तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 610, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०८अनु०२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६०५
भिमन्ता सर्वेषु प्रमाणव्यवहारेषु प्रमाता सोऽयमत्र विज्ञानमयः । एतमेवोद्दिश्याऽऽ-
थर्वणिकाः—“चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च ” इत्यादिना प्रमाणप्रमेयजातं
सर्वमनुक्रम्य सर्वव्यवहारकर्तारं पृथगेव विस्पष्टमामनन्ति—“एष हि द्रष्टा स्प्रष्टा
श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः” इति । कौषीतकि-
नश्च—“प्रज्ञया वाचं समारुह्य” इत्यादिना विषयेन्द्रियव्यवहारस्य सर्वस्यान्वयव्य-
तिरेकाभ्यां मनोधीनत्वमाम्नायाशेषव्यवहारकर्तारं पृथगामनन्ति—“ न वाचं विजि-
ज्ञासीत वक्तारं विद्यात् ” इत्यादिना । नन्वात्मैव व्यवहारस्य कर्ता भवति । नैत्वसौ
विज्ञानमयाख्यश्चतुर्थः कोशः । अत एव भगवान्बादरायणो द्वितीयाध्यायस्य तृती-
यपादे जीवात्मविचारे—“कर्ता शास्त्रार्थवत्त्वात् ”