सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 605, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 605

६०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०८ अनु०४]
तेषामिन्द्रियाणामुत्पत्तिर्द्वितीयाध्यायस्य चतुर्थपादे*चिन्तिता—
“ किमिन्द्रियाण्यनादीनि सृज्यन्ते वा परात्मना ।
सृष्टेः प्रागृषिणामैषां सद्भावोक्तेरनादिता ॥
एकबुद्ध्या सर्वबुद्धेर्भौतिकत्वाज्जनिश्श्रवात् ।
उत्पद्यन्तेऽथ सद्भावः प्रागवान्तरसृष्टितः ॥
“ ऋषयो वाव तदग्रे सदासीत्केत ऋषय इति प्राणा वा ऋषयः” इति श्रुत्या सृष्टेः
पूर्वमिन्द्रियाणां सद्भावावगमादनादित्वं तेषामिति प्राप्ते ब्रूमः—एकविज्ञानेन सर्वविज्ञानं
तावदिन्द्रियाणामनुत्पत्तौ न घटते । तथा “ अन्नमयं हि सोम्य मन आपोमयः प्राण-
स्तेजोमयी वाक् ” इति भूतकार्यत्वमिन्द्रियाणां श्रूयते । “ एतस्माज्जायते प्राणो मनः
सर्वेन्द्रियाणि च ” इति स्पष्टमेवेन्द्रियाणां जन्मश्रवणम् । यत्तु सृष्टेः प्राक्सद्भाववाक्यं
तदवान्तरसृष्टिविषयं व्याख्येयम् । तस्मादिन्द्रियाणि परमात्मन उत्पद्यन्ते ” ।
+तत्रैवान्यच्चिन्तितम्—
“ सप्तैकादश वाऽक्षाणि सप्त प्राणा इति श्रुतेः ।
सप्त स्युर्मूर्धनिष्ठेषु च्छिद्रेषु च विशेषाणात् ॥
अशीर्षण्यस्य हस्तादेरपि वेदे समीरणान् ।
ज्ञेयान्येकादशाक्षाणि तत्तत्कार्यानुगेधतः ॥
सप्तैवेन्द्रियाणि । कुतः । सप्त प्राणाः प्रभवन्ति तस्मादिति सामान्यश्रुतेः । स
शीर्षण्याः प्राणा इति शिरोगतसप्तच्छिद्रनिष्ठत्वेन विशेषितत्वाच्चेति प्राप्ते ब्रूमः
शिरोनिष्ठेभ्य इतराणि हस्तादीन्यपि वेदे समीर्यन्ते “ हस्तौ चाऽऽदातव्यं चोपा
श्वाऽऽनन्दयितव्यं च ” इत्यादिना । तथा च वेदमुखादेव निश्चये सत्येकादशव्यापारा
दर्शनश्रवणघ्राणास्वादनास्पर्शनाभिवदनादानगमनानन्दविसर्गध्यानानामुपलम्भात्तत्साधना
नेन्द्रियाण्येकादशेत्युपगन्तव्यम् ” ।
÷पुनरप्यन्यच्चिन्तितम्—
“ व्यापिन्यणूनि वाऽक्षाणि सांख्या व्यापित्वमूचिरे ।
वृत्तिलाभस्तत्र तत्र देहे कर्मवशाद्भवेत् ॥
देहस्थवृत्तिसद्भावेप्येवाक्षत्वं प्रकाश्यते ।
उत्क्रान्त्यादिश्रुतेस्तानि ह्यणूनि स्युरदर्शनात् ॥

  • तथा प्राणाः—ब्र० सू० अ० २ पा० ४ अ० १ सू० १ । + सप्त गतेर्विशेषितत्वाच्च—
    सू०अ०२ पा० ४ अ० २ सू० ५ । ÷ अणवश्च—ब्र० सू०अ० २ पा० ४ अ० ३ सू० ७ ।
    १ ग. ॰न्ते च स॰ । २ घ. ॰प्त.शीं॰ । ३ घ. देशे ।