सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 598, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 598

त्पत्त्यभिवृद्धिहेतुत्वादप्युपास्यमन्नं प्रशस्तम् । अन्नशब्दनिर्वचनपर्यालोचनेऽपि सर्व
देहकारणत्वेनान्नस्य प्रशस्तत्वमवगम्यते । अद्यते सर्वैः प्राणिभिर्जीवनार्थं भक्ष्यत
इत्यन्नम् । यद्वा सर्वान्प्राणिनोऽत्ति भक्षयति संहरतीत्यन्नम् । सर्वेऽपि देहा अन्नरस-
वैषम्योत्पादितरोगादिना म्रियन्त इति लोके प्रसिद्धम् । श्रौत इतिशब्द उदाहृत-
श्लोकसमाप्त्यर्थः, कोशसमाप्त्यर्थश्च । यः पुमान्गुहाहितं ब्रह्मतत्त्वं बुभुत्सते तं प्रति
बोधद्वारभूतोऽयमन्नमयकोशोऽभिहितः । द्वारत्वं चास्य पुत्रमित्रकलत्रगृहक्षेत्रादिबाह्य-
विषयासक्तिं निवार्य देहमात्रपर्यवसायित्वसंपादनादुपपद्यते । प्राणिनां हि स्वभावत
एव पुत्रादिष्वात्मव्यवहारो भवति । तं च श्रुतिरनुवदति—‘‘आत्मा वै पुत्रना-
मासि ’’ इति । ऐतरेयकेऽप्याम्नायते— ‘‘सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रति-
धीयतेऽथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति ’’ इति । अस्यायमर्थः—
पुत्रवतो गृहस्थस्य द्वावात्मानौ पुत्ररूपः पितृरूपश्चेति । अस्य गृहिणः संबन्धी सोऽयं
पुत्ररूप आत्मा श्रौतस्मार्तपुण्यकर्मानुष्ठानार्थं गृहेऽवस्थाप्यते । पितृरूपस्तु स्वस्य कर्त-
व्यानि सर्वाणि कृत्वा वयोगत आयुष्येण विरहितो म्रियत इति । ईदृशं पुत्रादावात्म-
त्वारोपं भगवान्भाष्यकार उदाजहार—‘‘पुत्रभार्यादिषु विकलेषु सकलेषु वाऽह-
मेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति’’ इति स्वस्माद्भेदस्य पुत्रे प्रती-
यमानत्वात्तस्मिन्नात्मत्वव्यवहारः सिंहो देवदत्त इतिवत् । तर्ह्यमुमेव मुख्यताभावं बोध-
यितुं पुत्रमित्रादिकाद्वाह्यात्सर्वस्माल्लोकाद्व्यावर्त्याऽऽत्मतत्त्वबुद्धिं देहे संकोचयितुमन्नमय
आत्मोपदिष्यते । एतमेवाभिप्रायमुपरिष्टाद्विस्पष्टी करिष्यति—‘‘ स य एवंवित् ।
अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसंक्रामति ’’ इति । यस्तु बाह्यविषयासक्तिवा-
सनाप्राबल्यात्सकृदुपदेशमात्रेणान्नमयात्मनि न पर्यवस्यति तस्य तत्पर्यवसानार्थं तद्वि-
षयोपासनोपदिष्टा । स चोपासको निरन्तरमन्नमयमात्मानमुपासीनो बाह्यविषयेभ्यो व्यावृ-
त्तोऽर्थादन्नमये पर्यवस्यति । यदि कश्चिदल्पायुः सन्नुपरितनस्य प्राणमयादिविवेकस्या-
भावेन ब्रह्मतत्त्वबोधस्य संपूर्त्यभावादुक्तोपासनं कुर्वन्नेव म्रियेत । तदानीमुक्तरीत्या तस्य
सर्वान्नप्राप्तिर्भवति । ईदृशमेव विषयमभिप्रेत्य भगवतोक्तम्—
‘‘प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते’’ ॥ इति ।
तदेवं विषयाभिमुख्यनिवृत्त्यर्थमन्नमयकोशमुपादिश्य प्रसङ्गात्तदुपासनं तत्फलं चोक्तम् ।
अथ विषयेभ्यो निवृत्तस्यान्नमयकोशादप्यन्तःप्रवेशाय प्राणमयकोशमुपदिशति—
तस्मा॑द्वा ए॒तस्मादन्न॑रसम॒यात् । अन्योऽन्तर॑
आ॒त्मा प्रा॑णम॒यः । तेनै॑ष पू॒र्णः, ॥ इति ।
१ ग. द्वारं वा° । २ घ. ॰त्त्वादन्नु° । ३ ग. ॰वृत्त्यर्था° । ४ ग. म्रियते । तत्तदां ।
७५