सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 595, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 595

५९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०८अनु०२]
प्राणाद्या भौतिका भूतेष्वन्तर्भूताः पृथक्क्रमम् ।
नेच्छन्त्यतो न भङ्गोऽस्ति प्राणादौ न क्रमः श्रुतः ॥
मुण्डके श्रूयते—" एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योति-
रापः पृथिवी विश्वस्य धारिणी" इति । तत्र प्राणादीनां वियदादिभ्यः पूर्वं श्रूयमाण-
त्वादाकाशादिकः पूर्वोक्तसृष्टिकमो भज्येतेति प्राप्ते ब्रूमः—" अन्नमयं हि सोम्य ।
आपोमयः प्राणस्तेजोमयी वाक् " इति प्राणादीनां भौतिकत्वश्रवणाद्भूतेष्वेवान्तर्भावे
पृथक्क्रमो नापेक्षितः । न च मुण्डकश्रुतिः क्रमवाचिनी । आकाशाद्वायुर्वायोरग्निरित्य-
दाविव क्रमस्याप्रतीयमानत्वात् । तदुत्पत्तिमात्रं तु केवलं ब्रूते । तस्मान्नानया श्रुत्या
पूर्वोक्तक्रमभङ्गोऽस्ति " ।
तैरेतैरधिकरणैर्मायाविशिष्टाद्ब्रह्मण आकाशादिका पुरुषान्ता जगदुत्पत्तिः सुस्थिता
तस्यां च सुस्थितायां कारणव्यतिरेकेण कार्यस्याभावाद्ब्रह्मणो देशकालसर्ववस्तुस्वात्मक-
त्वेनानन्तत्वं सुस्थितम् । तस्य सत्यं ज्ञानमनन्तमिति प्रतिज्ञातमनन्तत्वं समर्थ्य यो वेद
निहितं गुहायामित्युक्तं गुहानिहितत्वं समर्थयितुमन्नमयादिभ्य आनन्दमयान्तेभ्यः
पञ्चभ्यः कोशेभ्यो ब्रह्मतत्त्वं विवेक्तुकाम आदावन्नमयकोशं दर्शयति—
स वा एष पुरुषोऽन्नरसमयः, इति ।
यः पुरुषः शिरःपाण्यादिमानाकृतिविशेषः सृष्ट्यादावाकाशादिक्रमेणोत्पन्नः स
एवैष इदानीमस्मद्देहत्वेनानुभूयते । यद्यप्ययं न सृष्ट्यादावुत्पन्नस्तथाऽप्याकाशादिपर-
म्पराप्राप्तान्नकार्यत्वेन सजातीयतया स एवोच्यते । तामेतां विवक्षां स्पष्टीकर्तुमन्नरसम-
यशब्दः । मधुराम्ललवणतिक्तकटुकषायात्मकः षड्विधोऽन्नस्य रसस्तस्य च विकारोऽ-
न्नरसमयः । मातापितृभ्यां भुक्तान्नरसस्तयोः शरीरे त्वगसृङ्मांसमेदोस्थिमज्जाशुक्रा-
ख्यसप्तधातुरूपेण क्रमात्परिणतः सन्गर्भाशये प्रविश्य पुनर्देहरूपेण विक्रियते । तथा
गर्भोपनिषद्याम्नायते— " षड्विधो रसो रसाच्छोणितं शोणितान्मांसं मांसान्मेदो मे-
दसोऽस्थीन्यस्थिभ्यो मज्जा मज्जायाः शुक्लं शुक्रशोणितसंयोगादावर्तते गर्भः " इति
एतेनान्नरसमयेन स्थूलदेहेन तदन्तर्वर्ती सूक्ष्मदेहोऽप्युपलक्ष्यते । तस्यापञ्चीकृतभूतकार्या-
त्वादुक्तेनान्नादिना पोष्यमाणत्वाच्च । तत्र भूतकार्यत्वमाचार्यैरुदाहृतम्— " अपञ्ची-
कृतपञ्चमहाभूतानि तत्कार्यं च सप्तदशकं लिङ्गं भौतिकम् " इति । अन्नादिपोष्यत्वं
छन्दोगैराम्नायते— " अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक् " इति
उपवासेन प्रक्षीणशक्तिकस्य मनसः पारणेनाऽऽप्यायनं जन्तूनामन्वयव्यतिरेकसिद्धम् ।
तथा मार्गश्रमेण प्रक्षीणशक्तेः प्राणो जलपानेनाऽऽप्यायमानो लोके दृश्यते । तथा
१ क. ॰तेष्वन्त० । २ ख. ॰था पू० । ३ घ. ॰शादिषु० । ४ क. ख. घ. ङ. ॰हार्हि० ।
५ ग. भुक्ताऽन्न० । ६ ख. ग. ॰शुक्राख्य० । ७ ख. ग. शुक्लं शुक्रशो० । ८ क. ॰था च मां० ।