम् । श्रौत इतिशब्द उदाहृत-
श्लोकसमाप्त्यर्थः, कोशसमाप्त्यर्थश्च । यः पुमान्गुहाहितं ब्रह्मतत्त्वं बुभुत्सते तं प्रति
बोधद्वारभूतोऽयमन्नमयकोशोऽभिहितः । द्वारत्वं चास्य पुत्रमित्रकलत्रगृहक्षेत्रादिबाह्य-
विषयासक्तिं निवार्य देहमात्रपर्यवसायित्वसंपादनादुपपद्यते । प्राणिनां हि स्वभावत
एव पुत्रादिष्वात्मव्यवहारो भवति । तं च श्रुतिरनुवदति—‘‘आत्मा वै पुत्रना-
मासि ’’ इति । ऐतरेयकेऽप्याम्नायते— ‘‘सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रति-
धीयतेऽथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति ’’ इति । अस्यायमर्थः—
पुत्रवतो गृहस्थस्य द्वावात्मानौ पुत्ररूपः पितृरूपश्चेति । अस्य गृहिणः संबन्धी सोऽयं
पुत्ररूप आत्मा श्रौतस्मार्तपुण्यकर्मानुष्ठानार्थं गृहेऽवस्थाप्यते । पितृरूपस्तु स्वस्य कर्त-
व्यानि सर्वाणि कृत्वा वयोगत आयुष्येण विरहितो म्रियत इति । ईदृशं पुत्रादावात्म-
त्वारोपं भगवान्भाष्यकार उदाजहार—‘‘पुत्रभार्यादिषु विकलेषु सकलेषु वाऽह-
मेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति’’ इति स्वस्माद्भेदस्य पुत्रे प्रती-
यमानत्वात्तस्मिन्नात्मत्वव्यवहारः सिंहो देवदत्त इतिवत् । तर्ह्यमुमेव मुख्यताभावं बोध-
यितुं पुत्रमित्रादिकाद्वाह्यात्सर्वस्माल्लोकाद्व्यावर्त्याऽऽत्मतत्त्वबुद्धिं देहे संकोचयितुमन्नमय
आत्मोपदिष्यते । एतमेवाभिप्रायमुपरिष्टाद्विस्पष्टी करिष्यति—‘‘ स य एवंवित् ।
अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसंक्रामति ’’ इति । यस्तु बाह्यविषयासक्तिवा-
सनाप्राबल्यात्सकृदुपदेशमात्रेणान्नमयात्मनि न पर्यवस्यति तस्य तत्पर्यवसानार्थं तद्वि-
षयोपासनोपदिष्टा । स चोपासको निरन्तरमन्नमयमात्मानमुपासीनो बाह्यविषयेभ्यो व्यावृ-
त्तोऽर्थादन्नमये पर्यवस्यति । यदि कश्चिदल्पायुः सन्नुपरितनस्य प्राणमयादिविवेकस्या-
भावेन ब्रह्मतत्त्वबोधस्य संपूर्त्यभावादुक्तोपासनं कुर्वन्नेव म्रियेत । तदानीमुक्तरीत्या तस्य
सर्वान्नप्राप्तिर्भवति । ईदृशमेव विषयमभिप्रेत्य भगवतोक्तम्—
‘‘प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते’’ ॥ इति ।
तदेवं विषयाभिमुख्यनिवृत्त्यर्थमन्नमयकोशमुपादिश्य प्रसङ्गात्तदुपासनं तत्फलं चोक्तम् ।
अथ विषयेभ्यो निवृत्तस्यान्नमयकोशादप्यन्तःप्रवेशाय प्राणमयकोशमुपदिशति—
तस्मा॑द्वा ए॒तस्मादन्न॑रसम॒यात् । अन्योऽन्तर॑
आ॒त्मा प्रा॑णम॒यः । तेनै॑ष पू॒र्णः, ॥ इति ।
१ ग. द्वारं वा° । २ घ. ॰त्त्वादन्नु° । ३ ग. ॰वृत्त्यर्था° । ४ ग. म्रियते । तत्तदां ।
७५
यः परमात्मा स्वयमाकाशादिक्रमेणान्नमयतां प्राप्त इति ब्राह्मणेन प्रतिपादितः स
एव पुनः श्लोकेन स्पष्टीकृतः । तस्मादेव ब्राह्मणोक्तादेतस्माच्छ्लोकेन प्रतिपादितादहं
मनुष्य इत्यनुभूयमानादङ्गातिरिक्तोऽभ्यन्तरप्रदेशवर्ती कश्चित्प्राणमय आत्मा विद्यते ।
तेन प्राणमयेनैषोऽन्नमयः पूर्णः । देहस्यान्तरापादमस्तकं प्राणमयो व्याप्य वर्तते ।
लिङ्गशरीरे ज्ञानशक्तिः क्रियाशक्तिश्चेतिद्वयं विद्यते । तयोर्मध्ये क्रियाशक्तिकार्यभूतः
कश्चित्प्राणाख्यः पदार्थः । तस्य च प्राणस्य विकारः पञ्चवृत्तिसमूहः प्राणमयः । वृत्तयश्च
प्राणापानव्यानोदानसमानाख्यास्तस्य प्राणपदार्थस्य व्यापारविशेषास्ते च हृदयादि-
प्रदेशेषु निष्पद्यन्ते ।
तथा चोक्तम्—
“हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः ।
उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ”॥ इति ।
तस्यैत
[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५९५
एवाऽऽत्मेति मन्यन्ते । अन्वयव्यतिरेकाभ्यां चैतन्यस्य देह एवोपलम्भात् । सति॑ च
देहे चैतन्यमुपलभ्यते न त्वसति । न॑ च चैतन्यस्य जात्यन्तरतया देहव्यतिरिक्तात्मत्वं
शङ्कनीयम् । क्रमुकनागवल्लीचूर्णानां संयोगान्मदशक्तिरिव देहाकारपरिणतेभ्यो भूतेभ्यो
जायमानं चैतन्यं कथं नाम जात्यन्तरं स्यात् । तस्माच्चेतनो देह आत्मेति प्राप्ते ब्रूमः—
पृथिव्यादीनां भूतानामुपलब्धिर्भूतेभ्यो व्यतिरिक्ता भवितुमर्हति विषयित्वात् । यद्यद्वि-
षयि तत्तद्विषयाद्व्यतिरिक्तम् । यथा रूपाच्चक्षुः । तथा सति तादृशचैतन्यस्याऽऽत्मत्वं
वदन्तं प्रति कथं भौतिकदेहरूपत्वमापाद्यते । सत्येव देहे चैतन्यमुपलभ्यते नासतीति
यावन्वयव्यतिरेकावुक्तौ तत्र व्यतिरेकोऽसिद्धः । असत्यपि देहे परलोकगामिनश्चिदा-
त्मनः शास्त्रेणोपलम्भात् । शास्त्रस्य च प्रामाण्यं समर्थनीयम् ” ।
अनात्मत्वेन निर्णीतादस्माद्देहादभ्यन्तरो यः प्राणस्तस्योत्पत्तिर्द्वितीयाध्यायस्य
चतुर्थपादे* चिन्तिता—
“ मुख्यप्राणः स्यादनादिर्जायते वा न जायते ।
आनीदिति प्राणचेष्टा प्राक्सृष्टेः श्रूयते यतः ॥
आनीदिति ब्रह्मसत्त्वं प्रोक्तं वायुनिषेधनात् ।
एतस्माज्जायते प्राण इत्युक्तेरेष जायते ” ॥ इति ॥
मुखबिले संचरन्नुच्छ्वासैर्निःश्वासका॑री वायुर्मुख्यप्राणः । सोऽनादिः । कुतः ।
नासदासीदितिसूक्ते आनीदवातमित्यानीच्छब्देन सृष्टेरर्वाक्प्राणचेष्टाश्रवणादिति प्राप्ते
ब्रूमः—आनीच्छब्दो न प्राणव्यापारं वक्त्यवातमितिनिषेधात् । किं तर्हि ब्रह्मसत्त्वं
ब्रूते । सदेव सोम्येदमग्र आसीदित्यादिभिः सृष्टिप्रागवस्थाप्रतिपादकश्श्रुत्यन्तरैः समा-
नार्थत्वात् । एतस्माज्जायते प्राण इति श्रुतिस्तु स्पष्टमेव प्राणजन्म प्रतिपादयति ।
तस्मादिन्द्रियवत्प्राणो जायते ।
× तत्रैवान्यच्चिन्तितम्—
“ वायुर्वाऽक्षक्रिया वाऽन्यो वा प्राणश्रुतितोऽनिलः ।
सामान्येन्द्रियवृत्तिर्वा सांङ्ख्यैरेवमुदीरणात् ॥
भाति प्राणो वायुनेति भेदोक्तेरेकताश्रुतिः ।
वायुजत्वेन सामान्यवृत्तिर्नाक्षेपतोऽन्यता” ॥ इति ।
बाह्यवायुरेव वेणुरन्ध्रवन्मुखच्छिद्रे प्रविश्यावस्थितः प्राणनाम्ना व्यपदिश्यते । न तु
- श्रेष्ठश्च—ब्र० सू० अ० २ पा० ४ अ० ४ सू० ८ । × न वायुक्रिये पृथगुपदेशात्—ब्र०
० अ० २ पा० ४अ० ५ सू० ९ ।
१ क. ख. ग. छ. ॰ति दे॑ । २ ख. न चै॑ । ३ क. ख. ग. छ. ॰स्का॑ ।
५९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा० ८ अनु० २]
प्राणो नाम किंचित्त्वान्तरमस्ति । कुतः । यः प्राणः स वायुरिति श्रुतेः । अथवा
पञ्जरस्था यथा बहवः पक्षिणः स्वयं चलन्तः पञ्जरमपि चालयन्ति एवमेकादशाक्षाणि
स्वस्वव्यापारद्वारा देहं चेष्टयन्ते । तत्र देहचालनाख्यो योऽयं सर्वेन्द्रियसाधारणो
व्यापारः स प्राणो भविष्यति । तथा च सांख्यैरुक्तम्—“ सामान्या करणवृत्तिः
प्राणाद्या वायवः पञ्च ” इति । तस्मान्न तत्त्वान्तरं प्राण इति प्राप्ते ब्रूमः--“ प्राण एव
ब्रह्मणश्चतुर्थः पादः । स वायुना ज्योतिषा भाति ” इति श्रुत्यन्तरे चतुष्पाद्ब्रह्मोपास-
नप्रसङ्गेनाऽऽध्यात्मिकप्राणस्याऽऽधिदैविकवायोश्चानुग्राह्यानुग्राहकत्वेन विभेदः स्पष्ट-
मेव निर्दिष्टः । अतो यः प्राणः स वायुरित्येकत्वश्रुतिः कार्यकारणयोरभेदवृत्त्या
नेतव्या । यत्तु सांख्यैरुक्तं तदसत् । इन्द्रियाणां सामान्यवृत्त्यसंभवात् । पक्षिणां तु
सामान्यचलनान्येकविधानि पञ्जरचलनस्यानुकूलानि । न तु तथेन्द्रियाणां दर्शनश्रवणम-
नैनादिव्यापारा एकविधाः । नापि देहँचलनानुकूलाः । तस्मात्तत्त्वान्तरं प्राण इति परि-
शिष्यते ।
- तत्रैव पुनरप्यन्याचिन्तितम्—
“प्राणोऽयं विभुरल्पो वा विभुः स्यात्प्लुष्युपक्रमे ।
हिरण्यगर्भपर्यन्ते सर्वदेहे समोक्तितः ॥
समासव्यासरूपेण विभुतैवाऽऽधिदैविकी ।
आध्यात्मिकोऽल्पः प्राणः स्याददृश्यश्च यथेन्द्रियम् ॥
प्लुषीर्नाम मशकादेरपि न्यूनकायः पुत्तिकाख्यो जीवस्तामारभ्य हिरण्यगर्भपर्यन्तेषु
देहेषु तैस्तैर्देहैः समत्वं प्राणस्य श्रूयते— “समः प्लुषिणा समो मशकेन समो नागेन
सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण ” इति । तस्माद्व्यापी प्राण इति प्राप्ते ब्रूमः—
आधिदैविकस्य हिरण्यगर्भप्राणस्य समष्टिरूपेण व्यष्टिरूपेण चावस्थानाद्विभुत्वमस्तु ।
वायुरेव व्यष्टिर्वायुः समष्टिरिति श्रुतेः । तदेव विभुत्वं समः प्लुषिणेत्यादिश्रुतावुपास-
नार्थं प्रपञ्चितम् । आध्यात्मिकस्तु प्राण इन्द्रियवददृश्यः परिच्छिन्नश्च ” ।
यस्त्वनेकजन्माभ्यस्तेदेहात्मत्ववासनाप्राबल्यात्प्राणमयात्मोपदेशमात्रेणाऽऽत्मत्व-
बुद्धिं देहे परित्यक्तुं न शक्नोति तं प्रत्युपासनान्तरं विधातुमुपास्यस्वरूपं दर्शयति—
स वा ए॒ष पु॑रुषवि॒ध ए॒व । तस्य॑ पुरु॑षवि॒धताम् ।
अन्व॒यं पु॑रुष॒विध॑ः । तस्य॑ प्रा॒ण ए॒व शिर॑ः । - अणूश्च— ब्र० सू० अ० २ पा० ४ अ० ६ सू० १३ ।
१ व. षण मे° । २ ग. घ. तु च सा° । ३ व. 'ननय्या° । ४ घ. °हचाल° । ५ क.
°रन्य° । ६ ख. घ. °सनां वि° ।
समानयत्येष"
Everything is remarkably clear and consistent.[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५९५
व्या॒नो द॑क्षि॒णः प॒क्षः । अ॒पान॒ उत्त॑रः प॒क्षः ।
आ॒काश॑ आ॒त्मा । पृ॒थि॒वी पु॒च्छं प्रति॑ष्ठा॒, इति ॥
देहादभ्यन्तरत्वेन यः प्रोक्तः स एवैष प्राणितीत्येवमनुभूयमानः प्राणमयः पुरुष-
विध एव । यद्यप्यस्य शिरआद्यवयवाः स्वतो न सन्ति तथाऽपि तान्संपाद्य पुरुषा-
कार एव उपासनीयः । न चात्र दुःसंपादत्वं शङ्कनीयम् । तस्य पूर्वोक्तस्यान्नमयस्य
पुरुषप्रकारतामनुसृत्य तन्मध्ये पूर्णत्वेन वर्तमानोऽयं प्राणमयोऽपि पुरुषप्रकार इति
वक्तुं शक्यत्वात् । यथा मूषायां निषिक्तं द्रुतताम्रं प्रतिमाकारं संपद्यते तद्वत् । तत्र
हृदयादूर्ध्वं मुखनासिकयोः संचारी प्राणारख्यो वृत्तिविशेषः शिरस्त्वेन चिन्तनीयः ।
सर्वासु नाडीषु संचारी
वाव समानसंज्ञोत्तरं व्यानस्य रूपं चैतेषामन्तरा प्रसूतिरेवोदानस्याथ योऽयं पीतमशित-
मुगिरति निगिरति चैष वाव स उदानः” इति। पुरा प्रजापतिः स्वयमेकाकित्वेन क्रीडा-
रहितस्तत्सिद्धयर्थं देहान्सृष्ट्वा सृष्टानां तेषां व्यवहारसिद्धयर्थं प्राणवायूपाधिकजीवात्मरूपे-
णान्तः प्रविश्य पञ्चधा विभज्य व्यवहरतीति श्रुतेरर्थः ।
पूर्वोक्तान्नमयवत्प्राणमयेऽपि श्लोकमुदाहरति—
तदप्येष श्लोको भवति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके
द्वितीयोऽनुवाकः ॥ २ ॥
अथ तृतीयोऽनुवाकः ।
प्रा॒णं दे॒वा अनु॒प्राण॑न्ति । म॒नु॒ष्या॑: प॒शव॑श्च॒ ये ।
प्रा॒णो हि भू॒ताना॒मायु॑: । तस्मा॑त्स॒र्वायु॒षमु॑च्यते ।
सर्व॑मेव॒ त आयु॑र्यन्ति । ये प्रा॒णं ब्रह्मोपास॑ते । प्राणो
हि भू॒ताना॒मायु॑: । तस्मात्सर्वायुषमुच्य॑त इति॒, इति।
ये सात्त्विका अग्नीन्द्रादयो देवा ये च राजसा ब्राह्मणक्षत्रियादयो मनुष्या येऽपि
तामसा गवाश्वादयः पशवः [ते] सर्वेऽपि स्वस्वदेहमध्यवर्तिनं प्राणवायुं चेष्टमानमनुसृत्य
स्वयमपि चेष्टन्ते । प्राण एव हि देहं चालयति । तथा कौषीतकिनः समामनन्ति—
“ अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति ” इति । आथर्वणिका-
श्चाऽऽकाशादिभूताभिमानिदेवैर्वागादीन्द्रियाभिमानिदेवैश्च सह प्राणाभिमानिदेवस्य देहधा-
रणविषये संवादे समामनन्ति—“ तान्वरिष्ठः प्राण उवाच मां मोहमापद्यथाहमेवैतत्पञ्च-
धाऽऽत्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामि ” इति । यथा बाणो धनुष्केण प्रेर्यते
तथा प्राणेन प्रेर्यमाणत्वाद्बाणशब्देन शरीरमुपलक्ष्यते । यः प्राणो देवमनुष्यपश्वादिदेहानां
चेष्टामुत्पादयति स प्राणो यस्मात्सर्वप्राणिनामायुर्हेतुस्तस्मात्सर्वायुषमुच्यत इति प्राणस्य
नामधेयम् । यथोक्तप्राणमयकोशज्ञानमात्रेणान्न मयात्मवासनां परित्यक्तुमशक्नुवन्तो ये
पुरुषास्तद्वासनानिवृत्तये प्राणोपाधिकं ब्रह्मोपासते, ते पुरुषा : आध्यात्मिकप्राणोपाधिक-
ब्रह्मोपासनादेतस्मिञ्जन्म न्यपमृत्युपरिहारेण सर्वमायुः प्राप्नुवन्ति । आधिदैविकाहिरण्यगर्भा-
त्मकप्राणोपासनेन तु जन्मान्तर स्वयमेव हिरण्यगर्भरूपाः सन्ता महापलयपर्यन्तं सर्वमायुः
प्राप्नुवन्ति । कोशप्रशंसार्थं पूर्वमुक्तस्य प्राणो हीतिवाक्यस्योपास्तिप्रशंसार्थं पुनरप्यभि-
धानम् ।
१ क. ख. छ. ॰र पान' । २ क. ख. ग. छ. ॰जीवरू' ।
Anuvāka 2 text in this edition:
Let's look at L24 very carefully:
[५] [ ? ] द्यिश्रुत्यन्तराण्युदाहार्याणि
Wait, it has:
५ then आ? No, इत्यादि?
Let's zoom in on ५ ... द्यादिश्रुत्यन्तराण्युदाहार्याणि:
Wait, look at the letters:
५ then a letter with an 'ā' matra, then 'दि':
Wait! Is it "५त्यादिश्रुत्यन्तराण्युदाहार्याणि"?
Yes! "लोभ" at the end of L23, and "इत्यादि" split across lines as "लोभे" / "लोभ"+"इत्यादि"?
Wait, if it's "लोभ इत्यादिश्रुत्यन्तराण्युदाहार्याणि", why would there be "त्यादि"?
Could L23 end with: "लोभ"
and L24 start with: "५इत्यादि..."?
Wait, look at the letter after ५:
It has: a left hook, a loop, a vertical bar with an ā-matra:
Wait, could it be "५मोहादिश्रुत्यन्तराण्युदाहार्याणि"?
Look at 'म' in 'मनोमयः' (L24): 'म' has a loop on the left, horizontal stroke, vertical bar.
६०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०८ अनु०४]
तेषामिन्द्रियाणामुत्पत्तिर्द्वितीयाध्यायस्य चतुर्थपादे*चिन्तिता—
“ किमिन्द्रियाण्यनादीनि सृज्यन्ते वा परात्मना ।
सृष्टेः प्रागृषिणामैषां सद्भावोक्तेरनादिता ॥
एकबुद्ध्या सर्वबुद्धेर्भौतिकत्वाज्जनिश्श्रवात् ।
उत्पद्यन्तेऽथ सद्भावः प्रागवान्तरसृष्टितः ॥
“ ऋषयो वाव तदग्रे सदासीत्केत ऋषय इति प्राणा वा ऋषयः” इति श्रुत्या सृष्टेः
पूर्वमिन्द्रियाणां सद्भावावगमादनादित्वं तेषामिति प्राप्ते ब्रूमः—एकविज्ञानेन सर्वविज्ञानं
तावदिन्द्रियाणामनुत्पत्तौ न घटते । तथा “ अन्नमयं हि सोम्य मन आपोमयः प्राण-
स्तेजोमयी वाक् ” इति भूतकार्यत्वमिन्द्रियाणां श्रूयते । “ एतस्माज्जायते प्राणो मनः
सर्वेन्द्रियाणि च ” इति स्पष्टमेवेन्द्रियाणां जन्मश्रवणम् । यत्तु सृष्टेः प्राक्सद्भाववाक्यं
तदवान्तरसृष्टिविषयं व्याख्येयम् । तस्मादिन्द्रियाणि परमात्मन उत्पद्यन्ते ” ।
+तत्रैवान्यच्चिन्तितम्—
“ सप्तैकादश वाऽक्षाणि सप्त प्राणा इति श्रुतेः ।
सप्त स्युर्मूर्धनिष्ठेषु च्छिद्रेषु च विशेषाणात् ॥
अशीर्षण्यस्य हस्तादेरपि वेदे समीरणान् ।
ज्ञेयान्येकादशाक्षाणि तत्तत्कार्यानुगेधतः ॥
सप्तैवेन्द्रियाणि । कुतः । सप्त प्राणाः प्रभवन्ति तस्मादिति सामान्यश्रुतेः । स
शीर्षण्याः प्राणा इति शिरोगतसप्तच्छिद्रनिष्ठत्वेन विशेषितत्वाच्चेति प्राप्ते ब्रूमः
शिरोनिष्ठेभ्य इतराणि हस्तादीन्यपि वेदे समीर्यन्ते “ हस्तौ चाऽऽदातव्यं चोपा
श्वाऽऽनन्दयितव्यं च ” इत्यादिना । तथा च वेदमुखादेव निश्चये सत्येकादशव्यापारा
दर्शनश्रवणघ्राणास्वादनास्पर्शनाभिवदनादानगमनानन्दविसर्गध्यानानामुपलम्भात्तत्साधना
नेन्द्रियाण्येकादशेत्युपगन्तव्यम् ” ।
÷पुनरप्यन्यच्चिन्तितम्—
“ व्यापिन्यणूनि वाऽक्षाणि सांख्या व्यापित्वमूचिरे ।
वृत्तिलाभस्तत्र तत्र देहे कर्मवशाद्भवेत् ॥
देहस्थवृत्तिसद्भावेप्येवाक्षत्वं प्रकाश्यते ।
उत्क्रान्त्यादिश्रुतेस्तानि ह्यणूनि स्युरदर्शनात् ॥
- तथा प्राणाः—ब्र० सू० अ० २ पा० ४ अ० १ सू० १ । + सप्त गतेर्विशेषितत्वाच्च—
सू०अ०२ पा० ४ अ० २ सू० ५ । ÷ अणवश्च—ब्र० सू०अ० २ पा० ४ अ० ३ सू० ७ ।
१ ग. ॰न्ते च स॰ । २ घ. ॰प्त.शीं॰ । ३ घ. देशे ।
नि? No, modern OCR or transcription: if it's a variant mark, writing आलोचकत्वेनान्यानि` (or with a note/candrabindu) is standard. But wait! Look at the prompt: "Transcribe it into pure, clean Markdown in Unicode Devanagari." Clean Markdown means accurate reading. "आलोचकत्वेनान्यानि" is the actual correct reading!
Let's check line 24:
इह वागादीन्यक्षाणि मुख्यप्राणवृत्तयो भवितुमर्हन्ति । कुतः । तेषां प्राणरूपत्वश्रव-
णात् । “त एतस्यैव सर्वे रूपमभवन्” इति श्रुतेः । किंच प्राणशब्देनैव तानि लोके
व्यवह्रियन्ते म्रियमाणस्य प्राणा नाद्यापि निर्गच्छन्तीत्यादौ । श्रुतिश्च वागादीनां
प्राणनैकतामाह— “न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते प्राणा
Footnotes:
※ज्योतिराद्यधिष्ठानं तु तदामननात्—ब्र० सू० अ० २ पा० ४ अ० ७ सू० १४ । + त
इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात्—ब्र० सू० अ० २ पा० ४ अ० ८
ङ् in Taittiriya Aranyaka text:
Could the text have printed ङ्गेना by mistake?
Wait, look at the first akshara:
It's ङ् (a dot to the right of ङ) + ख्ये?
Wait! Could it be अथर्वा + ङ्गिरोनामकेन?
Wait, why च महर्षिणा? "अथर्वणा अङ्गिरोनामकेन च महर्षिणा"!
Wait! Look at line 27:
अथर्वा-
Line 28:
Wait, does it say अथर्वा- or अथर्वा-?
Yes, line 27 ends with: अथर्वा-
And line 28 starts with:
Wait, is that ङ्?
No! Look at the dot: is it a dot or an anusvara?
Wait, could it be त्स? No.
Let's look at the shape:
Top bar.
A vertical line going down, curving right with a dot: ङ!
Underneath/attached: ख्ये?
Wait, look at ख्य in line 10: वैलक्षण्यात् - that has क्ष not ख्य.
Wait, look at line 28:
ङ्ख्यॆना(णा)ङ्गिरोनामकेन?
Wait, let's search for
प्रपा०८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६०३
पूर्ववदस्मिन्मनोमयेऽपि श्लोकमुदाहरति—
तदप्येष॒ श्लोको॑ भवति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकेऽष्टमप्रपाठके
तृतीयोऽनुवाकः ॥ ३ ॥
अथ चतुर्थोऽनुवाकः ।
यतो॒ वाचो॒ निव॑र्तन्ते । अप्रा॑प्य॒ मन॑सा स॒ह । आन॑न्दं
ब्रह्म॑णो वि॒द्वान् । न बि॑भेति कदा॑चनेति, इति ।
वाचकाः शब्दा ज्ञापकेन मनसा सह ब्रह्मणः स्वरूपभूतमानन्दमप्राप्य यस्माद्ब्र-
ह्मानन्दान्निवर्तन्ते तद्ब्रह्मानन्दं विद्वान्मनोमयोपाधिविशिष्टमुपासीनः कदाचिदपि न
बिभेति । जातिगुणाद्यभावान्न ब्रह्मणि वाचकशब्दप्रवृत्तिः ।
एतच्च नैष्कर्म्यसिद्धावुक्तम्—
“ षष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः
त्रेदं" - wait! If it's "तत्रेदंप्रत्ययो", why does line 25 start with "दं"?
Ah! तत्र + इदं = तत्रेदं.
If split: तत्रे / दंप्रत्ययो!
Let's look at the end of line 24 again:
Letter 1: त
Letter 2: is it त्र?
Wait, it has a vertical line, a slant down-left, and a stroke on top slanting left (e-matra)!
Wait, does it have an anusvara?
Wait, look at the letter: it's 'त्र'! And above it is an e-matra!
Wait, but is there an anusvara? Or is it just "तत्रे"?
Wait, why would it be "तत्रे" if line 25 starts with "दंप्रत्ययो"?
Because "तत्रे" + "दं" = "तत्रेदं"!
Wait, but look at the character at the end of line 24:
Wait, could it be "तत्र"? No, look at line 24 end:
"त" and then... wait, look at the character:
Is it "त" followed by "त्र"? No, it's just one character: "तं"?
Wait, why would it be "तं"?
Wait! Could it be "तत्रेदंप्रत्ययो"?
What if line 24 ends with "तत्रे" and line
[प्रपा०८अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६०५
भिमन्ता सर्वेषु प्रमाणव्यवहारेषु प्रमाता सोऽयमत्र विज्ञानमयः । एतमेवोद्दिश्याऽऽ-
थर्वणिकाः—“चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च ” इत्यादिना प्रमाणप्रमेयजातं
सर्वमनुक्रम्य सर्वव्यवहारकर्तारं पृथगेव विस्पष्टमामनन्ति—“एष हि द्रष्टा स्प्रष्टा
श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः” इति । कौषीतकि-
नश्च—“प्रज्ञया वाचं समारुह्य” इत्यादिना विषयेन्द्रियव्यवहारस्य सर्वस्यान्वयव्य-
तिरेकाभ्यां मनोधीनत्वमाम्नायाशेषव्यवहारकर्तारं पृथगामनन्ति—“ न वाचं विजि-
ज्ञासीत वक्तारं विद्यात् ” इत्यादिना । नन्वात्मैव व्यवहारस्य कर्ता भवति । नैत्वसौ
विज्ञानमयाख्यश्चतुर्थः कोशः । अत एव भगवान्बादरायणो द्वितीयाध्यायस्य तृती-
यपादे जीवात्मविचारे—“कर्ता शास्त्रार्थवत्त्वात् ”