सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 600, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 600

[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५९५

एवाऽऽत्मेति मन्यन्ते । अन्वयव्यतिरेकाभ्यां चैतन्यस्य देह एवोपलम्भात् । सति॑ च
देहे चैतन्यमुपलभ्यते न त्वसति । न॑ च चैतन्यस्य जात्यन्तरतया देहव्यतिरिक्तात्मत्वं
शङ्कनीयम् । क्रमुकनागवल्लीचूर्णानां संयोगान्मदशक्तिरिव देहाकारपरिणतेभ्यो भूतेभ्यो
जायमानं चैतन्यं कथं नाम जात्यन्तरं स्यात् । तस्माच्चेतनो देह आत्मेति प्राप्ते ब्रूमः—
पृथिव्यादीनां भूतानामुपलब्धिर्भूतेभ्यो व्यतिरिक्ता भवितुमर्हति विषयित्वात् । यद्यद्वि-
षयि तत्तद्विषयाद्व्यतिरिक्तम् । यथा रूपाच्चक्षुः । तथा सति तादृशचैतन्यस्याऽऽत्मत्वं
वदन्तं प्रति कथं भौतिकदेहरूपत्वमापाद्यते । सत्येव देहे चैतन्यमुपलभ्यते नासतीति
यावन्वयव्यतिरेकावुक्तौ तत्र व्यतिरेकोऽसिद्धः । असत्यपि देहे परलोकगामिनश्चिदा-
त्मनः शास्त्रेणोपलम्भात् । शास्त्रस्य च प्रामाण्यं समर्थनीयम् ” ।
अनात्मत्वेन निर्णीतादस्माद्देहादभ्यन्तरो यः प्राणस्तस्योत्पत्तिर्द्वितीयाध्यायस्य
चतुर्थपादे* चिन्तिता—
“ मुख्यप्राणः स्यादनादिर्जायते वा न जायते ।
आनीदिति प्राणचेष्टा प्राक्सृष्टेः श्रूयते यतः ॥
आनीदिति ब्रह्मसत्त्वं प्रोक्तं वायुनिषेधनात् ।
एतस्माज्जायते प्राण इत्युक्तेरेष जायते ” ॥ इति ॥
मुखबिले संचरन्नुच्छ्वासैर्निःश्वासका॑री वायुर्मुख्यप्राणः । सोऽनादिः । कुतः ।
नासदासीदितिसूक्ते आनीदवातमित्यानीच्छब्देन सृष्टेरर्वाक्प्राणचेष्टाश्रवणादिति प्राप्ते
ब्रूमः—आनीच्छब्दो न प्राणव्यापारं वक्त्यवातमितिनिषेधात् । किं तर्हि ब्रह्मसत्त्वं
ब्रूते । सदेव सोम्येदमग्र आसीदित्यादिभिः सृष्टिप्रागवस्थाप्रतिपादकश्श्रुत्यन्तरैः समा-
नार्थत्वात् । एतस्माज्जायते प्राण इति श्रुतिस्तु स्पष्टमेव प्राणजन्म प्रतिपादयति ।
तस्मादिन्द्रियवत्प्राणो जायते ।
× तत्रैवान्यच्चिन्तितम्—
“ वायुर्वाऽक्षक्रिया वाऽन्यो वा प्राणश्रुतितोऽनिलः ।
सामान्येन्द्रियवृत्तिर्वा सांङ्ख्यैरेवमुदीरणात् ॥
भाति प्राणो वायुनेति भेदोक्तेरेकताश्रुतिः ।
वायुजत्वेन सामान्यवृत्तिर्नाक्षेपतोऽन्यता” ॥ इति ।
बाह्यवायुरेव वेणुरन्ध्रवन्मुखच्छिद्रे प्रविश्यावस्थितः प्राणनाम्ना व्यपदिश्यते । न तु


  • श्रेष्ठश्च—ब्र० सू० अ० २ पा० ४ अ० ४ सू० ८ । × न वायुक्रिये पृथगुपदेशात्—ब्र०
    ० अ० २ पा० ४अ० ५ सू० ९ ।
    १ क. ख. ग. छ. ॰ति दे॑ । २ ख. न चै॑ । ३ क. ख. ग. छ. ॰स्का॑ ।