तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
त्रून्? Wait, look at line 3: अमित्राञ्छत्रू-Wait, is the character before hyphenत्रू? Yes, त्रू. Why is there a hyphen? Because छत्रून्is hyphenated!छत्रू- न्! Wait, but if line 4 starts with न्, what is the NEXT letter? Is it त्क्षिणोमि? Wait, if it is न्+त्क्षिणोमि->न्त्क्षिणोमि?? Wait, look at the image: Is that उ॒त्क्षिणोमि? Wait! Look at the mark under the first letter: It is a horizontal stroke: anudātta! Can न्have an anudātta? No! Could the mantra word be:उ॒त्क्षिणो॑मि? Wait, why would छत्रू-be hyphenated if the next word isउ॒त्क्षिणोमि? Wait, could line 3 end with: ब्रह्मणा मन्त्रसामर्थ्येनामित्राञ्छत्रू-Wait, is the hyphen a hyphen forछत्रून्? Wait, could the printer have hyphenated छत्रू-and omittedन्, OR is the first character of line 4 न्`?
Wait! Look at the first character of line 4
[प्रपा०२अनु० ६] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १३३
Let's check the text of line 18:
लोके मैघ्राशब्देन -> wait, is that मैघ्राशब्देन or मैघ्रा or मैत्रा or मैघ्रा?
Look at line 18:
लोके मैघ्राशब्देन व्यवह्रिय- -> wait! Look at the footnote 4:
४ क. ˚व लोके कु˚।
Wait, footnote 4 refers to लोके?
Wait, look at L18:
...लोके मैघ्राशब्देन... -> wait, is it मैघ्रा or मैन्द्रा or मैघ्रा?
Look closely at the letters:
म + ै = मै
Then घ्र? It has a loop like घ or ध, with repha/ra-phala:
Wait, मैघ्रा? No, मैत्रा? In Sanskrit, what are विचृतौ?
विचृतौ are the stars of Mula nakshatra!
Mula nakshatra is also called: Vicrtau!
Wait, what is the word in Sayana bhashya?
"द्वे तारके लोके ... शब्देन व्यवह्रियमाणे"
In Marathi / local language, or popular name:
Is it
हः- wait, is there a footnote mark at line 20? No, look at line 19: Betweenतन्तुमनुandस्वकीयं, there is ३! Wait, why does footnote 3 say ३ ग. हि पितृविं°? Wait, in line 20: द्विविधो हि विग्रहः... wait! Where is ४? Look at line 20-21: पुत्ररूप-/श्चाऽऽत्मरूपश्चेति-> is there a४? Wait, look at footnote 4: ४ °रूपः स्वात्म° ।This clearly replacesश्चाऽऽत्मरूपश्चेतिorपुत्ररूपश्चाऽऽत्मरूपश्चेतिwith°रूपः स्वात्म°! Where is १and२? In line 18: चेच्छ॒क्रवाँ॑२॒स् स्वर्ग-> wait, is that२॒a pluta or footnote? Wait, in line 18:चेच्छ॒क्रवाँ॑२॒स्Look at the२: it has an anudatta under it: २॒! That's definitely Vedic pluta 2! Wait, where are the footnote markers 1 and 2? Look at the text: In line 18: Is there a
प॒रि॒वि॒ष्टं यद॒ग्नौ तस्मै॑ गो॒त्राये॑ह जा॑यापती॒ सꣳर॑भेथाम्, इति ।
हे जायापती कर्माधिकारिणाविह जन्मनि घृतेन द्रव्येणाऽऽरभेथां कर्मारम्भं कुरु-
तम् । अनुसंरभेथां परस्परमनुकूलौ संगतौ कदाचिदप्यवियुक्तावेव भवतम् । तयोरुभयोः
समानं साधारणं पन्थां पुण्यलोकमार्गमवथो रक्षतम् । वां युवयोर्यत्पूर्तं पितृभ्यो
दत्तमन्नादि, यदग्नौ परिविष्टं परिप्रापितं हविः, तस्मै तदविच्छेदनं यथा क्रियेतेत्ये-
वमर्थं संरभेथां त्वरेथां न तु तूष्णीमासाथाम् । तच्च गोत्रायोपयुज्यते, गोत्रसंभवाः
पूर्वे परे च ये सन्ति तेषामिदमनुष्ठानमुपयुक्तम् ।
अथाष्टमीमाह--
यद॒न्तरि॑क्षं पृथि॒वीमु॒त द्यां यन्मा॒तरं॑ पि॒तरं॑ वा
जिहि
जनित्रं जननीस्थानीया । भूमिरचेतना निवासाधिकरणभूता, तदभिमानिनी देवताऽ-
दितिः । यदिदमन्तरिक्षं तदस्माकं भ्राता भ्रातृस्थानीयम् । यदेनोऽस्माभिः कृतं तद-
भिशस्तः शत्रुस्थानीयम् । येयं द्यौः सेयं नः पिता पितृस्थानीया । यथा परमेश्व-
रेण संपादितः सर्वसाधारणोऽयं बन्धुवर्गः, तथा हे यजमान बन्धुवर्गसंपादनाथं त्वं
पितृत्वात्पितृत्वमिच्छञ्छं भवासि सुखं प्राप्नोषि । ऐहिकामुष्मिकसुखसिद्धये पुत्रा-
नुत्पादयेत्यर्थः , जामि मित्वार्डऽलस्येन पुत्रोत्पत्तिरहित एव सन्मृत्वा लोकादृणत्र-
यरहितानां योग्यं लोकं मा विवित्तिस नैव ल॑प्स्यसि (से) ।
अथ दशमीमाह—
यत्र॑ सु॒हार्दः॑ सु॒कृतो॒ मद॑न्ते वि॒हाय॒ रोगं॑ त॒न्वां-
१ ५ स्वायांम् । अ॒श्लो॒णाङ्गैरँहु॑ताः स्वर्गे
तत्र॑ पश्येम पि॒तरं॑ च पु॒त्रम् , इति ।
यत्र यस्मिन्पुण्यलोके स्थिताः सुहार्दः शोभनहृदयोपेताः सुकृतः पुण्यकर्माणः
स्वायां तन्वां स्वकीये शरीरे रोगं विहाय परित्यज्य मदन्ते हृष्यन्ति, अश्लोणाङ्गैः
श्लोणो रोगविशेषस्तद्रहितैरङ्गैर्युक्ता अ॑हुताः कौटिल्यरहिताः केनचिदप्यवञ्चिताः सर्वे
वयं तत्र स्वर्गे स्थित्वा पितरं पुत्रं च पश्येम । तादृशं जन्म भूयादित्यर्थः ।
अथैकादशीमाह—
यदन्न॑म॒दम्यनृ॑तेन दे॒वा दा॒स्यन्नदा॑स्यन्नु॒त वा॑ऽक-
रि॒ष्यन् । यद्दे॒वानां॒ चक्षु॑ष्यागो॒ अस्ति॒ यदे॒व किंच॑
प्रतिज॒ग्राह॒मग्निर्मा तस्मा॑दनृ॒णं कृ॑णोतु , इति ।
हे देवा अहं दास्यन्नदास्यन्प्रत्यर्पणं चिकीर्षुरचिकीर्षुर्वा, तात्कालिकेन सर्वथ
प्रत्यर्पयिष्यामीत्येतादृशेनानृतवचनेन धनमादाय यदन्नमद्मि भक्षयामि, अथवा किंचि
त्कार्यं परकीयं करिष्यामीत्यनेनानृतेन वचनेन धनमादाय तत्कार्यमकरिष्यन्यदन्न
मद्मि, यदपि देवानां चक्षुषि दृष्टिविषये मया कृतमागः पापमस्ति, आदित्याभिमु
ख्येन मूत्रविसर्गादि ।
तथा च स्मर्यते—
“ प्रत्यादित्यं प्रत्यनिलं प्रति गां च प्रति द्विजम् ।
मेहन्ति ये च पापिष्ठास्ते भवन्ति गतायुषः ” इति ॥
१ क. ख. लप्स्यते । २ ग. ˚न्वा १ । ग. ˚रहता स्व˚ ४ ख. ˚हरुता स्व˚ । ५ ग. अहताः ।
?
Ah, "दोषाह्देशकालदोषादिना" - in some mss it might be "दोषाह्दे..." or footnote 1 says "१ क. ॰षाद्दे॰।"
Wait, in line 11: ( २ ) is footnote/number 2.
Line 12: पुत्रꣳ ५ (reference 5 to footnote 5: ५ ग. कूश्मण्ड॰ - wait, reference 5 is at पुत्रꣳ ५? No, near कूश्मा-? Ah, पुत्रꣳ has ५ next to it? Wait, let's look at line 12:
"च॒रेम॒ पुत्रꣳ५ षट् च॑ ॥" -> wait, 'पुत्रꣳ५'? No, that's an avagraha/pluta or number of words: in Taittiriya Aranyaka, at the end of anuvaka, they give the pratika of the previous anuvakas and word counts!
Wait! "चरेम पुत्रꣳ षट् च" - these are pratikas of the anuvakas in this prapathaka!
Wait, anuvaka 1 ends with "चरेम"? Anuvaka 2 ends with "पुत्रम्"?
And '५' is a count! "पुत्रꣳ ५ षट् च ॥"
Wait, then where are footnotes 1, 2, 3, 4, 5, 6?
Let's look at footnote marks:
Foot
नुप्रविष्टाः । इतरे तु महर्षयः श्रद्धापूर्वकेण"
Line 9:
"तपसा शुद्धचित्ताः सन्तो ध्यानेनाँ⁴न्विष्य तेषु कूष्माण्डमन्त्रेष्ववस्थितान्वातरशनाख्याँ-"
Wait, is कूष्माण्ड with footnote 5?
Look at footnote 5: "५ ख. ग. कूष्माण्ड° ।"
Wait, in line 8, how is it spelled? "कूष्माण्डारुण्यानि" - wait, in line 9: "कूष्माण्डमन्त्रेष्ववस्थितान्"?
Ah, in line 8: is it "कूष्माण्डारुण्यानि"? Look at the letter: "कूष्मा" then what?
Wait! Look at line 8: "कूष्माण्डारुण्यानि"?
No, wait! Look at footnote 5: "५ ख. ग. कूष्माण्ड° ।"
Why would footnote 5 say "ख. ग. कूष्माण्ड°"?
Because in the text it must be spelled differently, like "कुष्माण्ड°" (short u) or "कूश्माण्ड°"!
Look at line 8: "कुष्माण्डारुण्यानि" or "कूष्माण्डारुण्यानि"?
In line 8, it is "कूष्माण्डारुण्यानि".
Wait, look at line 9:
"तेषु कूष्
योनौ यो रेतः सिञ्चति एष सुवर्णस्तेयकारिणा भ्रूणहत्याका-
Line 23:
रिणा च समो भवति, सोऽपि कूश्माण्डैर्जुहुयात् ।
Line 24:
तेनोक्तेन होमेन यथोक्तपापनिवृत्तिं दर्शयति—
Line 25:
यद॑र्वाची॒नमेनो॒ भ्रू॒ण॒हत्या॑या॒स्तस्मांन्मु॒च्यते--, इति ।
Line 26 (Footnotes):
१ ग. ᵒति । इतरम्ᵒ । २ ख. ᵒत्तमम्ᵒ । ३ ग. प्रारप्स्यमाणकर्मप्रारंᵒ । ४ क. ग.
Line 27:
इमण्डᵒ । ५ ए. ग कूष्माण्डᵒ । ६ क. ख. ᵒइमण्डेन जुहुᵒ ।
Wait, let's check footnote 4 and 6:
४ क. ग. इमण्डᵒ ।
Wait, is it "इमण्ड" or "इश्मण्ड"?
Ah, "२ ख. ᵒत्तमम्ᵒ । ३ ग. प्रारप्स्यमाणकर्मप्रारंᵒ । ४ क. ग. इमण्डᵒ" -> wait, is that a symbol or 'इ' or '२'?
Wait! Look at the first letter of footnote 4:
It has a mark before मण्ड:
Wait, in line
१४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा० २अनु० ८]
भ्रूणहत्यासमस्यापि मुख्यभ्रूणहत्याया अर्वाचीनत्वात्तेन होमेन निवृत्तिर्युज्यते ।
भ्रूणहत्याया अर्वाचीनमपि तारतम्यतो भवति तस्मात्कथमेकेन होमेन निवृत्तिरित्या-
शङ्क्य दीक्षातारतम्येनेत्युत्तरं दर्शयति-
याव॑दे॒नो दी॒क्षामु॒पैति॑ दी॒क्षित ए॒तैः सं॒ततिं॑ जुहोति॒-, इति ।
अल्पं महद्वा यावदेनो भवति तदनुसारेणाल्पां महतीं वा दीक्षां कृत्वा तैस्त्येनस
उँचिते काले संतति प्रतिदिनं जुहोति तत्र तारतम्येन षड्दीक्षाभेदाः ।
तत्र प्रथमं दीक्षाभेदं दर्शयति-
सं॒व॒त्स॒रं दीक्षि॑तो भवति संवत्सरादे॒वाऽऽत्मानं॑ पुनी॒ते-, इति ।
न मांसमश्नीयादितिनियमचरणं दीक्षा पापाधिक्ये सति संवत्सरं दीक्षितो भूत्वा
तस्मिन्संवत्सरे प्रतिदिनं जुहुयात् । तया संवत्सरदीक्षया स्वात्मानं शोधयति ।
पाँपानुसारेण दीक्षायाः पक्षान्तराणि विधत्ते--
मासं॑ दी॒क्षितो॑ भवति॒ यो मासः॒ स सं॑वत्स॒रः सं॑वत्स॒रादे॒वाऽऽ-
त्मानं॑ पुनीते॒ चतु॑र्विꣳशतिꣳ रात्रीर्दीक्षि॑तो भवति॒ चतु॑र्विꣳशति-
रर्धमासाः॒ सं॑वत्स॒रः सं॑वत्स॒रादे॒वाऽऽत्मानं॑ पुनीते॒ द्वाद॑श
रात्री॒र्दीक्षि॑तो भवति॒ द्वाद॑श॒ मासाः॒ सं॑वत्स॒रः सं॑वत्स॒रा-
दे॒वाऽऽत्मानं॑ पुनीते षड्रात्री॒र्दीक्षि॑तो भवति॒ षड्वा ऋ॒तवः॒
सं॑वत्स॒रः सं॑वत्स॒रादे॒वाऽऽत्मानं॑ पुनीते तिस्रो॒ रात्री॒र्दीक्षि॑तो
भव॑ति त्रिपदा॑ गाय॒त्री गाय॒त्रिया ए॒वाऽऽत्मानं॑ पुनीते॒-, इति ।
पापबाहुल्ये सति संवत्सरनियमेन या शुद्धिः पापाल्पत्वे सा शुद्धिर्मासमात्रेण संम-
वाप्यते । एवमुत्तरॆष्वपि । अतः सर्वेषां संवत्सरसाम्यम् । गायत्रीपादानां त्रित्वसा-
म्येन त्रिरात्रदीक्षाया गायत्रीत्वात्तयैव शुद्धिर्भवति ।
अथ नियमान्विधत्ते--
न माꣳसम॑श्नीया॒न्न स्त्रिय॑मु॒पेया॒न्नो-
पर्यीसी॑त॒ जुगु॑प्सेता॒नृता॒त्-, इति ।
१ ग. ॰ते । तेन भ्रू॰ । २ ग. ॰चीनानाम॰ । ३ ग. ॰तम्पोपेतत्वात्क॰ । ४ क. तदेन॰ ।
५ ग. उपचिते । ६ ग. ॰ले प्र॰ । ख. षड्भेदा दीक्षाः । त॰ । ग. षड्भेदाः । ८ ख. ॰दित्य॰-
दिनि॰ । ९ ख. ग. दीक्षायाः । १० ग. पापह्रासानु॰ । ११ ग. गायत्र्या । १२ ख. संपाद्यते । ग.
समाप्यते १३ क. ॰त्तरेष्वपि ।
[प्रपा०२अनु०९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १४१
उपरि खट्वा॑दौ । स्पष्टमन्यत् ।
अथ वर्णभेदेन दीक्षादिनेषु भोजनद्रव्यविशेषं विधत्ते—
पयो॑ ब्रा॒ह्म॒णस्य॑ व्र॒तं यवा॑गू रा॑ज॒न्य॑स्याऽऽमि॒क्षा वैश्य॑स्य—इति ।
व्रतं भोजनमित्यर्थः ।
तदेतद्व्रतं प्रशंसति—
अथो॑ सौ॒म्येऽप्य॑ध्व॒र ए॒तद्व्र॒तं ब्रू॑यात्—,इति ।
अपि च न केवलं कूष्माण्डहोमकर्मण्येवैतद्व्रतं किंतु सोमयागेऽप्येतदेव दीक्षा-
व्रतं कर्तव्यमित्येव ब्रूयात् । यस्मान्महत्यपि यज्ञे व्रतमिदमपेक्षितं तस्मादिदं
प्रशस्तम् ।
अशक्तं प्रति कंचिद्विशेषं विधत्ते—
यदि॑ मन्ये॒तोप॑दस्या॒मीत्यो॑द॒नं धा॒नाः सक्तू॑न्घृ॒-
तम॒ित्यनु॑व्रतयेदा॒त्मनो॑ऽनु॑पदासाय (१), इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठकेऽ-
ष्टमोऽनुवाकः ॥ ८ ॥
दीक्षितो यथोक्तव्रतेनोपदस्याम्युपक्षीणो भवामीति यदि मन्येत, तदानीं यथोक्त-
दीक्षादिव्रतमनु शरीरस्योपक्षयपरिहारार्थमोदनादिकं यत्किंचिदनुव्रतयेद्भुञ्जीत । धाना
भृष्टयवतण्डुलाः । सक्तवस्तत्पिष्टानि । इतिशब्देनेदृशमन्यदपि विवक्ष्यते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठकेऽष्टमोऽनुवाकः ॥ ८ ॥
अथ द्वितीये नवमोऽनुवाकः ।
अस्य प्रपाठकस्य स्वाध्यायब्राह्मणमिति समाख्यातः स्वाध्याय एवात्र प्राधान्येन
विधेयः । तस्मिंश्च शुद्धः पुमानधिकारी । अतः शुद्धिहेतून्यज्ञोपवीतसंध्यावन्दनकूष्मा-
ण्डहोमानभिधाय स्वाध्यायं विधातुमुपाख्यानमाह—
अजा॑न्ह॒ वै पृश्नी॑ग्ंस्तप॒स्यमा॑नान्ब्रह्म॑ स्वय॒म्भ्व॑भ्या॑नर्षत्त
ऋष॑योऽभवन्तत्तदृषी॑णा॒मृषि॑त्वं तां दे॒वता॒मुपा॑तिष्ठन्त य॒ज्ञ-
कामा॑स्त ए॒तं ब्रह्म॑य॒ज्ञम॑पश्यन्तमाह॒रन्तेना॑यजन्त--, इति ।
१ ख. ग. ख्यानात्स्वाध्या° । २ क. तस्मिञ्शुद्धः ।
१४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०२अनु०९]
कल्पादावेव ब्राह्मणाः सृष्टा न ह्यस्मदादिवत्कल्पमध्ये पुनः पुनर्जायन्ते तस्मादृजाः ।
ते च पृश्नयः शुक्लाः स्वरूपेणैव निर्मलाः सन्तोऽपि पुनस्तप आचरन् । तदीयेन
तपसा तुष्टं स्वयंभू ब्रह्म जगतकारणत्वेन स्वतः सिद्धं परब्रह्मवस्तु कांचिन्मूर्तिं धृत्वा
तपस्यमानांस्तानृषीननुग्रहीतुमभ्यानर्षदाभिमुख्येन प्रत्यक्षमगच्छत् । ततस्ते मुनय
ऋविधात्वर्थविषयत्वान्ऋषयोऽभवन् । तस्मादन्येषामपि ऋषीणामनयैव व्युत्पत्त्यार्षित्वं
संपन्नम् । ततस्ते मुनयः सर्वकामप्रदं कांचिद्यज्ञं कामयमानाः स्वयंभुब्रह्मरूपां तां देव-
तामुप्रासितवन्तः । तद्देवतानुग्रहात्ते मुनय एतं वक्ष्यमाणं ब्रह्मयज्ञं सर्वकामहेतुमप-
श्यन् । दृष्ट्वा च तं यज्ञमाहरन्ननुष्ठितवन्तः । तेन यज्ञेन देवानपूजयन्त ।
ब्रह्म वेदस्तस्याध्ययनमेव संपादितं न तु यज्ञत्वमिति मतिं वारयितुं तत्राऽऽहुतीः
संपादयति—
यदृचो॒ऽध्यगी॑षत॒ ताः पय॑आहुतयो दे॒वाना॑मभव॒न्यद्यजूꣳ॑षि
घृ॒ताहु॑तयो॒ यत्सामा॑नि॒ सोमा॑हुतयो॒ यदथ॑र्वाङ्गि॒रसो॒ मध्वा॑-
हुत॑यो॒ यद्ब्रा॑ह्म॒णानी॑तिहासपु॒राणा॑नि क॒ल्पान्गाथा॑
नारा॒शꣳसी॒र्मेदा॑हुतयो दे॒वाना॑मभवन्ताभिः॒ क्षुधं॒ पाप्मा॑-
नमपा॑हन्नपहतपाप्मानो दे॒वाः स्वर्गे लो॒कमा॑यन्ब्रह्म
). Wait, look at the line below: Line 19: मानि ।(indented/cut?) Wait! Look at line 18 end:तेषांLine 19:मानि ।->तेषां नामानि ।! Wait! Look at the left margin of line 19: It says मानि ।! Where is ना? It is cut off! The crop cut off the first letter or two on the left for lines 13, 17, 18, 19! Wait, let's look at the left edge: Line 13: यज्ञान्विधत्ते—-> wait, from line 12:पञ्च महा--> line 13:यज्ञान्विधत्ते—! So महा-यज्ञान्विधत्ते! Nothing is cut off there, or यज्ञान्is full. Line 16:एवं यज्ञानांLine 17:यन्तेऽनुष्ठीयन्ते-> from line 16प्रता-->प्रतायन्ते! So यन्तेis full! Line 18: wait, beforeनेव दिनेorन्नेव दिने? Wait, from line 17: तस्मि-->तस्मिन्नेव दिने`! So the start of line
orᳵor gum with 5? In some South/Maharashtra editions,ꣳis represented byं५(anusvara with 5, representing five matras or gum). Yes! In Anandashram,ं५represents the gum-kara (anunasika)! Wait, let's keep it exactly as printed:बलिं५orबलिꣳ? It is clearly printed as बलिं५(with५being a small character). Let's writeबलिं५` to be faithful to the print.
Wait, what about the footnote markers?
In line 6: बहिर्देशे१
In line 16: वाक्यमधीयीतेति४ (or superscripts ¹, ⁴)
Wait, let's look for marker 2 and 3 in the text:
Where is 2? Line 5: तद्भूतयज्ञः? No.
Wait, let's check line 22: footnote 3 is ३ क. रसस्य सा॑ ।
Look at line 22: नारा॒शꣳसी॒र्मेद॑सः कूल्या॑ अम्य -> wait, रसस्य सा! मेदसो कूल्या अस्य -> मे॑द॑सः कूल्या॑ अस्य vs रसस्य सा!
Wait, let's transcribe line by
: under त्रे॒thick typeset bar माल॒भ्य: under ल॒` thick typeset bar
- In line 3:
क॒ल्पान्: underक॒thick typeset bar
नाराश॒ꣳसीर्मेदा॑: underश॒thick typeset bar
भिरे॒व: underरे॒thick typeset bar
तद्दे॒वाꣳस्त॑-: underदे॒thick typeset bar - In line 4:
र्पयति॒: underति॒
तृ॒प्ता: underतृ॒
आयु॑षा॒: underषा॒
तेज॑सा॒: underसा॒
वर्च॑सा॒: underसा॒
श्रिया॒: underया॒ - In line 5:
वर्च॒सेनान्ना: underर्च॒
Now look at Line 1 and 2:
Line 1:
यद्यजूꣳ॑षि घृताहु॑तिभि॒र्यत्सामा॑नि सोमा॑हुतिभि॒र्यद-
भि॒: thick bar underभिभि॒: thick bar underभि
Line 2:
Look at the bars:
- Under
र्वा॒: thick typeset bar! - Under `मध्वा॑
शिरःप्रभृतीन्हृदयपर्यन्तानवयवान्क्रमेण स्पृष्ट्वा दर्भाणां महदित्यादिना वक्ष्यमाणेन
सहान्वयः ।
अथाऽऽचमनादीन्प्रशंसति—
यत्त्रिराचा॒मति॒ तेन॒ ऋच॑ः प्रीणाति॒ यद्द्विः परि॑-
मृ॒ज॑ते॒ तेन॒ यजूं॑ᳵषि॒ यत्सकृ॑दुप॒स्पृश॑ति॒ तेन॒
सामा॑नि॒ यत्स॒व्यं पा॒णिं पादौ॒ प्रोक्ष॑ति॒ यच्छिर॒-
श्चक्षु॑षी॒ नासि॑के॒ श्रोत्रे॒ हृदय॒माल॑भते॒ तेनाथ॑र्वा-
ङ्गि॒रसौ॑ ब्राह्म॒णानी॑तिहा॒सान्पु॑रा॒णानि॑ क॒ल्पा-
न्गाथा॑ नारा॒शꣳसीः॑ प्रीणा॒ति— , इति ।
अत्र सव्यपाणिपादयोः प्रोक्षणानुवादादेव प्रोक्षणविधिरुन्नेतव्यः ।
हृदयस्पर्शनोत्तरभाविकर्तव्यं विधत्ते—
दर्भा॑णा
[प्रपा०२अनु०११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १४७
च्चारणेनोपक्रमं कुर्यात् । योऽयमोमित्येवंरूपो यजुर्मन्त्रः स त्रयीं विद्यां प्रति वेदत्र-
यस्य प्रतिनिधिरूपः । अत एव प्रणवगतानामकारोकारमकारमात्राणां वेदत्रयरूपेणाध्य-
यनमाथर्वणिका आमनन्ति—“ तस्य ह वै प्रणवस्य पूर्वा मात्रा पृथिव्यकारः स
ऋग्भिर्ऋग्वेदोऽथ द्वितीयाऽन्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदस्तृतीया द्यौः स मकारः
स सामभिः सामवेदः ” इति । किंचैषा प्रणवरूपा सर्वा वागपि । अत एव च्छन्दोगा
आमनन्ति-“ तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक्संतृष्णा ”
इति । अश्वत्थपत्रे दृश्यमानास्तन्तुसदृशा अवयवाः शङ्कवः, तैर्यथा कृत्स्नानि पर्णानि
व्याप्तानि तद्वदोंकारेण सर्वाऽपि वाग्व्याप्ता । ऐतरेयेऽपि प्रणवादेरकारस्यैव सर्ववाग्व्या-
प्तिमामनन्ति-“ अकारो वै सर्वा वाक्सैषा स्पर्शोष्माभिर्व्यज्यमाना बह्वी नानारूपा भवति ”
इति । अत एव मातृकामन्त्रे सर्वानपि ककारादीन्वर्णानकारशिरस्कानेव पठन्ति । य-
( त )स्माद्युक्तं प्रणवस्य सर्वात्मकत्वम् । किंचैतत्प्रणवस्वरूपमुत्कृष्टमक्षरमविनश्वरं सर्व-
वेदान्तवेद्यं परब्रह्म वस्तु । अत एव पिप्पलादशाखायामधीयते-“ एतद्वै सत्यकाम
परं चापरं च ब्रह्म यदोंकारः ” इति । कठाश्च पठन्ति-“ एतदेवाक्षरं ब्रह्म एतद्दे-
वाक्षरं परम् ” इति । तस्मात्प्रणवेनैव स्वाध्यायप्रारम्भो युक्तः ।
प्रणवप्रशंसापरामृचमवतारयति—
तदे॒तदृचाऽभ्यु॑क्तम्—, इति ।
तदेतत्परब्रह्मस्वरूपं प्रणवाक्षरं कयाचिदृचा स्पष्टमुक्तम् ।
तामृचं दर्शयति—
ऋचो॒ अक्ष॑रे पर॒मे व्यो॑म॒न्यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुर्यस्तन्न
वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सत॒ इति–, इति ।
या एता ऋचस्ताः सर्वाः परम उत्कृष्टे व्योमन्विशेषेण रक्षकेऽक्षरे प्रणवे निषे-
दुराश्रिताः । अत एव कठशाखायामधीयते—
“ सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् ” इति ।
न केवलमृच एव तस्मिन्प्रणवे समाश्रिताः किंतु विश्वे सर्वे देवा अपि यस्मिन्प्र-
णवाक्षरेऽधिनिषेदुः, अधिकत्वेन निष्णाः । अत एवोत्तरतापनीये देवानां परमात्म-
ध्यानार्थं प्रणवपर्यवसानमुक्तम् —“ आत्मानमनुष्ठुभाऽन्विष्य प्रणवेनैव तस्मिन्नवस्थिताः ”
१ क. ख. पूर्वमा॰ । २ ग. ॰रेयास्तु प्र॰ । ३ क. ख. ॰वेन स्वा॰ । ४ ग. ॰णवं प्र॰ ।
५ ग. ॰शंस्याप॰ । ६ क 'ष्ठमन्वि॰ ।
१४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा०२अनु०११]
इति । अनेनैव प्रकारेणर्चो देवाश्च यस्मिन्प्रणवे निषेदुस्तत्प्रणवाक्षरं यो न वेद स
पुमानधीयानोऽपि ऋचा किं करिष्यति, न खलु फलरहितां केवलां कृषिं केचि-
त्प्रार्थयन्ते । य इह्ये पुनर्महात्मानस्तत्प्रणवाक्षरं विदुस्ते महर्षय इमे परिदृश्यमानाः
परमहंसाः समासते सम्यगवतिष्ठन्ते । ऐहिकामुष्मिकविषयक्लेशरहिताः सुखिनो वर्तन्ते ।
तांश्च परमहंसाञ्जाबालशाखाध्यायिन उदाहरन्ति—" तत्र परमहंसा नाम संवर्तका-
रुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रेयरैवतकप्रभृतयः ” इति । ईत्यनेन मन्त्रेण
प्रशस्तत्वात्प्रणवस्य वेदत्रयप्रतिनिधित्वं युक्तम् ।
तेन प्रणवेन प्रारभ्य पश्चात्पठनीयान्मन्त्रान्दर्शयति—
त्रीने॒व प्रा॒युङ्क्त॑ भूर्भुव॒ः स्वर्वि॒त्या॑है॒तद्वै वाच॒ः
स॒त्यं यद्दे॒व वाच॒ः स॒त्यं तत्प्रा॒युङ्क्त—,इति ।
भूर्भुवः स्वरिति यद्व्याहृतित्रयं तल्लोकत्रयात्मकब्रह्मप्रतिपादकं तदाह पठेत् ।
तेन त्रीनेव वेदान्प्रयुक्तवान्भवति । व्याहृतीनां वेदत्रयसारत्वेन प्रोक्तत्वात् । एतच्च
च्छन्दोगा अधीयते—"स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्भूरि-
त्यृग्भ्यो भुव इति यजुर्भ्यः स्वरिति सामभ्यः” इति । [ एतद्व्याहृतित्रयं ] वेदत्रयसा-
रत्वेन प्रोक्तत्वाद्वाचः संबन्धि सत्य(त्यं) स्वरूपमित्युच्यते । अतस्तत्सत्यमेव प्रयुक्त-
वान्भवति ।
व्याहृतित्रयादूर्ध्वं पठनीयं दर्शयति—
अथ॑ सावि॒त्रीं गा॑य॒त्रीं त्रि॒रन्वा॑ह प॒च्छोऽर्ध॒र्चशोऽन॑वान ३
स॑वि॒ता श्रिय॑ः प्रसवि॒ता श्रिय॑मे॒वाऽऽप्नो॒त्यथो॑ प्र॒ज्ञात॑यैव
प्र॒ति॒पदा॒ छन्दा॑ꣳसि प्रति॑पद्यते ( १ ), इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठक
एकादशोऽनुवाकः ॥ ११ ॥
अथ व्याहृत्यनन्तरं सावित्रीं सवितृदेवताकां गायत्रीच्छन्दस्कां तत्सवितुरित्यादि-
कामृचं च त्रिः पठेत् । तत्रायं प्रकारः । प्रथमं पादशः पादे पादे विरम्य पठेत् ।
ततोऽर्धर्चश एकैकस्मिन्नर्धे विरम्य पठेत् । ततोऽनवानं विरामरहितं यथा भवति
तथा पठेत् । तस्यामृचि प्रतिपाद्यो यः सविता सोऽयं श्रियः प्रेरकः, अतो ब्रह्म-
यज्ञानुष्ठायी श्रियं प्राप्नोत्येव । एवमेकस्मिन्नहनि विधानमुक्तम् । अथो अनन्तरम् ।
१ क. फलरहितां । ग. वृषरहितां । २ क. ख. ॰रतात्रे॰ । ३ ग. इत्याङ्गिरसम' । ४ ख.
॰न वाचः ।
[प्रपा०२अनु०१२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् १४९
तदा¹दिदिवसेषु, प्रज्ञातयैव प्रतिपदा पूर्वस्मिन्दिवसे किंचित्पठित्वा परेद्युरनुष्ठा²ना-
यायमुपक्रम इति या प्रतिपत्प्रज्ञाता यः प्रारम्भप्रदेशो बुद्धौ स्थापितस्तयैव प्रतिपदा
प्रारम्भप्रदेशेन च्छन्दांसि वेदावयवान्परेद्युः प्रतिपद्यते प्रारभते । पूर्वेद्युर्यावद्व्यवसितं
तत एवाऽऽरभ्योत्तरेद्युरधीयीत न तु³ विप्रयुक्तं कांचिद्देवभागम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठक एकादशोऽनुवाकः ॥ ११ ॥
अथ द्वितीयप्रपाठके द्वादशोऽनुवाकः ।
यत्पूर्वमुक्तं प्राच्यां दिशि ग्रामाद्बाहिरित्यादि । तत्राशक्तस्यानुकल्पं विधत्ते—
ग्रामे॒ मन॑सा स्वाध्या॒यम॑धीयी॑त दिवा॒ नक्तं॑ वा—इति ।
यदा बहिर्गन्तुमशक्तो ग्रामेऽधीयते तदा मन⁴सैवाधीयीत । उदित आदित्ये प्रार-
ब्धुमशक्तश्चेद्दिवा नक्तं⁵ वाऽधीयीत ।
कस्यचिन्महर्षेर्मते मुख्य एवायं पक्षोऽपीति दर्शयितुं⁶ तमृषिमुदाहरति--
इति॑ ह॒ स्माऽऽह॒ शौच॒ आह्ने॑यः—, इति ।
शुचिनामकस्य महर्षेः पुत्रः शौर्चः⁷, अहिसंज्ञाताया मातुः पुत्र आह्नेयो मह-
र्षिरिति ह स्माऽऽह ग्रामे मनसेत्यादिकमपि मुख्यपक्षमे(ए)वेत्याह ।
नियमान्तरेष्वेप्यशक्तस्यानुकल्पान्विधत्ते—
उ॒तार॑ण्येऽबल॑ ९ उ॒त वा॒चोत १० तिष्ठ॑न्नुत व्रज॑न्नुताऽऽ-
सी॑न उ॒त शया॑नोऽधीयी॒तैवै स्वा॑ध्या॒यं तप॑स्वी
पु॒ण्यो॑ भवति य ए॒वं वि॒द्वान्त॒त्स्वा॑ध्या॒यमधी॑ते—,इति।
ग्रामे मनसाऽध्ययनमुक्तम्, अरण्येऽप्यबलोऽशक्तश्चेन्मनसाऽधीयीतै । तमेवाबलं ११
प्रत्युत वाचेति पक्षान्तरमुच्यते । उच्चैरध्येतुमशक्तः केवलेन मनसौ, यदा निद्रालस्य-
चिन्तादिकं भवति तदानीं वाचा जिह्वास्पन्दनमात्रेणाधीयीत । दर्भेषूवासीन इति यदुक्तं
तत्राऽऽसननिर्वन्धे १२ शक्तिरहितस्योत व्रजन्नित्यादयः पक्षाः । आलस्यपरिहारायेत-
१ ख. ग. ॰दिवि॑॰ । २ क. ॰ष्ठायी यत उपक्रामते सा प्रतिपत्प्रज्ञातया प्रारम्भप्रदेशेषु
थापितया तयैव । ३ क. ख. तु यं कं॰ । ४ क. ख. ॰नसःऽधी॰ । ५ ख. ग. नक्तमधी॰ । ६ ग.
यितुमेत॑ । ७ क. ख. ॰र्षेः शौ॑॰ । ८ ग ॰चः, इति। अ॑॰ । ९ ख. ग. ॰ब्वश॑॰ । १० घ.
चोदति॑ । ११ ख. ॰त : बलवन्तं प्र॰ । १२ क. ख. ॰सा नि॰ । १३ क. ॰ह्वादिस्प॰ । ख.
ह्वाक्ष्यादिस्प॰ ।
१५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०२अनु०१३]
स्ततः शनैर्व्रजन्वा क्वचिदेव तिष्ठन्वा नियममन्तरेण स्वेच्छयैवोपविश्य वा शयानो वा
शक्त्यनुसारेण स्वाध्यायमधीयीतैव । न त्वङ्गलोपानुसारेण प्रधानस्य लोपो न्याय्यः।
तादृशस्वाध्याययुक्तोऽपि तपस्वी भवति, अध्ययनफलं प्राप्नोति । पुण्यः पङ्क्तिपाव-
नश्च भवति ।
एतस्य ब्रह्मयज्ञस्याङ्गभूतं कंचिन्मन्त्रं प्रदर्शयति—
नमो॒ ब्रह्म॑णे नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒
ओष॑धीभ्यः । नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये
नमो॒ विष्ण॑वे बृह॒ते क॑रोमि (१), इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
द्वादशोऽनुवाकः ॥ १२ ॥
ब्रह्मशब्देन वेदः प्रजापतिर्वोच्यते । वाक्शब्देन सरस्वती । वाचस्पतिर्बृहस्पतिः ।
प्रशस्तत्वाद्विष्णुर्बृहत् । अस्य मन्त्रस्य विनियोग उपरिष्टाद्भविष्यति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये द्वितीयप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥
अथ द्वितीये त्रयोदशोऽनुवाकः !
तत्रैव ब्रह्मयज्ञे कंचिदन्यं विशेषं विधत्ते—
म॒ध्यंदि॑ने प्रबलमधीयी॒तासौ खलु॒ वावैष आ॑दि॒त्यो यद्ब्रह्म॑-
ण॒स्तस्मा॒त्तर्हि॑ तेजिष्ठं॑ तप॑ति॒ तदे॒षाऽभ्यु॒क्ता—इति ।
मध्यंदिनकाले प्रबलमुच्चतरं यथा भवति तथाऽधीयीत । योऽयं ब्रह्मयज्ञानुष्ठाता
ब्राह्मणोऽस्ति स एषोऽसौ दिवि दृश्यमान आदित्य एव तत्प्राप्तियोग्यत्वात् । यस्मा-
दादित्यरूपो ब्राह्मणो मध्यंदिने प्रबलमधीयीत तस्मात्तदात्मक आदित्योऽपि तर्हि
मध्यंदिने काले तेजिष्ठमतिशयेन तीक्ष्णं यथा भवति तथा तपति । तदेतदादित्यप्र-
हात्म्यं प्रति काचिदृगभ्युक्ता ।
तामेतामृचं दर्शयति—
चि॒त्रं दे॒वाना॒मुद॑गादनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒
द्यावा॑पृथि॒वी अ॒न्तरि॑क्षꣳ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्चेति,–इति ।
१ क. ख. ॰धीयते त° ।
[प्रपा०२अनु०१३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १५१
देवानां दीप्यमानानां रश्मीनामनीकं समूहावष्टम्भनरूपमादित्यमण्डलं चित्रं काल-
भेदेनारुणशुक्लादिवर्णोपेतत्वाच्चित्रं तादृशं मण्डलमुदगात्पूर्वस्यां दिश्युदयं२ प्राप्नोत् ।
तच्च मण्डलमन्धकारनिवारणोपयुक्तत्वान्मित्रादीनां चक्षुःस्थानीयम् । तदर्थमेवैायं लोक-
त्रयमाप्रा रश्मिभिरापूर्य वर्तते । तन्मण्डलवर्ती४ सूर्यरूपः परमात्मा जगतो जङ्गमस्य
तस्थुषः स्थावरस्याऽऽत्मा जीवरूपेण शरीरेष्ववस्थितः । इत्यनेन मन्त्रेणाऽऽदित्य-
माहात्म्यमवगन्तव्यम् ।
ब्रह्मयज्ञस्येतरयज्ञवैलक्षण्यं दर्शयति—
स वा ए॒ष य॒ज्ञः स॒द्यः प्र॒ताय॑ते स॒द्यः
संति॑ष्ठते॒ तस्य॑ प्रा॒क्साय॑मव॒भृथः—,इति ।
अयं ब्रह्मयज्ञो यस्मिन्नहनि प्रारभ्यानुष्ठीयते तस्मिन्नेवाहनि समाप्यते नतु यज्ञा-
न्तरवदितरादिनेष्वनुगच्छति तस्मात्प्रातःकाले प्रारब्धस्य तस्य यज्ञस्य सायमव-
भृथः समाप्तिः ।
समाप्तिकाले मन्त्रविशेषं विधत्ते—
नमो॒ ब्रह्म॑ण॒ इति॑ परिधानीयां त्रि॒रन्वा॑ह—,इति ।
परिधीयते समाप्यते यया सेयमृक्परिधानीया । सा चात्र पूर्वानुवाक आम्नाता,
※ नमो ब्रह्मणे इत्येषा, तां त्रिः पठेत् ।
तत्पाठादूर्ध्वं कर्तव्यतां दर्शयति—
अप॒ उप॑स्पृ॒श्य गृ॒हाने॑ति॒ ततो॒ यत्किंच॑
ददा॑ति॒ सा दक्षि॑णा ( १ ), इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
त्रयोदशोऽनुवाकः ॥ १३ ॥
सेयं दक्षिणा गृह एव न चारण्य इत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये द्वितीयप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥
═════════════════════════════════
१ ग. ॰मूहनानाम्° । २ ग. ॰मेव लो° । ३ ख. 'बाह लो° । ४ क. ख. ॰र्ती प° ।
॰तवृ° ।