सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 602, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 602

समानयत्येष"

Everything is remarkably clear and consistent.[प्रपा० ८ अनु० २] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५९५

व्या॒नो द॑क्षि॒णः प॒क्षः । अ॒पान॒ उत्त॑रः प॒क्षः ।
आ॒काश॑ आ॒त्मा । पृ॒थि॒वी पु॒च्छं प्रति॑ष्ठा॒, इति ॥
देहादभ्यन्तरत्वेन यः प्रोक्तः स एवैष प्राणितीत्येवमनुभूयमानः प्राणमयः पुरुष-
विध एव । यद्यप्यस्य शिरआद्यवयवाः स्वतो न सन्ति तथाऽपि तान्संपाद्य पुरुषा-
कार एव उपासनीयः । न चात्र दुःसंपादत्वं शङ्कनीयम् । तस्य पूर्वोक्तस्यान्नमयस्य
पुरुषप्रकारतामनुसृत्य तन्मध्ये पूर्णत्वेन वर्तमानोऽयं प्राणमयोऽपि पुरुषप्रकार इति
वक्तुं शक्यत्वात् । यथा मूषायां निषिक्तं द्रुतताम्रं प्रतिमाकारं संपद्यते तद्वत् । तत्र
हृदयादूर्ध्वं मुखनासिकयोः संचारी प्राणारख्यो वृत्तिविशेषः शिरस्त्वेन चिन्तनीयः ।
सर्वासु नाडीषु संचारी