तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 592, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०८ अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५८७
तैत्तिरीय एवाऽऽकाशाद्वायुरिति श्रूयते । सेयमुत्पत्तिर्गौणी छान्दोग्ये सृष्टिप्र-
करणे तेजोबन्नानामेवोत्पत्त्यभिधानाद्वायोरुत्पत्त्यनभिधानात् । ननु क्वचिदश्रवणमन्यत्र
श्रुतं न निवारयितुमुत्सह्त इति न्यायेन तैत्तिरीयश्रुतेः कुतो गौणत्वमितिचेच्छ्रुत्य-
न्तरविरोधादिति ब्रूमः— बृहदारण्यके “ सैषाऽनस्तमिता देवता यद्वायुः ” इति
वायोर्विनाशप्रतिषेधादुत्पत्तिमत्त्वे च तद्योगात्तस्मान्न जायते वायुरिति प्राप्ते ब्रूमः---
छान्दोग्ये जन्माश्रवणेऽपि गुणोपसंहारन्यायेन तैत्तिरीयवाक्यस्येतरत्रोपसंहारे सति
श्रुतमेव च्छान्दोग्ये वायुजन्म । अनस्तमयश्रुतिस्तु न मुख्या । उपासनप्रकरणपठित-
त्वेन स्तुत्यर्थत्वात् । आकाशोत्पत्तिहेतवश्चात्रानुसंधेयाः । न च वायोराकाशकार्यत्वेन
ब्रह्मण्यनन्तर्भावाद्ब्रह्मज्ञानेन वायुज्ञानं न सिध्येदिति शङ्कनीयम् । पूर्वपूर्वकार्यविशिष्टस्य
ब्रह्मण उत्तरोत्तरकार्यहेतुत्वस्य वक्ष्यमाणतया वियद्रूपापन्नस्य ब्रह्मण एव वायुकारण-
त्वात् । तस्माद्वायूर्जायते ” ।
*तृतीयाधिकरणमारचयति —
“ सद्ब्रह्म जायते नो वा कारणत्वेन जायते ।
यत्कारणं जायते तद्वियद्वाय्वादयो यथा ॥
असतोऽकारणत्वेन खादीनां सत उद्भवात् ।
व्याप्तेरजादिवाक्येन बाघात्सन्नैव जायते ॥
छान्दोग्ये—“ सदेवै सोम्येदमग्र आसीत् ” इति श्रूयते । तत्सद्रूपं ब्रह्म जन्म-
द्रवितुमर्हति कारणत्वाद्वियदादिवदिति प्राप्ते ब्रूमः--सद्रूपं ब्रह्म न जायते । कुतः ।
जनकस्य कारणस्य दुर्नीरूपत्वात् । तथा हि न तावदसत्कारणं कथमसतः सज्जाये-
तेति निषेधात् । नापि सदेव सतः कारणमात्माश्रयापत्तेः । नापि वियदादिकं सतः
रणं वियदादीनां सतो जायमानत्वात् । या तु व्याप्तिर्यत्कारणं तत्तज्जायत इति,
।—स वा एष महानज आत्मेत्यादिश्रुतिबाध्या । तस्मात्सद्ब्रह्म नैव जायते ” ।
+चतुर्थाधिकरणमारचयति—
“ ब्रह्मणो जायते वह्निर्वायोर्वा ब्रह्मसंयुतात् ।
तत्तेजोऽसृजतेत्युक्तेर्ब्रह्मणो जायतेऽनलः ॥
वायोरग्निरितिश्रुत्या पूर्वश्रुत्यैकवाक्यतः ।
ब्रह्मणो वायुरूपत्वमापन्नादग्निसंभवः ॥
- असंभवस्तु सतोऽनुपपत्तेः— ब्र० सू० अ० २ पा० ३ अ० ३ सू० ९ । + तेजोऽत.
था ह्याह—ब्र० सू० अ० २ पा० ३ अ० ४ सू० १० ।
१ ग. °व सौम्ये° ।