सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 599, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 599

यः परमात्मा स्वयमाकाशादिक्रमेणान्नमयतां प्राप्त इति ब्राह्मणेन प्रतिपादितः स
एव पुनः श्लोकेन स्पष्टीकृतः । तस्मादेव ब्राह्मणोक्तादेतस्माच्छ्लोकेन प्रतिपादितादहं
मनुष्य इत्यनुभूयमानादङ्गातिरिक्तोऽभ्यन्तरप्रदेशवर्ती कश्चित्प्राणमय आत्मा विद्यते ।
तेन प्राणमयेनैषोऽन्नमयः पूर्णः । देहस्यान्तरापादमस्तकं प्राणमयो व्याप्य वर्तते ।
लिङ्गशरीरे ज्ञानशक्तिः क्रियाशक्तिश्चेतिद्वयं विद्यते । तयोर्मध्ये क्रियाशक्तिकार्यभूतः
कश्चित्प्राणाख्यः पदार्थः । तस्य च प्राणस्य विकारः पञ्चवृत्तिसमूहः प्राणमयः । वृत्तयश्च
प्राणापानव्यानोदानसमानाख्यास्तस्य प्राणपदार्थस्य व्यापारविशेषास्ते च हृदयादि-
प्रदेशेषु निष्पद्यन्ते ।
तथा चोक्तम्—
“हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः ।
उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ”॥ इति ।
तस्यैत